28 जीवस्य देहव्यतिरेकनिरूपणम्

॥श्रीः॥
श्रीन्यायसिद्धाञ्जने द्वितीयो जीवपरिच्छेदः ॥
(जीवस्य देहव्यतिरेकनिरूपणम्)
अथ जीवः । अल्पपरिमाणत्वे सति ज्ञातृत्वम्, शेषत्वे सति ज्ञातृत्वम्, इत्यादि तल्लक्षणम् । स तावन्न देहः; प्रत्येकसमुदायचैतन्यादिविकल्पानुपपत्तेः, शरीरभेद इवाभिप्रायभेदप्रसङ्गात्, ममेति व्यतिरेकप्रत्ययात् सङ्घातत्वादिहेतुभिश्च । अवयविनश्च दूषितत्वात् । सिद्धावपि तद्गुणस्य कारणगुणपूर्वकत्वप्रसङ्गात् । पाकजगुणवत् परिणामविशेषाभ्युपगमेऽपि प्रत्यवयवं चैतन्यप्रसङ्गो दुष्परिहरः । अतएव “तेभ्यश्चैतन्यं किण्वादिभ्यो मदशक्तिवत्” इति प्रलापो निरस्तः । सङ्घातदशायां प्रत्यवयवं मदशक्तेः, रसविशेषादिवत् । अस्तु तर्हि भूतावयवविशेषः शीघ्रसञ्चारी स्थयी वा ज्ञातेति चेत्; प्रकारान्तरेण अयमभ्युपगतो वैदिकः पक्षः । देहाख्यपिण्डातिरेके सिद्धे अनित्यत्वादिवादस्य अयत्नवार्यत्वात् । आगमेनैव अस्य देहव्यतिरेकसिद्धिरित्येके; यथोक्तमात्मसिद्धौ “आनुमानिकीमपि आत्मसिद्धिमश्रद्दधानाः श्रौतीमेव तां श्रोत्रियाः सङ्गिरन्ते” इति ॥