32 जीवस्य ज्ञातृत्वाहंप्रत्ययविषयत्वकर्तृत्वनित्यत्वानि

यत्तु त एव साङ्ख्यैः सम्भूय आहुः । दर्पणमुखवत्, अयःपिण्डौष्ण्यवत्, करतलविकरवच्च, चिच्छायापत्तितत्सम्पर्कतद्व्यञ्जकत्वाधीनतदाश्रयत्वभ्रमात् अन्तःकरणस्य ज्ञातृत्वमिति। तत्र यथाश्रुतविवक्षायां कथमचाक्षुषयोर्बिम्बाधिकरयोश्छायापत्तिः? अध्यासमात्रे तदुपचार इति चेत् ; कुत्र? कस्य? अन्तःकरणे चैतन्यस्येति चेत् ; तर्हि ज्ञानस्य अन्तःकरणाश्रयताभ्रमः स्यात् ; न तु अन्तःकरणस्य ज्ञातृत्वभ्रमः। न च एतादृशः कश्चित् भ्रमो दृश्यते। कथञ्च सम्पर्के सत्यपि द्वयोर्ज्ञातृत्वमौष्ण्यवत् तात्विकत्वमनभ्युपगच्छतस्तदध्यासः? धर्मधर्मिभावस्य लोके दृष्टत्वात्, इह तदध्यासात् ज्ञतृत्वभ्रम इति चेत् ;कुत्र धर्मत्वाध्यासः? कुत्र वा धर्मित्वाध्यासः? इति नियामकाभावात् वैपरीत्यमपि स्यात्। क्वचित् धर्मिभेदाग्रहः क्वचित् धर्मभेदाग्रहः इति तौ नियामकाविति चेन्न ; ज्ञप्तेः स्वयम्प्रकाशायाः स्वरूपातिरिक्तागृहीतभेदानभ्युपगमात्। अभ्युपगमे वा सधर्मत्वापातात्। भेदाग्रहायोगादेव अहङ्कार अभिव्यङ्ग्यत्वमपि निरस्तम्। यथाहुर्भगवद्यामुनमुनयः
“शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः।
स्वयञ्ज्योतिशमात्मानं व्यनक्तीति न युक्तिमत्॥
व्यङ्त्क्तृव्यङ्यत्वमन्योऽन्यं न च स्यात् प्रातिकूल्यतः।
व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटे॥” इति।
अतः सिद्धमात्मैव ज्ञाता अहम्प्रत्ययविषय इति।
किञ्च
प्रत्यक्वादुपलम्भतो मम सुखं भावीति मोक्षेच्छया।
मुक्तब्रह्ममुमुक्षुवेदवतसा सुप्तोहमित्युक्तितः।
मां नाज्ञासिषमित्यपि स्वपुराद्यज्ञानमात्राश्रयात्
स्वापप्राच्यनिजक्रियास्मरणतोऽप्यात्माहमर्थः स्थिरः॥ 28 ॥
आत्मनोऽहम्प्रत्ययगोचरत्वप्रतिक्षेपकाणि आत्मत्वाजडत्वनिर्विकारत्वादीनि प्रत्यक्षागम बाधात् असाधारणानैकान्तिकत्वाच्च निरस्तानि। एवं ज्ञातृत्वकर्तृत्वप्रतिक्षेपकेष्वपि भाव्यम्। एवं
कर्तृत्वज्ञातृत्वादिकं नात्मधर्मो धर्मत्वात् दृश्यत्वात् इत्यादिकमपि बाधकबलात्, विपक्षे बाधकाभावाच्च दुःस्थम्। नाहङ्कारधर्म इति प्रयुज्यमाने का गतिर्देवानाम्प्रियस्य? अविद्येति चेत् ; सत्यमविद्यैय अनाविद्यकर्तृत्वस्य क्वचिदपि अनभ्युपगमात्। आविद्यस्यापि निषेधे तद्विधान विरोधात्॥
ज्ञातृत्वञ्च अस्य स्वाभाविकाकार इति “ज्ञोत एव” इत्यधिकरणे श्रुतिभिरुपपादितम्। भोक्तृत्वहेतुभूतं कर्तृत्वं भोक्तुर्जीवस्यैव। तच्च सामान्यतः परमपुरुषहेतुकमिति “कर्ता शास्त्रार्थवत्वात्। परात्तु तच्छ्रुतेः” इत्यधिकरणे प्रपञ्चितम्। अस्य स्वयम्प्रकाशत्व नित्यत्व नानात्व अणुत्वादीनि श्रुत्युपपत्तिभ्यां सिद्धानि। स्वस्यच अस्य स्वयम्प्रकाशत्वम्। परस्य तु तज्ज्ञान विषयतयैव प्रकाशते। स्वस्यापि प्रमाणान्तरावशेयाणुत्वशेषत्वनियाम्यत्वादिविशिष्टरूपेण ज्ञान विषयत्वमस्त्येव। अहमिति प्रत्यैकत्वविशिष्टतया तु स्वप्रकाशता सर्वदा। योगदशायां तु यथावस्थितापूर्वाकारविशिष्टतया यौगिकप्रत्यक्षेण साक्षात्क्रियते॥
तदिदमुक्तमात्मसिद्धौ
“एवमात्मा स्वतः सिध्यन् आगमेनानुमानतः।
योगाभ्यास भुवा स्पष्टं प्रत्यक्षेण प्रकाशते॥” इति॥
तदेवं ज्ञातृत्वादि रूपभेदात् मातृमेयमानरूपोऽयमात्मा। उक्तं प्रज्ञापरित्राणे वरदनारायणभट्टारकैः
“प्रमाता च प्रमेयञ्च प्रमाणञ्च भवेत्पुमान्।
प्रमा मेया च धीरेव मेया एव घटादयः॥” इति॥
स्वयम्प्रकाशत्वादौ श्रुतिः सुप्रसिद्धा। यद्यपि “सत्यं ज्ञानम्” इत्यत्र अन्तोदात्तत्व बलात् ज्ञानकर्तृत्वार्थकत्वमङ्गीकार्यम्, यद्यपि “विज्ञानघनः” इत्यत्ररसघनदृष्टान्तस्वारस्यात् ज्ञान व्याप्यत्वं विवक्षितम्, यद्यपि “विज्ञानं यज्ञं तनुते” इत्यादिषुतद्गुणसारस्वात्तु तद्व्यपदेशः प्रज्ञवत्, तथापि “एष हि दृष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः” इत्यत्र विज्ञानात्मशब्दस्वारस्यात् विशेषतस्सामान्यतश्च प्रपञ्चितस्य ज्ञातृत्वस्य पुनर्वचने प्रयोजनाभावाच्च ज्ञानस्वरूपत्वं सिद्धम्। तथा च “अत्रायं पुरुषः स्वयञ्ज्योतिर्भवति, कतम आत्मा? योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः” इत्यादिभिश्च स्वयम्प्रकाशत्वं स्वरससिद्धमङ्गीकार्यम्। अनुमितिस्तु आत्मा स्वयम्प्रकाशः ; ज्ञानत्वात् धर्मभूतज्ञानवत् इति श्रीविष्णुचित्तैरुक्तम्। अधीतर्मतया प्रकाशमानत्वज्ञानात्मसम्बन्धप्रतिसन्धित्वादीनि परं अबाधितानि विष्णुमिश्रोक्तानि॥
स्वस्यैव भासको दीपः स्वात्मनोऽन्यस्य च प्रभा।
एवं भेदोऽस्ति साम्येऽपि ज्ञानयोर्धर्मधर्मिणोः॥ 29॥
प्रत्यक्स्वयम्प्रभसुखे नित्यं पुंसि व्यवस्थिते।
अस्वाप्सं सुखमित्यादौ कालाद्यंशेऽनुमास्थितः॥30॥
अगायं मधुरं मन्दमगामित्येवमादिषु।
माधुर्यादिवदत्रापि सुखं भाति तदातनम्॥31॥
ज्ञानस्य सम्बन्धिशब्दतया व्युत्पत्तिमात्रम्। प्रवृत्तिनिमित्तं तु कस्यचित् व्यवहारानुगुण्ये निरपेक्षहेतुत्वम्। तदेव स्वस्येति निरूपितं स्वयम्प्रकाशत्वमिति न साध्यविशेषोऽपि। विषयताश्रय वैशिष्ट्यनिर्बन्धो धर्मभूतज्ञाने। धर्मिज्ञानस्यापि विशिष्टत्वात् परमतादतिरेकः। अस्य
तु अविनाशित्वे युक्तयः “अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्” इत्यादिना भगपद्गीतायामुक्ताः। व्यञ्जिताश्च तद्भाष्ये। अनित्यत्वेऽस्य अकृताभ्यागमकृत विप्रणाशादिप्रसङ्गश्च॥