शरीरलक्षण-निरूपणम् ।
इह प्रसङ्गात्
सामान्यतः शरीर-लक्षणम् उच्यते ।
यस्य चेतनस्य यद् द्रव्यम् +++(चेतनम् अ-चेतनं वापि, न क्रियादि)+++
सर्वात्मना+++(=यावद्-द्रव्य-भावितया, न घटादिवत्)+++ स्वार्थे+++(=शरीरार्थे - न मनुष्यशरीरस्य डयनार्थे)+++ नियन्तुम्,
धारयितुम् च शक्यं +++(न तु रुग्णावस्थायाम् इव सर्वदा नियाम्यते, दहारयत चैवेति)+++;
तच्-छेषतैक-स्वरूपञ् +++(न तु गृहवद् बहूनां शेषम्)+++ च
तत् तस्य शरीरम्।
इति भाष्यम् ।
गो-घटादि-शब्दवत् संस्थानादिभिरनियतवृत्तेः शरीरशब्दस्य क्वचिद्विशेषे नियामकाभावात् सर्वप्रयोगानुगुणम इदमेव श्रुतिसिद्धं व्यापकं लक्षणमिति भाष्यकाराभिप्रायः । एतच्च एकलक्षणमिति केचिद्व्याचख्युः । लक्षणत्रयमित्यपरे । एकत्वपक्षे व्यवच्छेद्यपरिक्लेशः । अन्ये तु एकलक्षणत्वेऽपि जन्मादित्रयस्य ब्रह्मलक्षणत्व इव अत्रापि न व्यवच्छेद्यं सिद्धमस्ति, शङ्कितं तु सममित्याहुः । यौक्तिकग्रन्थेषु तथा निर्वाहस्य अनुचितत्वात् त्रित्वपक्ष एव मुख्यः । भट्टपराशरपादैरपि अध्यात्मखण्डद्वयविवरणे स एव पक्षः सूचितः । “चेतनाचेतनयोरविशिष्टं तं प्रति शरीरत्वम्; स्वेच्छया नियच्छता भगवता
व्याप्यत्वाविशेषात् । इदमेव भौतिकस्य शरीरस्यापि शरीरत्वम्” इत्येकस्य लक्षणतया उपपादनात् । तत्रैवं लक्षणत्रयनिष्कर्षः । यस्य चेतनस्य यदवस्थं द्रव्यं यावत्सत्तमसम्बन्धनार्हं स्वशक्ये नियन्तव्य स्वभावम्, एतदवस्थं तस्य शरीरम् इत्येकं लक्षणम् । चेतनस्य – चैतन्यविशिष्टस्येत्यर्थः । तेन चैतन्यस्य तत्तदाश्रयं प्रति शरीरत्वव्यवच्छेदः । यदवस्थमित्यव्याप्तिपरिहारः । तस्यैव द्रव्यस्य
अवस्थान्तरे वियोगात् । द्रव्यमिति क्रियादिव्यवच्छेदः । यावत्सत्तमित्यादिना जीवं प्रति परकाय प्राणेन्द्रियकुठारादिव्यवच्छेदः; प्राणादीनां हि पृथगेव सृष्टानां शरीरनिर्माणात् पूर्वम्भावात्, तथा मोक्षात्पश्चादपि तेषामाप्रलयावस्थानात् । स्वशक्ये इत्यशम्भवपरिहारः । न हि विहङ्गमशरीरसाध्यं विहायोगमनं मानुषमृगसरीसृपादिशरीरस्य शक्यम् । न च तावता तेषामशरीरत्वमिति भावः । स्वशक्यञ्च अन्वयव्यतिरेकादिसमधिगतं यथासम्भवं भाव्यम् । अतः शिलाकाष्टघटपटादिषु जीव शरीरेष्वपि तदधीनत्वाभावेन अव्याप्तिचोद्यं परिहृतं भवति; स्थावरादिवत् अतिसूक्ष्मस्य नियमन विशेषस्य अस्मदादिभिर्दुर्ग्रहत्वात् । यद्यपि क्वचित् स्थावरेषु उन्मेषनिमेषादिकं दृश्यते, तथापि न तत् सार्वत्रिकम् । स्मरन्ति च शिलाकाष्टादिष्वपि स्वल्पतरं चैतन्यम् । “अप्राणिमत्सु स्वल्पा सा स्थावरेषु ततोऽधिका” इत्यादि । वक्ष्यमाणचतुर्थलक्षणपक्षे तु नास्य चोद्यस्य अवकाशोऽपि । न च अत्र शक्ये सर्वत्र नियमनं विवक्षितम्; अनिच्छादिवशेन तस्यापि क्वचिदसम्भवात्, सहकार्यनागमनमात्रेण कार्यानुत्पत्ति सिद्धेः । न हि अङ्कुरमनुत्पाद्यविनश्टस्य बीजवर्गस्य अङ्कुर उत्पादन सामर्थ्यं नास्तीति शक्यते वक्तुम् । नियन्तव्येत्यनियन्तव्यव्याध्यादिव्यवच्छेदः । व्याध्यादीनां द्रव्यात्मकत्वात् तदीयत्वात् स्वशक्ये प्रवर्तमानत्वाच्च । एवं पुत्रशरीरादीनामपि । स्वभावशब्देन अव्याप्तिपरिहारः । व्याध्यादिदशायां स्वशक्येऽपि अशक्यनियमनानां मानुषशरीरादीनामपि शरीरत्वात् तदानीमेतस्य अशक्यनियमनत्वस्य औपाधिकत्वादिति ध्येयम् ॥
यस्य चेतनस्य यदवस्थं द्रव्यं यावत्सत्तं धाय तदवस्थं तस्यं शरीरमिति द्वितीयं लक्षणम् ।
पुत्रशरीरादिकं न यावत्सत्तं धार्यमिति व्यवच्छिद्यते । शेषं प्राग्वत् । तथा यस्य चेतनस्य चदवस्थं द्रव्यं यावत्सत्तमशेषतानर्हं तदवस्थं तस्य शरीरमिति तृतीयं लक्षणम् । अशेषतानर्हमिति पूर्ववदेव पुत्रादिव्यवच्छेदः । दानादिना तेषां स्वशेषत्वनिवर्तनस्य शक्यत्वात् । शरीरस्य तु दासत्वाद्यापादनेन परशेषत्वेऽपि स्वस्वशेषत्वस्य सांसिद्धिकस्य निर्वर्तयितुमशक्यत्वादिति । अत्रेदं चतुर्थमपि लक्षणत्रय फलितं श्रीभाष्यकाराभिप्रेतं लक्षणमुच्यते । यस्य चेतनस्य यदवस्थमपृथक्सिद्धविशेषणं द्रव्यं तत् तस्यशरीरमिति । यावत्सत्तमसम्बन्धानर्हत्वमपृथक्सिद्धत्वम् । आधेयत्वविधेयत्वशेषत्वानि अपृथक्सिद्धेः अवान्तरभेदा इह विवक्षिताः । व्यवच्छेद्यं तु स्पष्टमेव । एतेन एतदपि परिहृतम् । यदुत, शरीर शब्दस्य अन्यतमं वा? त्रीण्यपि वा? त्रिकं वा प्रवृत्तिनिमित्तम्? न प्रथमः; “आधेयत्वविधेयत्व शेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तानि” इतिभाष्यविरोधात् । न द्वितीयः; गौरवात् अनेकार्थत्व प्रसङ्गाच्च । न तृतीयः; गौरवात् भिन्नलक्षणपक्षे च असावरस्यादिति । त्रिभिरुपलक्षितस्यैव चेतन अपृथक्सिद्धत्वस्य प्रवृत्तिनिवृत्तत्वात् न कश्चित् दोषः । ईश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं शरीरमिति वा तटस्थलक्षणम् । भाष्ये शरीरत्वस्य पितृत्वादिवत् सप्रतियोगिकत्वसूचनाय देवत्वमनुष्यत्वद्विपात्वादि अवान्तरभेदानामप्रयोजकसूचनाय च “यस्यचेतनस्य यद्द्रव्यम्” इत्यादिनिर्देशः । प्रतियोगिनिर्देशरहिते लक्षणे यथाप्रमाणं प्रतियोगिविशेषव्यवस्था । यथा वैशेषिकादीनां लक्षणेषु सप्रतिबन्धिकगुण सामान्यविशेषसमवायाभावादीनां प्रतिसम्बन्धिनिर्देशरहितेषु च लक्षणेषु कर्मान्यत्वेसति जातिमात्राश्रयो गुणः, नित्यमेकमनेकसमवायि सामान्यम्, अजातिरेकवृत्तिर्विशेषः, नित्यसम्बन्धः समवाय इत्यादिषु ॥
अन्यैस्तु “चेष्टेन्द्रियार्थाश्रयः शरीरम्” इति सूत्रितम् । तत्र अन्त्यावयवित्वे सति चेष्टाश्रयत्वमेकं लक्षणम् । तद्विशेषितेन्द्रियाश्रयत्वभोगायतनत्वे द्वे । तत्र चेष्टाशब्देन क्रियामात्र विवक्षायामतिव्याप्तिर्व्यक्ता । प्रयत्नवदात्मसंयोगासमवायिकारणकक्रियाविवक्षायां प्रयत्नवदीश्वर संयोगासमवायिकारणकक्रियाश्रयेषु तच्चरीरतया तैरनभ्युपगतेषु भूभूधरादिषु अतिव्याप्तिः । प्रयत्नवज्जीवेति विशेषणे प्राणादिषु अतिव्याप्तिः । बुद्धिपूर्वकप्रयत्नेतिविशेषणेऽपि बुद्धिपूर्वकाकुञ्चन प्रसारणादिदशायां तेष्वेव अतिव्याप्तिः । वाय्वादेरन्त्यावयवित्वं नास्तीति चेत्; कस्य तर्ह्यस्ति? घटादेरिति चेन्न; तत्रापि अनेकघटपटादिभिर्भित्तिकन्थानिर्माणे तदसिद्धेः । तत्र तदारम्भो नास्तीति चेत्; अन्यत्रापि तथैव नास्तीत्येव तु सत्यम् । अस्तु तर्हि घटादयोमध्यावयविन इति चेन्न; सर्वत्रापि तथाप्रसङ्गात् अन्त्यावयवित्वमाकाशकोरकायितमिति साधु तद्विशेषितं लक्षणम् । इन्द्रियाश्रयत्वम्, तत्समवायित्वम्, तत्संयोगित्वं वा स्यात् । न प्रथमः; अनभ्युपगमात्, इन्द्रिय अवयवानां तन्मते शरीरत्वप्रसङ्गाच्च । न द्वितीयः; घटादिष्वपि तत्सम्भवात् । यावत्सत्तम् इन्द्रिय संयोगो विवक्षित इति चेत्; तदपि न । अनिमेषचक्षुषि प्रेक्षमाणे पुरुषे तदातनोत्पन्नविनष्ट बुद्बुदप्रभृतिष्वतिव्याप्तेः । नित्यमनःपक्षे च आत्मादिषु । तैः शरीरतया मृतशरीरस्य अभ्युपगमाच्च । इन्द्रियसमयुक्तकृत्स्नप्रदेशं शरीरमिति चेन्न; मूर्तयोः शरीरेन्द्रिययोः सप्रतिघत्व विरोधेन कृत्स्नप्रदेश संयोगाभावस्य युष्माभिरेव अभ्युपगन्तव्यत्वात्, निरिन्द्रियशरीरान्तःप्रदेशविशेषस्य प्रामाणिकत्वाच्च । युगपदनेकेन्द्रियावस्थितिदेशः शरीरमिति चेन्न; अवस्थितिरिति संयोगमात्रविवक्षायामाकाशादीनाम्, ईश्वरस्य, च अस्मदादीन् प्रति शरीरत्वप्रसङ्गात् । अपृथक्सिद्धिविवक्षायामसिद्धेः, ईश्वरस्य अस्मत् पक्षेण शरीरत्वप्रसङ्गाच्च । उपष्टम्भकत्वादिविवक्षायां प्राणेऽतिव्याप्तिः । यावत्सत्तमिन्द्रियासंयोग अयोग्यं शरीरमित्यपि दत्तोत्तरम्; ईश्वादिषु अतिव्याप्तेर्दुष्परिहरत्वात् । इन्द्रियव्यतिरिक्यं प्राण व्यापाराधीन प्रवृत्तिनिवृत्यादिकं शरीरमिति चेन्न; आत्मनि मलादिषु च प्रसङ्गात् । सर्वप्रवृत्तिषु तादधीन्यं विवक्षितमिति चेन्न; असम्भवात् । न हि वाय्वाद्याकृष्यमाणशरीरादिप्रवृत्तिः प्राणाधीना । भोगायतनत्वमपि यदि भोगस्थानत्वमात्रम्, तदा गृहादिषु अतिव्याप्तिः । यदाश्रित्यैव आत्मा भोगवान् भवति, तद्भोगायतनमिति विवक्षितमिति चेन्न; अस्मन्मते लक्षणासम्भवात् । अशरीरस्यापि मुक्तस्य भोगविशेषाभ्युपगमात् । दुःखात्मकभोगो विवक्षित इति चेत्; तथापि इन्द्रियेषु अतिव्याप्तिः । ईश्वर मुक्तादिभिरिच्छागृहीतशरीरेषु अव्याप्तिश्च । स्वभ्रमवशेन भोगाश्रय इत्यपि न; तत्तद्वादिभेदैरात्मतया
बुध्यमानेषु इन्द्रियमनःप्राणेषु अतिव्याप्तेः । ईश्वरमुक्तादिशरीरेषु अवेयाप्तेश्च । शिरः पाणि पादादिमयं शरीरमिति चेत्; शिलापुत्रकादिष्वपि तत्सम्भवात् । प्राणादिमत्वेसतीति चेन्न; मृतशरीराद्यव्याप्तेः । यदाकदाचित् प्राणादिसम्बन्धमात्रं विवक्षितमिति चेत्; तथापि स्थावरादिशरीरेषु अव्याप्तिः । तेषु प्राणादिसत्वेऽपि पाणिपादादिसंस्थानाभावात् । एवं लक्षणान्तराण्यपि दूष्याणि । तत्र श्रुत्यादि अनुरोधेन पूर्वोक्तमेव लक्षणम् ॥