34 जीवानाम् ईश्वरात् परस्परञ्च भिन्नत्वनिरूपणम्

जीवानां ईश्वरात् परस्परञ्च भिन्नत्व निरूपणम्।
स चायमात्मा सौभर्यादि क्षेत्रज्ञव्यतिरिक्तेषु प्रतिक्षेत्रम् भिन्नः स्मृत्यनुभवसुखदुःख करणप्रयत्नादिप्रतिनियमात्। उक्तं हि न्याय सूत्रे “नानात्मनो व्यवस्थातः” इति। साङ्ख्यैरप्युक्तम्
“जननमरणकरणानां प्रतिनियमादयुगत्प्रवृत्तेश्च।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव॥“इति।
जीवाद्वैतवचनानि तु प्रकारैक्यविषयाणि। प्रकारैक्येऽपि हि एकादिशब्दाः प्रयुज्यन्ते यथा अयमयञ्च एको व्रीहिरिति। “रामसुग्रीवयोरैक्यम्” इत्यादि च भाव्यम्। ततश्चायं संग्रहः
अविरोधान्तरङ्गत्वजातिभोगाद्यभेदतः।
एकोक्तिरपृथक्सिद्धेर्देशकालदशादिभिः॥
साम्यञ्च सर्वजीवानां स्वरूपतः, मुख्यावस्थायां गुणतोऽपि चेति श्रुतिस्मृत्यादि सिद्धम्। तत्र जीवभेदनिषेधवचनान्यपि प्रामाणिक स्वरूप भेदव्यतिरिक्त देहात्माभिमान निबन्धन देवत्वादिभेद निषेधपराणि। कण्ठोक्तेन च देवत्वादिनिषेधेन तेषामैकार्थ्यमुचितम्। किञ्च निर्विशेषात्मैक्यवादिनोऽपि बन्धमोक्षयोरविशेषः प्रसज्यते। तत्वत इदानीमपि निरस्ताविद्यत्वात्, अतत्त्वतस्तदानीमपि तद्व्यवहारोपपत्तेः। व्यपदिश्यते हि शुकादिषु मुक्तेष्वपि हि जगति संसारः॥
किञ्च
भ्रान्त्या सर्वभ्रमोच्छेदे नोच्छेदस्तत्वतो भवेत्।
प्रमयात्वपसिद्धान्ताद्वैतभङ्गादिसम्भवः॥
विस्तरेण च परस्तात् दूषयिष्यामः। भास्कर मते तु नित्यसर्वज्ञस्य उपाधियोग एव परिहास्यः। उपाधिभिश्छेदनाद्ययोगेन ब्रह्मण एव संसारित्वानपायः। उपाधिसञ्चारे प्रतिक्षणं बन्धमोक्षप्रसङ्गः। सौभर्यादिवत् उपाधिभेदेऽपि प्रतिसन्धानस्य दुस्त्यजत्वात्। छेदाभ्युपगमे च अच्छेद्यत्वादविरोधः। एवं सकलपदार्थभिन्नसच्चिद्ब्रह्मवादोऽपि दूष्यः। बद्धस्यापि प्रलये मुक्तविशेष सदापत्यभिधानात्। मुक्तस्यापि सर्वज्ञस्य सृष्टौ सर्वहेय तादात्म्यानुसन्धानेन अनन्तसंसारयोगोत्। अतो बन्धमोक्षाविशेष एव। अस्माकमविद्यानिवृत्तिर्नाम भावान्तरं भविष्यत्ये। तच्च धीविशेष विकासादि रूपम्। प्रीयमाणपरमपुरुषपरिग्रहविशेषादिश्च। परेषां तु निखिलमिदमाविलमिति। “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिकमित्थमेव ब्रह्मतादात्म्यापरोक्ष्यकृतम्। मुक्तब्रह्मणोस्तादात्म्यं शरीरशरीरिभावात्। तदापरोक्ष्यञ्च शाश्वतमेव ; तदपरोक्षधियो यावदात्मभावित्वात्। न्यायसुदर्शने तु उक्तम् “एवशब्दः साम्यवाची,“साम्ये चैव क्वचिच्छब्द” इति निघण्टूक्तेः। “वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमान् लोकानभिजयति” इति साम्ये श्रौतप्रयोग दर्शनाच्च। विष्णुरेव विष्णुरिवेत्यर्थः। न हि अत्र विष्णुरेव भवतीति विवक्षितम्। स्पर्धमानस्य पशुयागेन तदयोगात्। ऐहिकफलं हि शत्रुजयादि” इत्यादि। भाष्यञ्च गौणतामेवाह
“प्रकारैक्ये च तत्व व्यवहारो मुख्य एव ; यथा सेयं गौः” इति। मुख्य एव मुख्यप्राय इत्यर्थः। सेयं गौः इति तु व्यक्ति द्वयैकरूप्यव्यपदेशः। अतः सिद्धं ईश्वरात् परस्परभिन्ना जीवा इति॥