39 उत्क्रान्तिः

उच्चिक्रमिषतः सर्वस्य पूर्वं वागिन्द्रियं तदनु च शेषाणि नवेन्द्रियाणि मनसा सहाविभागं गच्छन्ति। तच्च सर्वेन्द्रियसंयुक्तं मनः प्राणेन। स च एकादशेन्द्रियसंयुक्तो जीवेन। स च इन्द्रियप्राणसंयुक्तः पञ्चभूतैः। तानि च इन्द्रियप्राणजीवसंयुक्तानि परमात्मना। एतावच्च विद्वदविदुषोः साधारणम्। अविदुषस्तु विशेषः प्रागेवोक्तः। विद्वांस्तु सर्वोऽपि मूर्धन्यया ब्रह्मनाड्या सुखेन शरीरात् निष्क्रामन् अर्चिरहस्सित पक्षोदगयनाब्द मरुदर्केन्दु वैद्युत वरुणेन्द्र प्रजापति संज्ञैरातिवाहिकैः पुरुषैः क्रमाद्यथास्वं देशमतिवाह्यमानो वैद्युतेनामानवनाम्ना तेनैव क्रमात् वरुणादि- समीपं नीतस्तेन ब्रह्मसमीपमुपनीयते। एषैवार्चिरादिगतिः कर्मणामन्यसंक्रान्तिश्च
“सम्भूतिञ्च विनाशञ्च यस्तद्वेदोभयं सह।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते॥”
इति सम्भूतिविनाशशब्दाभ्यामुच्यते। कर्मणां विनाशेन हि संसारतरणम्। अर्चिरादिसम्भूत्या च ब्रह्मप्राप्तिः। “सम्भूतिमुपासते” इत्यत्रोपासनं चिन्तनमात्रमेव। सम्भूति शब्दश्च प्राप्तौ बहुशः प्रयुक्तः, “तेऽर्चिषमभिसम्भवन्ति, एतमितः प्रेत्याभिसम्भवितास्मि, ब्रह्मलोकम् अभिसम्भवानि” इत्यादिषु। नारायणार्यैस्तु सम्भूतिविनाशशब्दौ फलद्वारा लक्षणया विद्याकर्म विषयावुक्तौ “विदुषो विद्यासाध्यस्यापवर्गस्यसम्यगभिवृद्धिरूपत्वात्” इत्यादिना। एवञ्च “विद्याञ्च अविद्याञ्च यस्तद्वेदोभयं सह” इत्यादि श्रुत्यैकार्थ्यं स्यात्। उत्क्रम्य गच्छतश्चास्य सर्वकर्मक्षयेऽपि च विद्यामाहात्म्यादेव सूक्ष्मशब्दाभिलप्यं किञ्चित् त्रिगुणद्रव्यमुपष्टम्भकमनुवर्तते। उक्तञ्च सारे “शरीरादुत्क्रान्तस्यापि सूक्ष्मशरीरमनुवर्तते” इत्यादि। अत एव च प्राथमिकसाक्षात्कारः प्रत्यूषकल्प इति गतिसाफल्यम्। निश्शेषाविद्याविनाशश्च विशिष्टदेशगतिसापेक्ष इति गतिशास्त्रादेव अध्यवशीयते। तथा च “परं जैमिनिर्मुख्यत्वात्” इति सूत्रे भाष्यम् “यथा हि विद्योत्पत्तेर्वर्णाश्रमकर्म शौचाचारदेशकालाद्यपेक्षा” “तमेतं वेदानुवचनेन” इत्यादि शास्त्रादवगम्यते, तथा निश्शेषाविद्या निवर्तनरूपविद्या निष्पत्तिरपि विशिष्टदेशगतिसापेक्षेतिगतिशास्त्रादवगम्यते" इति। उत्क्रमणप्रभृति च उत्तरोत्तरमतिशयित ज्ञानानन्दशाली जायते। प्राणेन्द्रियादिमत्वाच्च मध्ये भोग विहार संवादादि उपपत्तिः। अमानवकरस्पर्शादारभ्य चासौ मुक्तः। ततः पूर्वः सर्वोऽप्युपायव्यापारः। फलं परमपद- पर्यङ्कारोहणादिकम्। तथा चायमीश्वर इवापहतपाप्मत्वसत्यसङ्कल्पत्वादिविशिष्टो भवति। तच्चास्य समस्तप्रतिबन्धकात्यन्तिकलयादाविर्भूतं स्वाभाविकं रूपम्। ततः परं अस्य कदाचिदपि न संसारात्मिका पुनरावृत्तिः। प्रथमं तावदकालकाल्यत्वाजरत्वाक्षरत्वादिवचनेन देशलयाभावात्, “स यदि पितृलोककामो भवति” इत्यादिना अनायासस्वसङ्कल्पमात्रसृष्टपरमपुरुषभोगनिर्मग्नाप्राकृत भोगरूपत्वेन संसारत्वाभावात्। सृष्यादिजगद्व्यापारमोक्षप्रदत्वमुमुक्षूपास्यत्वशेषित्वादिरूप भगवत् असाधारणधर्मव्यतिरिक्तज्ञानानन्दसत्यसङ्कल्पत्वादिगुणात्यन्तसाम्यातिरेकेणसायुज्यन्तु गगनारविन्द मकरन्दवार्तामनुसरति। न तावत् सायुज्यं ब्रह्मणि लयः ; अग्निवाय्वादिसायुज्येऽपि लय प्रसङ्गात्। नापि साधारणसरीरवत्त्वम् ; जीवशरीरापेक्षया संसारेऽपि समत्वात्। ईश्वर शरीरापेक्षया मोक्षेऽप्ययोगात्। एवमन्यदपि। किं तर्हीदम्? समानात्मगुणयोगित्वम्। तत्रैव चास्य स्वारस्यम्। सयुग्भावो हि सायुज्यम्। सयुक्छब्दश्च भिन्नयोरेकत्र साधारणयोगं दर्शयति। “परमं साम्यमुपैति” “मम साधर्म्यमागताः” इत्यादिबलाच्च “ब्रह्मैव भवति” इत्यादीनामपि साम्य एव तात्पर्यमिति प्रागेवोपपादितम्। अग्न्यादिप्रप्तिस्तु सालोख्यादितारतम्यमस्ति। ब्रह्मप्राप्तौ तु सायुज्यरूपायां पूर्वं त्रयमप्यविनाभूतम्। यत्तु
“मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन।
इच्छाम्यहं महाभहो सायुज्यं तव सुव्रत॥
लोकेषु विष्णोर्निवसन्ति केचित्सनीपमृच्छन्ति च केचिदन्ये।
अन्येतु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः॥”
इत्यादि ; तदपि श्रीविष्णुलोकादि विचित्रावान्तरपदप्राप्त्यपेक्षयेति न दोषः॥
न च सेवा दुःखहेतुः सेवात्वादिति वाच्यम् ; अनीश्वरसेवापक्षीकारे सिद्धसाधनात्। ईश्वरपक्षीकारे बाधात्। सुखरूपेषु वदान्यसेवादिषु चानैकान्त्यात्। एतद्व्यतिरिक्तसेवा दुःखहेतुः सेवात्वात् एतत्सेवावदित्यत्रापि व्यतिरेकोपलक्षितव्यक्तिद्वयेंऽशतः सिद्धसाधनबाधयोरन्यतरनति- पातात्। एवं सेवामात्रपक्षीकारे दृष्टान्ताभावश्चाधिकः। केवलव्यतिरेकित्वविवक्षायां दुःखहेत्वन्तर सद्भावेन सपक्षवतस्तत्रावर्तमानस्य सेवात्वस्यासाधारणत्वप्रसङ्गात्। केवलव्यतिरेकी च निरसिष्यते। तर्कोऽपि निराश्रयो न साधकः। केवला व्याप्तिरप्रयोजिका। व्यभिचारश्चोक्तः। दुःखहेतुत्वे च पापावष्टब्धत्वमुपाधिः। निवृत्तस्वातन्त्र्याभिमानसाय दासभूतस्य ईश्वरसेवायाः स्वरूपानुरूपत्वेन सुखरूपत्वमेवोपपन्नम्॥
तदेवं विषयकारणस्वरूपविशेषविशिष्टज्ञानविशेषसाध्या मोक्षः, स च निर्दुःखनिरतिशया- नन्दरूपभगवदनुभवात्मक इति सिद्धम्। अन्येषां तु देहविच्छेदमात्रसहस्रयुवतिसम्भोगज्ञानालीक लयवासनात्यन्तविरामविषयोपरागवैधुर्यनित्योर्ध्वगमनार्हच्छरीरानुप्रवेशविशिष्टनिरावरणत्ववियतानुभव स्वातन्त्र्यश्वसारीप्यशिवसाम्यापत्तिचिच्छक्तिपरिशेषाविद्यानिवृत्त्युपाधिनिवृत्तिसकलवैशेषिकगुणोच्छेद
केवलात्मानन्दानुभवप्रभृतयो निश्रेयसविकल्पा देहातिरिक्तात्मसद्भावबाह्यार्थपारमार्थिकत्व तत्तदागमाप्रामाण्यब्रह्मनिर्विकारत्वनिर्दोषत्वज्ञानानन्दादिनित्यत्वप्रतिपादनादिभिर्दूषणीयाः। यदिह दृषदविशेषनिश्रेयसवादिनां दृषन्मतीनामिदमनुमानम्, आत्मा कदाचिदखिलविशेषदुणशून्यः अनित्य वैशेषिकगुणाश्रयत्वात् उत्पद्यमानघटप्रलयाकाशादिवदिति; तत्रागमबाधस्तावद्व्यक्तः। ज्ञानसंस्कार पक्षे हेतोरन्यतरासिद्धिश्च। ज्ञानादीनां भवदभिमतगुणत्वानभ्युपगमात् सिद्धसाधनं स्वरूपसिद्धिश्च। प्रलयाकाशदेरनभ्युपगमादुत्पद्यमानघटादेरपि सगुणत्वाभ्युपगमादुदाहरणस्याश्रयहीनत्वसाध्य विकलत्वे। प्रलयकालगतप्रकृत्यादेरपि सत्वादिगुणयोगात् परैरनभ्युपगमाच्च न तद्दृष्टान्तोपन्यासः। एवमस्मदीये ज्ञानसंस्कारपक्षे मुक्तावस्थायां ज्ञानस्याखिलविशेषगुणशून्यत्वमस्तु वा, मा वा, तथापि परानभ्युपगमात् नैष दृष्टान्तः। ज्ञानद्रव्यत्वतद्गतसंस्कारयोस्तैरनभ्युपगमादिति॥