25 दिक्

ननु नित्यविभोर्दिशः कार्यत्वं कथम्? न; नित्यविभुदिग्द्रव्यस्यासिद्धेः । प्राक्प्रत्यग्दूरासन्नादिव्यपदेशानां तु उभयसम्मतैस्तत्तदुपाध्युपहितैस्तैस्तैराकाशादिद्रव्यैरेव मूर्तान्तर संयुक्तसम्योगपरम्परास्यूतैस्तत्तत्प्राक्त्वादिभेदनिर्वाहकत्वाभिमतोपाधिविशेषैरेव वा यथायोगंनिर्वाहात् ।
सम्प्रतिपन्नाकाशादिपरित्यागेन सर्वत्र सर्वगुणघटनरूपातिप्रसङ्गपरिहाराय अधिकदिग्धर्मिकल्पनं पापक्षयवत् पुण्यपरिक्षयोऽपि भवतीति भयात् मन्दाकिनीमपहाय मरीचिकानुधावनम् ।
तावन्मात्रोपनेतृत्वस्वभावान्यप्रकल्पनात् ।
सिद्धस्य धर्मिणः कल्प्या तावन्मात्रोपनेतृता ॥ 26 ॥
अस्तु तर्हि आकाशातिरिक्तं दिक्तत्वम् “पद्भ्यांभूमिर्दिशः श्रोत्रात्” दिशँ श्रोत्रम्" इत्यादिपृथक्सृष्टि प्रलयश्रवणादिति चेन्न; अभिमानिदेवतोपाधिसृष्ट्या निर्वाहात् । तदेकप्रकरणस्थान्तरिक्षस्वर्ग लोकाद्यवच्छेदसृष्ट्यादिवत् । अन्यथा तत्रपि तत्वान्तरस्वीकारप्रसङ्गात् । सूत्रकारादिभिश्च “न
वायुक्रिये पृथगुपदेशात्” इत्यधिकरणे पृथक् सृष्ट्याद्युपदेशवतोऽपि प्राणस्य वायुविशेषत्वमेवोक्तम् । तत् दिगादीनामपि प्रदर्शनार्थं मन्तव्यम् । यदि च कार्यं किमपि दिक्तत्वम्, तदा तत्सृष्टेः पूर्वं संहारात् परतश्च प्रकृतिमहदादितत्वानामावरणत्वावार्यत्वदूरासन्नत्वव्यवस्था न स्यात् । व्यष्टि दशायां हि दिक्सृष्टिः श्रूयते । प्रकृतिकार्यतया प्रादेशिकत्वे वा शुद्धसत्वत्रिगुणादेरूर्ध्वाधःप्रभृति
व्यवस्था न स्यात् । यदि तत्रोपाधिभिरुपहितैर्वातैस्तैर्निर्वाहः, तत्रपि सममिति सिद्धं न दिक् तत्वान्तरम् इति । यत्तु प्रमेयसंग्रहे प्रोक्तम् “गगनस्य दिशाञ्च त्रिवित्करणेन रूपवत्वम्, अतश्चाक्षुषं सर्वं सविशेषमेव गृह्यते” इति; तेनापि पञ्चीकृतभूतारब्धमात्रं प्रतीयते । न पुनः स्थिरपरिगणितचतुर्विंशत्यतिरिक्ततत्वान्तरत्वम् । वरदविष्णुमिश्रैस्तु “द्रव्यञ्च षड्विंशतिविधं सत्वरजस्तमांसि” इत्यादिना दिग्द्रव्यं पृथगेव सङ्ख्यातम् । “आकाशकालदिशश्चक्षुरिन्द्रियेण” इति
तस्य चाक्षुषत्वमप्युक्तम् । “दिक्कालौ चाक्षुषौ प्रत्यक्षपरत्वापरत्वकारणसंयोगाश्रयत्वात् घटवदित्यनुमानेनावगम्यते” इति च तत् साधितञ्च । अत्र पृथक्त्वं भाष्यविरुद्धसत्वादिपरिगणनवत् अन्यपरतया निर्वाह्यमिति ॥
तदेतत् ब्रह्माण्डप्रभृति स्तम्बपर्यन्तं सर्वमपि पञ्चभूतात्मकम्; पञ्चीकरणादिवचनात् ।
“तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” इत्युपलक्षणम्; समानप्रकरणैरुपबृमहणैश्च तथा अध्यवसायात् भूयसा तु लौकिकपरीक्षकागमव्यवहाराः । तथा च सूत्रम् “वैशेष्यात्तु तद्वादस्तद्वादः”
इति, “त्र्यात्मकत्वात्तु भूयस्त्वात्” इति च । एवं पञ्चीकरणमपि उपलक्षणमेव ॥
“नानावीर्याः पृथग्भूताः ततस्ते संहतिं विना ।
नाशक्नुवन् प्रजाः स्रष्टुं असमागम्य कृत्स्नशः ॥
समेत्यान्योऽन्यसंयोगं परस्परसमाश्रयाः ।
एकसङ्घातलक्षास्तु संप्राप्यैक्यमशेषतः ॥
महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते । "
इति भगवत्पराशरवचनात् । तथा श्रीमद्गीताभाष्ये “महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेवचेति क्षेत्ररम्भकद्रव्याणि” इत्यादिकमुक्त्वा प्रकृत्यादिपृथिव्यन्तद्रव्यारब्धमिन्द्रियाश्रयभूतं इच्छाद्वेषसुखदुःखविकारिभूतसङ्घातरूपं चेतनसुखदुःखोपभोगोधारत्वप्रयोजनं क्षेत्रमित्युक्तं भवति” इत्यक्तम् । तदेवमष्टद्रव्योपादानानि शरीराणि । इन्द्रियाणि तु शरीराश्रितानि द्रव्यान्तराणि । “इन्द्रियाणि दशैकञ्च पञच चेन्द्रियगोचरा इति क्षेत्राश्रितानि तत्वानि” इति विभजनात् “इन्द्रियाश्रयभूतम्” इत्युपसंहाराच्च । एतेन तन्मात्राणां पूर्वोक्तो निश्शेषपरिणामपक्षः परिगृहीत इव सूच्यते ॥
नन्वेकस्यानेकद्रव्योपादानकत्वे जातिसङ्करः स्यात्; न स्यात् । अवयविनोऽस्माभिः अभ्युपगमात् । बुद्धिशब्दसङ्ख्यापरिमाणदेशकालकार्यादिभेदस्य अवयव्यारम्भकतया भवदभिमत अवस्थान्तरमात्रेण निर्वाहात् । अन्यथा राश्यादिष्वपि द्रव्यान्तरकल्पनाप्रसङ्गात् । गुरुत्वादिकार्य अदर्शनादिनिर्वाहपरिक्लेशात् । पृथग्दशापतनदर्शनेन अवयवगुरुत्वस्य अप्रतिबन्धात् । अवयवि गुरुत्वप्रतिबन्धे तु द्व्यणुकप्रभृतेः सर्वस्यापतनप्रसङ्गात् परमाणुगुरुत्वैरेव सर्वत्र पतने घटादेः साक्षात् परमाण्वारब्धत्वाभावेन तत्पतने तद्गुरुत्वस्य असमवायित्वायोगात् । संयोगाभावाच्च दीर्घैकतन्तुसंवर्तनजनितेषु तन्त्वतिरिक्त व्यवहारभङ्गप्रसङ्गात् । द्वितायतन्तुप्रभृत्युपान्त्यतन्तुपर्यन्त पटधियो विभज्यमानतन्तुव्यतिरिक्ततन्तुगतपटधियश्च अविशेषात् । आरभ्यारम्भवादेऽपि प्रथमद्वितीय तन्त्वपगमे द्वितन्तुकादिद्रव्यावस्थानभ्युपगमात् । घटादिषु च आरम्भकभागानुपलम्भेन यथेष्टभाग अनर्हत्वात् उपलम्भश्रुतिभ्यां बाधितत्वाच्च । अतोऽवयव्यनभ्युपगमात् न जातिसङ्करः ।
अभ्युपगतामपि प्रतिनियतकनकरजताद्यंशनिर्मितबिम्बादिवत् हेरम्बादिवच्च निर्वोढुं शक्यत्वात् । अस्मन्मते तु सङ्घातविशेषरूपेषु तत्तद्भूतांशानां प्रतिनियतत्वात् । अवयविवादिनामपि यथास्वं निमित्ततया उपादानतयाच अनेकभूतानामेकसङ्घातानुप्रवेशोऽवर्जनीयः । न च तत्र मिथोजाति सङ्करः, तादात्म्यं वा जायते इति नास्माकं कश्चित् विशेषः ॥
न च जातिसङ्करो दोषः; उपीधिसङ्करवत् । न हि मिथोधर्मिपरिहारेण वर्तमानयोः उपाध्योः कार्यत्वमूर्तत्वादिरूपयोरेकत्र समावेशो नातिप्रसङ्गावहः, जात्योस्तु तथेति नियामकम् अस्त्यन्यत्राभिमानात् । परावरभावरहितयोर्जात्योरसमावेशनियमोपलम्भो नियामक इति चेन्न; उपाध्योरपि नीलत्वपीतत्वादिरूपयोस्तत्सम्भवात् । केषुचित् दर्शनस्य जातावपि समत्वात् । कनकत्वकुण्डलत्वयोः काञ्चनकटककलधौतकुण्डलादिषु पृथगेव पर्तमानयोः काञ्चनकुण्डले समावेश दर्शनात्, गत्वतीव्रत्वादीनाञ्च तीव्रगकारादौ । तेषाञ्च जातित्वाभ्युपगमात् । तत्रान्यतर जातिभङ्गो वा, सदृशसंस्थानाभिव्यङ्ग्यजात्द्वयकल्पना वा, इत्यादि तु स्वसिद्धान्तस्तनन्धय विषय वात्सल्यम् । तच्च स्वापत्यं मार्जारादिवत् जिघत्सति । अत्यन्तसजातीयेष्वपि एकजातीयत्वेन अबाधितप्रत्यभिज्ञाने जातेरेव भङ्गप्रसङ्गात् । तदेवं सिद्धमनेकतत्वात्मकं ब्रह्म्ण्डादिव्यष्टि विश्वमिति । एवंविधब्रह्माण्डानन्त्यतदन्तर्वर्तिलोकविशेषसंस्थानतत्परिमाणलोकपालनिवासादिभेद तत्तदवस्थानकालादयो ज्यौतिषपुराणादिषु प्रपञ्चिता द्रष्टव्याः । क्वचित्क्वचित्विरोधिनोऽपि तात्पर्य भेदादिनिर्वाह्याः । एषा च प्रतिनियतदेशकालस्वरूपफलभोगतारतम्यनिम्नोन्नतब्रह्मादिस्तम्बपर्यन्ता विषमसृष्टिः स्वरूपानादेर्जीववर्गस्य प्रवाहानादिकर्मतारतम्य निबन्धनेति नाकृताभ्यागमकृतप्रणाश वैषम्यनैघृण्यादिप्रसङ्गः । जीवानामाप्रलयावस्थायित्वादिपक्षे तु एते दोषाः स्फुटाः । तदेवं पुण्यपाप तारतम्यात् केचित् द्युप्रभृतिलोकेषु उत्कृष्टशरीरेन्द्रियज्ञानशक्त्यादिमन्तः । केचिच्च नरकादिषु घोरदुःखकारणात् निकृष्टशरीरादिमन्तः । केचिच्च मिश्रकर्माणः पृथिव्यादिषु मिश्रमध्यम सुखादिमन्तः ॥