(जीवस्य बाह्येन्द्रियव्यतिरेकनिरूपणम्)
न चासौ बाह्येन्द्रियाणि; तेषां बहुत्वात् प्रतिनियतविषयत्वाच्च परस्परानुभूतार्थप्रतिसन्धानपरस्पराविवादनियमाद्यनुपपत्तेः । न च तेषु अन्यतमः; नियामकाभावात् । न च तत्समुदायः; समुदायोऽहमिति प्रत्ययाभावात्, अन्ततः समुदायिषु पर्यवसानाच्च । यच्च स्वप्नदशायामुपरतबाह्येन्द्रियस्य च व्याघ्रादिरूपात्मदर्शनम्, तदपि बाह्येन्द्रियवर्गात् देहाच्च आत्मनो भेदं व्यनक्ति । अत इन्द्रियेषु शरीरे च सकले विकले च सकलोऽहं विकलोऽहमित्यादिबोधो भ्रमात्, तद्वैशिष्ट्यविवक्षया वा ॥