शरीरविभाग प्रकारः ।
तदेतत् शरीरं द्विविधम् - नित्यमनित्यञ्चेति । तत्र नित्यं त्रिगुणद्रव्यकालजीव शुभाश्रयात्मकमीश्वरशरीरम् । नित्यानाञ्च स्वाभाविकगरुडभुजगादिरूपम् । अनित्यञ्च द्विवधम् - अकर्मकृतं कर्मकृतञ्चेति । प्रथममीश्वरस्य महदादिरूपम् । तथा अनन्तगरुडादीनां मुक्तानाञ्च इच्छाकृततत्तद्रूपम् । कर्मकृतमपि द्विवधम् - स्वसङ्कल्पसहकृतकर्मकृतं केवलकर्मकृतञ्चेति । पूर्वं महतां सौभरिप्रभृतीनाम् । उत्तरञ्च अन्येषां क्षुद्राणाम् । पुनः शरीरं सामान्यतो द्विधा जङ्गम अजङ्गमञ्चेति । काष्टादीनां शिलादीनाञ्च अजङ्गमत्वमेव । यथा वृक्षगुल्मलतावीरूत्तृणानां तमोमोहमहामोहतामिस्रसंज्ञानाम् । शिलादिशरीरिणोऽपि जीवा विद्यन्ते इति अहल्यादिवृत्तान्त श्रवणात् सिद्धम् । तथा च वेदार्थसंग्रहे प्रोक्तम् “अतो देवो मनुषयो यक्षो राक्षसः पक्षी वृक्षो लता काष्टं शिला तृणं घटः पट इत्यादयः सर्वे प्रकृतिप्रत्यययोगेन अभिधायकतया प्रसिद्धाः शब्दा लोके तत्तद्वाच्यतया प्रतीयमान तत्तत्संस्थानवस्तु मुखेन तदभिमानि जीव तदन्तर्यामि परमात्मपर्यन्तस्यैव वाचकाः” इति । इदञ्च व्यष्टिनामरूपाणां सर्वेषां जीवानुप्रवेश श्रुतिबलावलम्बनेनोक्तम् । उक्तञ्च श्रीमद्गीताभाष्ये जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा इति “अथ तामसास्तु जघन्यगुण वृत्तिस्थाः–उत्तरोत्तरनिकृष्टतमोवृत्तिषुस्थिताः । अधो गच्छन्ति–अन्त्यत्वम्, ततस्तिर्यक्त्वम्, ततः क्रिमिकीटादिजन्म, ततः स्थावरत्म्, ततोऽपि गुल्मतात्वम्, ततश्च शिलाकाष्टलोष्टादित्वं गच्छन्तीत्यर्थः” इति । अत्र स्थावरशब्दो गोबलीवर्दनयात् वृक्षादिस्थावराख्यविशेषविषयो ज्ञेयः । जङ्गमं चतुर्धा, देवमनुष्यतिर्यङ्नारकिसंस्थान भेदात् । असुरयक्षराक्षसादयोऽपि देवयोनयः । भूलोकवर्ति ब्रह्मक्षत्रियविट्शूद्रादयो मनुष्ययोनयः । तेषां तु श्रुतिस्मृत्युक्त विधि निषेध विषयता । देवादीनामपि सा अस्त्येव । प्रायश्चित्ताध्वरतपश्चर्याब्रह्मविद्यादिश्रवणात् । मृगपक्षिसरीसृपादयः तिर्यग्योनयः । नारकिणस्तु रोरवादिषु दुःखैकाश्रयदुस्त्यजविग्रहाः । जङ्गमं पुनर्द्विविधम्-योनिजम् अयोनिजञ्चेति । इदं देवादिषु त्रिष्वपि सम्भवति । प्रजापतिमधुकैटभधृष्टद्युम्नैरावतश्वेदजादि दर्शनात् । तत्र योनिजेष्वेव पञ्चमाहुत्यपेक्षा । योनिप्राप्तेः पूर्वमाकाशवायुधूमाभ्रमेघवृष्टिव्रीह्यादि रेतःसिक्षु अन्यशरीरेषु संसर्गमात्रम् । तत्र व्रीह्यादिप्राप्तेः पूर्वं शीघ्रमेव निष्क्रमणम् । ततः परं दुर्निष्प्रपतरम् । द्युपर्जन्यपृथिवीपुरुषानन्तरं पञ्चमे योषिदग्नौ हुतस्य तत्तत्कालप्रतिनियतपरिणाम विशेषादय आयुर्वेदयोगादिश्स्त्रेषु विशदमवसेयाः । सप्तधातूनां शुक्लशोणितसम्भवत्वप्रकारः, प्रकृति विकृतिभावनियतवातपित्तकफादिप्रपञ्चः, नाड्यादिविशेषतत्परिमाणादयश्च तेष्वेवावसेयाः । एवं जरायुजाण्डजोद्भिज्जस्वेजभेदाऽपि भाव्यः ॥
एषाञ्च व्यष्टिजीवशरीराणामीश्वरं प्रति शरीरत्वं सद्वारकमद्वारकञ्चेति एकः सम्प्रदायः । सद्वारकमेवेति अन्यः । प्रथमस्तु पक्षः प्राचुर्येण भाष्यकारव्यवहारैः सूच्यते । तत्वरत्नाकरेऽपि स एवोक्तः “चेतनाचेतनयोरविशिष्टं तं प्रति शरीरत्वम्” इत्यादि वचनात् । द्वितीयस्तु पक्षो विवरण काराङ्गीकृतः । षडर्थसङ्क्षेपे हि अचितो डीवेश्वरयोर्देहत्वात् तद्वाचि शब्दजनित धियामुभयत्र पर्यवसानम्, उभयोरपि स्वयमेव भानात् द्विर्भानञ्चाशङ््क्योक्तम् “नाचितो जीवद्वारा ब्रह्मशरीरत्वात्” इति । विवरणेऽपि अयमेवार्थः प्रपञ्चितः । अयञ्च विवादो देवमनुष्यादिव्यष्टिदेहविषयः; दिव्य मङ्गलविग्रहाद्यचित्सु सद्वारकत्वायोगात् । विवरणेऽपि हि तमःप्रभृतीनां मपि शरीरत्वनिर्देश विरोध
परिहाराय “आदिसृष्टौ तु” इत्यादिना समष्टितत्वानां साक्षात् परशरीरत्वमुक्तम् । तेजोऽबन्नसृष्टि समनन्तरभावि देवमनुष्यादि नामरूपव्याकरणमात्र एव “अनेन जीवेन” इत्यादि श्रुत्यनुरोधेन सद्वारकत्वम् । तत्रापि अद्वारकं सद्वारकञ्च शरीरत्वे न कश्चित् दोषः । उभयपर्यवसानमपि विशेषमूलप्रयोगभेदप्रतिनियमात् परिहृतम् । अत एव न द्विर्भानमपि । न च एकस्य युगपदनेकं प्रति शरीरत्वमनुपपन्नम्; तल्लक्षणयोगेन तदुपपत्तेः, अनेकं प्रति शेषत्वादिवत् । न च स्वतो जीववत् शरीरभूतस्य त्रिगुणद्रव्यस्य जीवानुप्रविष्टसङ्घातविशेषदशामात्रेण ईश्वरं प्रति शरीरत्वमपसरति । न च तदन्यत् द्रव्यम्; द्रव्याभेदात् । व्याकृतभूतत्वगादीन्प्रति च ईश्वरस्य अन्तर्यामित्वात् । तत एव च तेषां तच्छरीरत्वं श्रूयते । सुषुप्तिमूर्च्छाद्यवस्थासु च स्वाभाविकमीश्वरनियाम्यत्वमेव देहदेहिनोर्दृश्यते । अत इदमद्वारकनियमनं तत्पक्षे न स्यात् । जीवासत्तामात्रञ्च न देह नियमनौपयिकम्; तदानीं ज्ञानेच्छारहिततया तस्य गगनादिसत्तातुल्यत्वात् । अतः सर्वावस्थानां सर्वद्रव्याणामीश्वरं प्रत्येव स्वतश्शरीरत्वम् । जीवं प्रति तु तत्कर्मकृतमिति समीचीनोऽयं पन्थाः ॥
एनामात्मतिरस्क्रियायवनिकामिच्छाविहारस्थलीं
निर्व्यापारविभावरीसहचरीं निद्रामनिद्रात्मनः ।
ब्रह्मस्तम्बमहेन्द्रजालरचना पिञ्छावलीं श्रो तो
विष्णोर्लोहितशुक्लकृष्णशबलां विद्यामविद्यातनुम् ॥
इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीवेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीन्यायसिद्धाञ्जने जडद्रव्यपरिच्छेदः प्रथमः ॥