33 जीवस्य अणुत्वनिरूपणम्

जीवस्य अणुत्व निरूपणम्।
अणुश्चासौ ; श्रुतेः, स्वयम्प्रकाशस्य हृत्प्रदेशावच्छिन्नोपलम्भस्वारस्याच्च। युगपदखिल
भुवनेषु अदृष्टद्वारा तत्कार्यसिद्धये विभुत्वसल्पनमयुक्तम् ; ईश्वरप्रीतिकोपयोरेव अदृष्टत्वात्, तत् आधारस्यच ईश्वरस्य विभुत्वात्, जीवस्याविभुत्वे बाधकाभावात्, विभुत्वे च उपलम्भाद्यस्वारस्याच्च। इन्द्रियवत् शरीरप्रत्युप्तागमनेनैव तत्रतत्र ज्ञानसुखाद्यपपत्तेः। आत्मगमनं तु उपलम्भश्रुत्यादि अनुकूलम्, विभुत्वकल्पनं तु न तथेति लाघवमिच्छतां तदेव फलितम्। उक्तञ्च आत्मसिद्धै प्राणात्मवादनिराकरणे “अविभोरात्मनः स्पर्शविरहिणोऽपि प्रयत्नादृष्टप्रेरणानुगुण्येन मनस इव उत्क्रान्ति गतयो युज्यन्ते” इति। तथा तत्रैव चैतन्यप्रसरणचोद्यपरिहारयोरपि “गुणिनमपहाय” इत्यादिना अणुत्वं व्यक्तम्। श्रुतिस्मृत्यादिषु सर्वगतत्वादिव्यपदाशास्तु समुदायापेक्षया धर्मभूतज्ञान द्वारा सूक्ष्मानुप्रवेशक्षमतया वा तत्रतत्र यथोचितं निर्वाह्याः। “नित्यो व्यापी” इत्यात्मसिद्धिवचने व्यापिपदमपि “अतिसूक्ष्मतया सर्वाचेतनान्तःप्रवेशस्वभावः” इति भाष्ये व्याख्यातम्। “उत्क्रान्तिगत्यागतीनाम्” इत्यादिभिश्च सूत्रकारैरेव अणुत्वं समर्थितम्। हृत्प्रदेशस्थितस्यैव जीवस्य ज्ञानद्वारा नानाधिष्टानोपपत्तिः। एवमेव योगिप्रभृतीनां नानादेहाधिष्टानं घटते। न ततो विभुत्व कॢप्तिः। तदेतदखिलमभिप्रेत्य सूत्रितम् “गुणाद्वाऽऽलोकवत्” इति, मुक्त निरूपणे च “प्रदीपवदावेशस्तथाहि दर्शयति” इति। एतेन देहात्माभिमानमनुसरतामार्हतानां देहानुरूपविविध परिमाणत्वकल्पनमपि भनग्म्। “एव़ञ्चात्मकार्त्स्न्यम्, न च पर्यायादप्यविरोधो विकारादिभ्यः, अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः” इति सूत्रैश्च तन्निरस्तम्। वरदविष्णुमिश्रैस्तु “संसारदशायां स्वरूपज्ञानयोः स़ङ्कोचादणुपरिमाणमात्मस्वरूपम्। मोक्षदशायां तु सर्वगतं सर्वव्यापि, ज्ञानञ्च विस्तीर्णतया प्रकाशते।
अयमर्थः
“वालाग्रशतभागस्य शतधा कल्पितस्य च।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्प्यते॥”
इति श्रुत्या अवगम्यते। तदाह भगवान् पराशरः “विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा” इति” इत्यादिना जीवस्यापि सङ्कोचविकासयोगित्वमुक्तम् ; अयमेवार्थो “नित्यो व्यापी” इत्यात्मसिद्धिवचनमुपादाय मानयाथात्मनिर्णये प्रपञ्चितः। तदेतत् सूत्रादिविरोधात् वैभववचनम्। यत्तु श्रीमद्गीताभाष्ये “अनादिमत्परं ब्रह्म” इति व्याख्याने “ब्रह्म बृहत्त्वगुणयोगि शरीरादर्थान्तरभूतं स्वत श्शरीरादिभिः परिच्छेदरहितं क्षेत्रज्ञतत्वमित्यर्थः ; स चानन्त्याय कल्पते” इति श्रुतेः। शरीरपरिच्छिन्नत्वञ्च अस्य कर्मकृतम्। कर्मबन्धान्मुक्तस्यानन्त्यम्" इत्युक्तम्, यच्च “लोके सर्वमावृत्य तिष्टति” इत्यत्र लोके यद्वस्तु जातं तत्सर्वमावृत्य व्याप्य तिष्टति परिशुद्धस्वरूपं देहादिपरिच्छेदरहिततया सर्वगमित्यर्थः" इत्युक्तम्, यच्च “अचञ्चरमेवच” इत्यत्र “स्वभावतोऽचरं चरञ्च देहित्वे” इत्युक्तम्, एवं प्रकरणान्तरेष्वपि “अनवच्छिन्नं ज्ञानैककारकं” इत्युक्तम्, तदखिलं ज्ञानव्याप्त्यादितत्परमेवेति मन्तव्यम्। सारभाष्यादिषु “स चानन्त्याय कल्पते” इत्यादेस्तथैव व्याख्यानात्। दीपे तु “प्रदीपवदावेशस्तथाहि दर्शयति” इति सूत्रे वालाग्रश्रुतिमुपादाय “प्रत्यगात्मनोऽणुत्वमेव स्वरूपमिति सूत्रकार मतम्। “नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात्” इति साभिसन्धिकमुक्तत्वाच्च। अतः सदा अणुरेव जीव इति सूत्रभाष्यकारादिनां सिद्धान्तः॥