मोक्षहेतु निरूपणम्।
अथ को मोक्षहेतुः? भक्तिरूपापन्नोपासनवेदनध्यानादिशब्दवाच्योऽसकृदावृत्त
आप्रयाणात् अन्वहमनुवर्तमानो ज्ञानविशेषः। तथा च सूत्रम् “आवृत्तिरसकृदुपदेशात्”, इति “आप्रयाणात्तत्रापि हि दृष्टम्” इति च। न पुनः केवलं तत्वज्ञानम् ; तस्य अध्ययनविधिसिद्धसाङ्ग सशिरस्काध्ययन गृहीताक्षर राशि विशेषापात प्रतीत निरतिशय पुरुषार्थ साधनार्थ निर्णय रागप्राप्त श्रवणमात्रेणनिष्पन्नस्य अविधेयत्वात्, तावपि सिद्धेऽपि मोक्षादर्शनाच्च। तदुक्तं भगवता आपस्तम्बेन “बुद्धे क्षेमप्रापणं तच्छास्त्रैर्विप्रतिषिद्धम् , बुद्धे चेत् क्षमप्रापणमिहैव न दुःखमुपलभेत” इति। नापि श्रवणमननोपासननिर्धूतभेदवासनस्य वाक्यमात्रजन्यः साक्षात्कार इति वाच्यम् ; तस्य अन्योऽन्याश्रय विरोधादिदुष्टत्वात्। अविद्यास्वरूपसम्बन्धनिवर्तकज्ञनतज्ज्ञातृतदैक्योपदेशादीनां विकल्पासहत्वं भाष्यादिषु ग्राह्यम्। असत्यात् सत्यप्रतिपत्तिश्च सर्वथा अनुपपन्ना। तथा हि
सत्यधीर्मम सत्येन तवासत्यादसत्यधीः।
सत्यादसत्यधीर्वेति नासत्यासत्यधीर्भवेत्॥ 35॥
कर्मापि न केवलं ज्ञानसमुच्चितं वा मुक्तिहेतुः, वेदनमेव विधाय उपायान्तर निषेधात्। तदङ्गतया कर्मानुप्रवेशे तु न विरोधः, तथा सति तस्य उपायान्तरत्वाभावात्। परमात्मसाक्षात्कारोदयविरोधिरजस्तमोमूलभूतसांसारिकपुणयपापरूपप्राचीनकर्मनिर्मथनकृतचित्तशुद्धि द्वारेण हि तदा तदुपयोगः। एतेन विशिष्टदेशवासव्रतविशेषवैष्णवसंश्रयादेर्ज्ञानयोगकर्मयोश्च परम्परया मोक्षहेतुत्वमित्यपि सिद्धम्, वैष्णवसंश्रयादेरुपासनशेषतया उपादानात्। यजमानेन सह पश्वादीनां स्वर्गादिगमनवद्वा मोक्षसिद्धिः। “यजमानेन सहिताः स्वर्गं यान्ति नराधिप” इति हि महाभारतोक्तिः। ज्ञानकर्मयोगयोश्च वक्तव्यमखिलं श्रीमद्गीताभाष्ये व्यक्तमुक्तम्। तत्र हि कर्मयोग प्रसङ्गेषु “कर्मयोगस्य सुशकत्वात् अप्रमादत्वाच्च अन्तर्गतात्मज्ञानतया निरपेक्षत्वात्” इत्यादिप्रकारेण आत्मावलोकनसिद्धिरुपपादिता। तथा “निराशीर्यचित्तात्मा” इति श्लोके “ज्ञाननिष्टाव्यवधानरहितकेवलकर्मयोगेन एवं रूपेण आत्मानं पश्यतीत्यर्थः” इत्युक्तम्। तथा “ब्रह्मार्पणम्” इति श्लोकेऽपि “मुमुक्षुणा क्रियमाणं कर्म परब्रह्मात्मकमेवेत्यनुसन्धानयुक्ततया ज्ञानाकारं साक्षादवलोकन साधनम्। न ज्ञाननिष्टाव्यवधानेन” इत्युक्तम्।
तथा पञ्चमाध्याये
“सन्न्यासः कर्मयोगश्च निश्रेयसकरावुभौ।
तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते॥
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्।
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते॥”
इत्येतैर्व्यक्तमेव नैरपेक्ष्यमुक्तम्।
“सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः।
योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति॥”
इति ज्ञानयोगादपि कर्मयोगस्य शीध्रकारित्वं कर्मयोगादृते ज्ञानयोगस्य दुष्प्रापत्वञ्च प्रतिपादितम्। द्वयोरपि च भक्त्यङ्गत्वं बहुषु प्रदेशेषु अभिहितम्। तथा हि “अथैतदप्यशक्तोऽसि”
इत्यस्य व्याख्याने “ततोऽक्षरयोगमात्मस्वभावानुसन्धानरूपं परभक्तिजननं पूर्वषट्कोदितमाश्रित्य तदुपायतयासर्वकर्मफलत्यागं कुरु” इत्युक्तम्। तथा “श्रेयो हि ज्ञानमभ्यासात्” इत्यत्र “शान्ते मनसि स्यात्मध्यानं सम्पत्स्यते। आत्मध्यानाच्च तदापरोक्ष्यम्, तदापरोक्ष्यात् परा भक्तिरिति भक्तियोग अभ्यासाशक्तस्य आत्मनिष्टैल श्रेयसी। आत्मनिष्टस्यापि अशान्तमनसो निष्टावाप्तये अन्तर्गतात्म ज्ञानानभिसंहितफलकर्मनिष्टैव श्रेयसीत्यर्थः” इत्युक्तम्। तथा तृतीय षट्कारम्भे “पूर्वस्मिन् षट्के परमप्राप्यस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूत भक्तिरूप भगवत् उपासनाङ्गभूतं प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोगकर्मयोगलक्षणनिष्टाद्वयसाध्यमुक्तम्” इत्युक्तम्। “उभयपरिकर्मितस्वान्तस्य ऐकान्तिकात्यन्तिकभक्तियोगलभ्यः” इति। अत्रेदं तत्वम्। भक्तियोगः परमात्म प्राप्त्युपायभूतः। तदशक्तस्य तद्भक्तियोगसिध्यर्थं आत्मावलोकनमपेक्षितम्। तस्य च ज्ञानयोग कर्मयोगौ द्वौ पृथगुपायौ। तत्र ज्ञायोगः स्वात्मावलोकनेऽन्तरङ्गः। तथापि प्रथमं स दुष्करः। तदनधिकारिणस्तुल्यफलः कर्मयोग एव कार्यः। तदधिकारिणोऽपि व्यपदेशस्य लोक संग्रहार्थं कर्मयोग एव कार्यः। अशक्तस्य ज्ञानयोगशक्तिं कर्मयोग एव उत्पादयति। तदा कर्मयोगं परित्यज्य ज्ञानयोगमनुतिष्टतोऽपि न दोषः। इमौ च योगौ कामनाभेदेन कस्यचित् कैवल्यमात्र साधकौ। यथा भगवदुपासनमेव कस्यचित् ऐश्वर्यादिकं साधयति। प्रवाहानादिपुण्यपापरूपकर्म तारतम्येन शक्त्यशक्ति कामनादितारतम्यमिति न कश्चित् दोष इति। तत्सिद्धं भक्तिरेव मोक्षोपाय इति॥