31 जीवस्य धीव्यतिरेकनिरूपणम्

(जीवस्य धीव्यतिरेक निरूपणम्)
नापि धीः; ज्ञातृधर्मतया नश्वरतया च स्फुरणात् स एवाहमिति प्रतिसन्धानानुपपत्तेः । नचेदं प्रतिसन्धानं भारान्तिः; अबाधात् । क्षणभङ्गहेतूनां प्रागेव निरस्तत्वात् । भ्रान्तिरूपं वा आत्मप्रतिसन्धानम्, विषयप्रत्यभिज्ञानम्, स्मृतिमात्रञ्च संस्काराधारं स्थिरमात्मानमन्तरेण कथञ्चिदपि न घटते । ततश्च उपायानुष्ठानतत्फलानुभवादयोऽपि दुरुपपादाः ॥ यत्पुनराहुः - “यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव बध्नाति कार्पासे रक्तता यथा॥” इति; तदपि असत् । तत्र वासनाधारस्थिरावयवानुवृत्तेः । निरन्वयविनाशिषु जगति सर्वक्षणेषु सन्तानैक्यभेदादयोऽपि दुर्वचाः । नष्टं सर्वं क्षणं प्रति जायमानस्य सर्वस्यापि क्षणस्य उत्तरत्वाविशेषात् । देशविशेषस्यापि क्षणिकत्वेन तदैक्यासिद्धेः । अत एव चित्तविज्ञानालयविज्ञानसन्तानभेदोऽपि निरस्तः । ज्ञानमात्रात्मवादे च प्रागुक्तप्रतिसन्धानाद्यनुपपत्तिभिः सन्तानैक्यग्रहीतुरभावाच्च न सन्तानसिद्धिः । अतो यच्चाहुः “अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते॥” इति; तच्च तेषामेव विपर्यासितदर्शनत्वफलम् ।
एतेन बौद्धगन्धिवेदान्तिनामपि सिद्धान्तोऽपक्रान्तः । केवलज्ञप्तेरहम्प्रत्ययाविषयत्वात् स्थिरत्वाभ्युपगमेऽपि, अनुभवितृसापेक्षत्वात् भ्रान्तिरूपस्यापि प्रतिसन्धानादेः ज्ञातृत्वस्यापि भ्रान्त्यन्तरसिद्धत्वे अनवस्थानात् । न चासौ कारणानवस्थितिरिति न दोषः । दोषाधिष्ठानयोरपि तथा भूतयोरेव सर्वत्र सम्भवेन अविद्यानादित्वाधिष्ठानसत्यत्वयोरपि परित्यागप्रसङ्गात् ।