जीवविभागक्रमः।
मूल-विभागः
स्वतस् सुखी चायमात्मा।
उपाधि वशात् संसरति।
स द्विधा - संसारी असंसारी चेति।
पुण्यपापादिमान् पूर्वः। तच्छून्य इतरः।
सण्सारी
विभागः
पूर्वाऽपि द्विधा -
नित्य-संसारी भावि-संसारविरहश् चेति।
नित्य-संसारी
तत्र इतः पूर्वम् अनन्तकल्पेष्व् इव
परस्ताद् अपि हेत्व्-अनागमनात्
संसारविच्छेदसम्भवात् पूर्वः।
मानं तु लीलाविभूति-नित्यत्वोक्तिः -
“क्षिपाम्य् अजस्रम्,
न क्षमामि कदाचन”
इत्यादिकम् अपि तद्-उत्तम्भकम्।
केचित्तु
“विलम्बातिरेक-पराणि तानि ;
न तु कस्यचिद् अपि नित्यः संसारः -
अविरुद्धयोर् असंसर्गस्य कालविप्रकर्ष-नियमेन व्याप्तेः।
अन्यथा मोक्षसाधने
“स किम् अहम्?” इति सन्देहात्
अप्रवृत्ति-प्रसङ्गात्”
इति वर्णयन्ति।
भावि-संसार-विरहः
इतः पूर्वम् अनागतैस् तच्-छरीराद्य्-उपनिपातवत्,
तद्+++(→मोक्ष)+++-+हेतूपनिपातात्
भावि-संसार-विरहोपपत्तिः।
प्रमाणं च ब्रह्म-विदो मोक्ष-वचनानि।
संसार-भ्रम-क्रमः
एते च संसारिणः कर्म-पाश-प्रग्रथिता
ब्रह्माण्ड-कुहर-परिवर्तमान–काल-घटी-यन्त्र–कुण्डिकायमानाः
तस्मिन् क्षीयमाणाः पूर्यमाणाश् च सन्तः परिभ्रमन्ति।
तत्र पुण्य-कृतो धूम-रात्र्य्–अपर-पक्ष–दक्षिणायन–षण्-मास– पितृ-लोकाकाश-चन्द्र-क्रमेण स्वर्ग-लोकम् अधिरोहन्ति।
अवरोहन्ति च चन्द्रमसस् स्थानात्
आकाश-वायु-धूमाभ्र-मेघादि-क्रमेण।
आहुतयः
तत्र श्रद्धा-सोम-वर्षान्न-रेतोमयीनाम् आहुतीनां
विद्युत्-पर्जन्य-पृथिवी-पुरुष-योषितः स्थानानि।+++(4)+++
प्रायिकी च पञ्चमाहुत्य्-अपेक्षा;
द्रौपदी–धृष्ट-द्युम्न–प्रभृतिष्व् अदर्शनात्,
एवम् अपुण्य-कृताम् अपि स्वेद-जादि-शरीरेषु पञ्चमाहुत्य्-अभावात्
चन्द्र-प्राप्त्य्-अभावाच् च।+++(4)+++
तेषाम् अति-घोरा निरय-सरणिः,
निरय-दुःखानुभूतिश् च पुराणादिषु प्रपञ्चिता स्मर्यमाणा ऽपि
कलेबरं कदम्ब-गोलायति।
असंसारी
द्वितीयो ऽपि द्विधा -
संसारात्यन्ताभाववान्, प्रध्वस्त-संसारश् चेति।
तत्र कदाचिद् अपि संसार-हेत्व्-अभावात्,
पूर्वस्य, ईश्वरवत् नित्य-सूरेस् तद्-अत्यन्ताभावः।
उत्तरस् तु उपपादितो मुक्त एव।
संसार-स्थैर्यम्
अनादाव् अपि काले
प्रति-दिवसं सहस्र-पुरुष-मोक्षे ऽपि
न संसारात्यन्त-विलयः -
अस्यानन्तस्यैवं-स्वभावत्वात्।
उक्तं च वेदार्थ-संग्रहे
“ब्रह्म-ज्ञान+++(→शाङ्कर)+++-पक्षाद् अपि पापीयान् अयं भेदाभेद-पक्षः।
अपरिमित-दुःखस्य पारमार्थिकत्वात्
संसारिणाम् अनन्तत्वेन दुस्तरत्वाच् च”
इति।
अनन्त-पयो-निधौ पयो-बिन्दु-सन्निपात-वत्
संसारि-वर्गे पूर्व-मुक्तेषु
पश्चान्-मुक्तानाम् अनुप्रवेशः।
सङ्ख्या-तारतम्यम्
अनन्तेष्व् अपि संसार्य्-असंसारिषु
+++(पुरुष-सूक्ते)+++ एक-पादत्व–त्रि-पादत्व-तारतम्यम् +++(अनन्तत्व-)+++आपेक्षिकम्।
तथा च मुहूर्त-यामाहो-रात्र-कल्पादिषु, द्रव्य-पार्थिव-घटादिषु च दृष्टम् एव +++(तारतम्यम्)+++।
अत एव नित्यानां समस्त-बद्ध-मुक्तापेक्षयापि अनन्तत्वं उपपन्नम्।
संसार-क्वाचित्क-प्रमाणम्
केचित् तु नित्य-सूरि-वर्गं नेच्छन्ति; तत् न।
“सदा पश्यन्ति सूरयः” इत्य् आदिभिः
सदा-पश्यद्–अनेक-द्रष्टृ-विशिष्ट–स्थान-विधानात्।
अत एव न मुक्त-प्रवाहेण वा, ईश्वरेण वा ऽन्यथा+++(→तद्-अभाव)+++-सिद्धिः।
सर्वेषां जीवानां
संसारात्यन्तायोग–+++(तद्-)+++व्यवच्छेद-साधनानि जीवत्वादि-लिङ्गानि +++(अनुमानानि)+++
यथा-सम्भवं सिद्ध-साधन बाधादिभिर् दूष्याणि।
नित्य-सूरि-विभागः
एतेषां नित्य-सूरीणाम् आनन्त्यावान्तर-भेदादिकं
श्री-पाञ्चरात्र-संहितासु विशदम् अनुसन्धेयम्।
अनन्त-विष्वक्सेनाद्यैर्
नियता-ऽधिक्रियैर् अपि।
ज्ञानानन्दादिभिर् मुक्ता
नित्यानन्द-सोदराः ॥34॥
अ-सुप्तिः
एवं सदा-दर्शनादि-बलाद् एव
नित्य-मुक्तेश्वराणां प्रतिसर्गावस्थायां
सुषुप्त-कल्पतया ऽवस्थानं वदन्तः प्रत्य् उक्ताः।
सङ्कोचक-कर्माद्य्-अभावाच् च,
सा ऽवस्था दुर्-उपपादा॥