37 भक्तिनिरूपणम्

भक्ति निरूपणम्॥
महनीयविषये प्रीतिर्भक्तिः। सैव अवस्थाभेदात् परभक्त्यादिभेदं भजते। स्तुति नमस्कारादिषु तत्सम्भन्धात् भक्तिशब्द उपचारतः। सा च भक्तिः सदक्षरमधुदहरभूमवैश्वामरादि विद्याभेदात् बहुधा गुणोपसंहारपादे निपुणमनुसन्धेया। एवंचातुरात्म्योपासनरूपा अपि भक्तयः सद्विद्यादिभेदवदङ्गीकार्याः। प्रमाणसिद्धत्वनैरपेक्ष्याद्यविशेषात्। एताः सर्वास्तत्तच्छास्त्रप्रतिपादित तत्तद्वर्णाश्रमधर्मनिष्टत्रैवर्णिकमनुष्यदेवासुरादिसाध्याः। स्त्रीविधुराणामपि जपोपवासाद्यङ्गाधिकृतानां ब्रह्मविद्याधिकारोऽस्त्येव। अनाश्रमित्वात् आश्रमित्वमेव ज्याय इति विशेषः। नैष्टिकादिपरिभ्रष्टानां तु अनधिकार एव ; तथा स्मृतेः शिष्टबहिष्कारादेश्च। कृतप्रायश्चित्तानामपि तेषां ब्रह्मविद्याधिकारो नास्त्येवेति “बहिस्तूभयथापि स्मृतेराचाराच्च” इति सूत्रेऽभिहितम्। ननु गोपिकादेरपि मोक्षः श्रूयते, तत्कथं त्रैवर्णिकत्वनियमः? इत्थम्। न हि तेषां तत्तच्छरीरेष्वेव उपायानुष्टानम्, किं तु प्राचीनेष्वेव ब्राह्मणादिजन्मसु। प्रागेव प्राप्तोपायानामपि तेषां प्रारब्धकर्मविशेषादिना निकृष्टशरीरप्रवेशः। अन्तिमशरीरं तु यत्किमपीति न दोषः। प्रारब्धावधिकत्वाद्बन्धस्य। एवं विदुरादयश्च भवान्तरीय संस्कारोद्बोधजनितज्ञानेनेति नापशूद्राधिकरणविरोधः। स्मरन्ति च।
“धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते।
वर्णावरत्वे संप्राप्ताः संसिद्धिं श्रमणी यथा॥” इत्यादि। शुश्रूषोर्जानश्रुतेः शूद्रेत्यामन्त्रणं शोचनादिति सूत्र एव व्यक्तम्।