न्यासविद्या निरूपणम्॥
अध्यवसायादि विशेषविशिष्टा न्यासविद्या। तस्या अपि बुद्धिविशेषत्वात् “नान्यः
पन्थाः” इत्यादिभिर्न विरोधः। भक्तिविशेषत्वाच्च “भक्त्या त्वनन्यया” इत्यादिभिः। यथाहुः
“साधनं भगवत्प्राप्तौ स एवेति स्थिरा मतिः।
साध्य भक्तिस्तथा सैव प्रपत्तिरिति गीयते॥
उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः।
उपायभक्तिरेतस्याः पूर्वोक्तैरेव गरीयसी॥
उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी।
साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी॥” इति॥
तस्या अपि हि शब्दान्तरादिभिः सद्विद्यादिभेदवत् भेदे सिद्धे सर्ववेदान्तप्रत्यय न्यायात् सर्वप्रपत्तिप्रकरणपठितगुणोपसंहारेण पौष्कल्ये च सिद्धे “विकल्पोऽवशिष्टफलत्वात्” इति न्यायेन विद्यान्तरसमुच्चयप्रसङ्गाभावः, त्याज्यसमुच्चये विरोधाच्च। भक्त्यङ्गभूता साचान्यैव ; अभिसन्धिभेधात्। यथा ऐश्वर्यसाधिका भक्तिरपवर्गोपायभक्तिभ्या भिध्यते, यथा च कर्मस्वरूप अविशेषेऽपि नित्यकाम्यज्योतिष्टोमभेदः। भक्तिविशेषभूतायास्तस्याः पृथगुपायत्वपरिगणनं कथम्? इति चेत् सकृदसकृत्त्वनिरपेक्षत्वादिभेदमाश्रित्येति मन्वीथाः। फलवैषम्याभावे लघूपाये सति गुरूपायविधानमनर्थकमिति चेन्न ; तादृशाध्यवसायादेर्दुष्करत्वेन गौरवाविशेषात्। तथोक्तं प्रपत्ति प्रकरणे “उपायः सुकरः सोऽयं दुष्करश्च मतो मम” इति। यथा च कश्चित् महता प्रयासेन महीपतेरर्थमासादयति, स्खलने च यथोचितं दण्डयते। अपरस्तु अन्तरङ्गसेवाक्षमः क्षोदीयसैव आयासेन तावन्तं तदधिकञ्च अर्थमासादयति, क्षुद्रेशु स्खलितेशु सह्यते, महत्स्वपि अल्पदणडो भवति। तत्रापि अन्तरङ्गसेवा मन्दभाग्यानां दुर्लभेति चेत् ; अत्रापि तथैव। यथा उपायभक्तिष्वेव तत्तच्छाखाभेदेन वर्णाश्रमभेदेन च अङ्गभूतानां कर्मणां गुरुलघुतारतम्येऽपि फलमविशिष्टम्, तथेहापि। कथम तर्हि “अतस्त्विरतज्यायोलिङ्गाच्च” इति सूत्रे “भूयोधर्मकाल्पधर्मकयोरतुल्य कार्यत्वात्” इति भाष्यम्? इत्थम् ; एकाधिकारिगोचरमुख्यगौणविषयं हि तत्। अन्यथा अधिक धर्मकाश्रमान्तरसूत्रान्तरादिष्वपि फलवैषम्यप्रसङ्गेन ज्यायस्त्वप्रसङ्गात्। उपायभक्तौ नित्य नैमित्तिक कर्मणां फलाभिसन्धिरहितकाम्यकर्मणाञ्च अङ्गत्वेनानुष्टानम्, न पुनः स्वातन्त्र्येण। निषिद्ध वर्जनं द्वयोरपि भक्त्योः समम्। साध्यभक्तौ तु काम्यानां स्वरूपतोऽपि त्यागः ; न तु नित्यानाम्। अङ्गिनः प्रहणात् तेषामपि तदङ्गानां परित्याग एवेति चेन्न ; स्वतन्त्राधिकार अनपायात्। तदेतदखिलं “उपायापायसन्त्यागी मध्यमां वृत्तिमास्थितः” इत्यादिभिर्विशदम् अवगन्तव्यम्॥
यत्तु - केचित् परित्यक्तसकलवर्णाश्रमधर्माः संवर्तभरतविदुरादयो ब्रह्मविदः सञ्चरन्तीति यथेष्टकरणकौतुकिनां प्रलपितम् ; तदसत्। तत्तत्प्रकरणेष्वेवजडवादाचरणज्ञान अभिसन्ध्यादिमात्रप्रतिपादनपरत्वनिर्णयात्, “बाल्येन तिष्टासेत्, जडवल्लोकमाचरेत्, सतां मार्गमदूषयन्” इत्यादीनां पर्यालोचनात्। बाल्य़ञ्च शक्तिविद्याभिजनाद्युत्कर्षाणां सतामनाविष्करणम् एव ; न तु कामचारवादभक्षकत्वादि। तथा च सूत्राणि “अनाविष्कुर्वन्नन्वयात्, सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्, शब्दश्चातोऽकामकारे” इत्यादीनि। अन्यथा “स खल्वेवं वर्तयन् यावदायुषं
ब्रह्मलोकमभिसम्पद्यते, नाविरतो दुश्चरितात्, वर्णाश्रमाचारवता” इत्यादि श्रुतिस्मृति शतप्रकोप प्रसङ््गः। कथं तर्हि उत्तरपूर्वाघयोरश्लेषविनाशौ वाच्यौ? इत्थम्, समधिगतविद्यानां भुक्तफलकृतप्रायश्चित्तप्रारब्लकर्मव्यतिरिक्तं प्राचीनं कर्म उपायप्रभावादेव अग्निप्रोतेषीकतूलवत् प्रदूयते। उत्तरञ्च अबुद्धिपूर्वकं पुष्करपलाश आप इव न श्लिष्यति। पुण्येऽपि विद्यानुकूलव्यतिरिक्तांशस्य सुखहेतुत्वेऽपि मोक्षविरोधित्वाविशेषात् अनिष्टफलतया पापशब्दाभिलप्यस्य अश्लेषविनाशावेव। “नाभुक्तं क्षीयते कर्म” इत्यादिकं तु विद्याभिन्नविषयम्। प्रारब्धं तु भोगेनैव क्षपणीयम्। सूत्रञ्च “भोगेन त्वितरे क्षपयित्वाथ सम्पद्यते” इति। प्रारब्धकर्मणाञ्च न तद्देहपातावधिकत्वनियमः कर्मणां विचित्रफलत्वात्। एतद्देहावसान एवेति न्यस्तभरस्य तु तस्य तद्देहपातावधिकत्वमेव, “यावन्न विमोक्ष्येऽथसंपत्स्ये” इत्यस्यापि प्रारब्धतत्तत्कर्मफलपर्यवसानविषयत्वात्। “अस्माच्छरीरात् समुत्थाय” इत्यादेरपि अन्तिमशरीरविषयत्वात्। अत एव “यावदधिकारमवस्थितिराधिकारिकाणाम्” इतिसूत्रम्। एतेन अन्तिमशरीरनिवृत्तौ देशकालनियमाभावोऽपि सिद्धः। सूत्राणि “निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च, अतश्चायनेऽपि दक्षिणे” इत्यादीनि। एवं बिद्धिपूर्वमुत्तरमपि भोगेन प्रारयश्चित्तेन वा क्षपणीयम्। न चैष प्रायशो विद्याननुकूलं पुण्यं पापञ्च बुद्धिपूर्वकं करोति फलाभिसन्धियुक्तपुण्यस्य च विद्याविरोधित्वात्, फलान्तरेषु च विरक्तत्वात्, पापे च ईश्वराज्ञाति लङ्घनभयात्। यदि च कदाचित् बुद्धिपूर्वकं करोति, तदा भीतः स्वयमेव तत्तदुचितं प्रायश्चित्तं करोति। अथ प्रमादात्तदपि न करोति ; तदापि प्रारब्धकर्म पर्यवसानात् प्रागेव तत्तत्कर्म यथाकथ़ञ्चित् फलति, न तु स्वयमेव जन्मादिप्रयोजकं भवति। अथ च जन्मादिहेतुरेव कर्मविशेषः शापादिर्वा उपनिपतितः ; तदा तेन तत्प्रसज्यत एव। तथापि निष्पन्नस्योपायस्य न शैथिल्यम्। स तु प्रारब्धकर्मण इव एतस्यापि पर्यवसाने संसारं निवर्तयति। न च पुनरुत्तरोत्तरकर्मकरणात् संसाराविच्छेद इति वाच्यम् ; शास्त्रविरोधात्, निष्पन्नस्योपासनस्य निष्फलत्वप्रसङ्गात्। सूत्राभिप्रेतञ्चैतत्। “एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः” इति। इदञ्च सूत्रं विद्याङ्गकर्मनिषयमपि विद्यायां तुल्यन्यायतया अनुसन्धेयम्॥
नन्वेवं समस्तकर्मप्रलये साधुपापकृत्ययोर्हानं सुहृद्विषदुपायनञ्च कथं घटते? तथा हि। न तावत् पूर्वकृतयोः ; तत्र केषाञ्चित् कर्मणां दत्तफलत्वात् केषाञ्चित् प्रायश्चित्त विद्याभ्यां विनष्टत्वात्, फलवत् तयोरपि कर्मस्वरूपनिवर्तकत्वात्। केषाञ्चित् प्रारब्धफलानां भोगेनैव क्षपितत्वात्, एवमुत्तरकृतानामबुद्धिपूर्वकाणाञ्च अश्लिष्टत्वात्, विद्यानुकूलानाञ्च विद्यैव फलभूतया निवृत्तत्वात्, तत्र च साधुकृत्यांशाभावात्। न च सुहृदादिकृतस्यैव कर्मणोऽनेन हानादिकमुपपद्यते; स्वकीयत्वाभावात्, दायसमोपायननिर्देशानुपपत्तेः। उपायनवाचोयुक्तिस्तत्सौहार्द शात्रवाभ्यां जनितत्वादौपचारिकीति चेन्न ; “हानौ तूपायनशब्दशेषत्वात्” इत्यादि सूत्र भाष्यादि विरोधादचिन्तनीयत्वप्रसङ्गाच्च प्रगेव सौहार्दादिकृतस्य दायसमकालप्रात्यभिधानविरोधाच्चेति। अत्रोच्यते ; दत्तफलम्, अदत्तफलञ्चेति पूर्वाघं द्विविधम्। अदत्तफलमपि प्रायश्चित्तविनष्टम्, अविनष्टञ्चेति। अविनष्टमपि प्रारब्धफलम्, अप्रारब्धफलञ्चेति। तत्रान्तिमं लिद्यया लिनाश्यम्। एवमुत्तरमपि विद्यानुकूलम्, अननुकूलञ्चेति द्विविधम्। अननुकूलमपिबुद्धिपूर्वम्, अबुद्धिपूर्वञ्चेति। तत्र अबुद्धिपूर्वस्य विद्याबलादश्लेषः। एवं ययोः कर्मराश्योः प्रबलकर्मान्तरप्रतिरोधाददत्तफलयोः अश्लेषविनाशौ तयोर्हानं सुहृदाद्युपायनञ्च उच्यते। तथा च “सुहुदः साधुकृत्यां” इत्यस्य विषयविभागपरे “अतोऽम्याऽपि ह्येकेषामुभयोः” इति सूत्रे भाष्यम् “विद्यया अश्लेषविनाश श्रुतिश्च तद्विषया” इति। अश्लेषविनाशौ च करमशक्तिप्रतिबन्धतन्नाशावेव। सा च शक्तिर्भगवत्कोपप्रीति विशेषात्मिका। तादृशौ च प्रीतिकोपौ सुहृद्विषद्गोचरौ भवत इति तावतैव उपायनवाचोयुक्तिः। “पाते तु” इति सूत्रांशे “शरीरपातादूर्ध्वं तु विद्यानुगुणदृष्टफलानि सुकृतानि नश्यन्तीत्यर्थः” इति भाष्यम्। विद्यानुगुणानामदत्तफलानां कर्मणां शरीरपातादूर्ध्वं विनाश उपायनञ्च। इतरेषाम तु विद्याधिगमदशायामेवाश्लेषविनाशौ, उत्क्रमणदशायाञ्च हानमुपायनञ्चेति विभाग इति। न्यासविद्या तु प्रारब्धमपि निश्शेषं विनाशयितुं शक्ता, तथापि रागविषयमंशं तदनुबन्धि दःखञ्च स्थापयति। निश्शेषवैराग्ये तु निश्शेषं निपर्तयति। अत एवार्तदृप्तभेदः। रागविषयश्चांशो दृप्ते नैतावदिति परिच्छेत्तुं शक्यः ; विचित्रत्वात् पुंसामभिप्रायपद्धतेः। अस्याञ्च विद्यायामन्तिमप्रत्ययापेक्षापि न विद्यते॥
इयं केवललक्ष्मीशोपायत्वप्रत्ययात्मिका।
स्वहेतुत्वधियं रुन्धे किं पुनः सहकारिणाम्॥36॥
प्रारब्धकर्मावधिको मोक्ष इत्थमुपासितुः।
दृप्तस्य देहावधिक आर्तस्यार्त्यवधिर्मतः॥37॥