प्रत्यक्षश्चायम् । तथा हि
कालद्रव्यस्य प्रत्यक्षत्व निरूपणम् ।
वर्तमानतयाऽध्यक्षे वस्तु सर्वं प्रकाशते ।
न सा स्वरूपं धीभेदात् नोपाधिरनवस्थितेः ॥17 ॥
तत्र स्वपरनिर्वाहे पूर्वत्रैव तथा न किम्?
तथाचास्त्विति धीरान्प्रत्यन्तस्त्वागमो बलम् ॥18 ॥
तत्सिद्धस्योपलम्भेन प्रत्यक्षत्वं प्रसाध्यते ।
लाघवात्तद्विषयता वर्तमानधियो वरम् ॥19 ॥
न चैषा लैङ्गिकी बुद्धिर्लिङ्गादेरविमर्शतः ।
विमर्शोऽप्यन्यथासिद्धेस्तर्कानुग्रहवर्जनात् ॥20 ॥
मिथःकरम्बितैरेव मूर्तैर्वा विश्ववर्तिभिः ।
तद्युक्तैर्गगनाद्यैर्वा पक्षद्वितयसम्मतैः ॥21 ॥
रविस्पन्दादिभूयस्त्वफल्गुत्वाद्युपनायकैः ।
परावत्वादिसिद्धेरन्यथागौरवोदयात् ॥22 ॥
तावन्मात्रोपनेतृत्वे सिद्धस्यार्थस्य कल्पिते ।
जगतो म्श्ररूपत्वं न भव्दधिके यथा ॥23 ॥
कालसम्बन्धरूपोऽयं परत्वादिरिति स्थिते ।
लिङ्गसिद्ध्यैव कालस्य प्रत्यक्षत्वमुपागतम् ॥24 ॥
अतोऽनुमानमात्रेण कालोऽन्यो नैव सिध्यति ।
केवलागमसिद्धे च न लोकव्यवहिर्यता ॥25 ॥
तदेवं केवलैस्तर्कैः कालस्य दुरुपपादनमालम्ब्य हि न्यायतत्वे संयोगाधिकरणे “संयोग विभागसङ्ख्या कालः” इत्यादि चोक्तम् । प्रमातृपादे च प्रसङ्गात् कालमपलप्य “तस्मादेकाश्रय क्रियासङ्ख्या कालः” इति सूक्तमुपसंहृतम् । प्रपञ्चितञ्चास्य प्रत्यक्षत्वं तत्रैव । यथा “सर्वे प्रत्ययाः कालोपश्लिष्टा एव हि दृश्यन्ते । तदिति देशकालविशिष्टतयैव स्मृतिरपि जायमाना प्रागपि कालानुभवं साधयति” इति । जैननिराकरणे भाष्यञ्च “कालस्य पदार्थविशेषणतयैव प्रतीतेस्तस्य पृथगस्तित्वनास्तित्वादयो न वक्तव्याः, न च परिहर्तव्याः । कालोऽस्तिनास्तीतिव्यवहातो व्यवहर्तृणां जात्याद्यस्तित्वनास्तित्वव्यवहारतुल्यः” इति । अत एव च कालस्य पृथग्गणनाभावः ॥
तदेवमव्यक्तोपक्रममहदहङ्कारेन्द्रियतन्मात्रभूतसृष्टिप्रकरणेषु जीवपरौ पञ्चविंशक षड्विंशकौ । अक्षरतमसोरन्यतरोपक्रमे कालस्यपृथग्गणनेच षड्विंशकसप्तविंशकाष्टाविंशकत्वादिकं
यथासम्भवं भाव्यम् । श्रुतिश्च “तं षध्विमशकमित्याहुः सप्तविंशमथापरे” इति । सत्वरजस्तमसां पृथग्गणनया अधिकसङ्ख्यां निर्वहन्तस्तेषां द्रव्यत्वदूषणेन वक्ष्यमाणेन निरस्ताः । पञ्चविंशातिरिक्त निषेधपराणां निर्वाहस्ति भगवता व्यासेन मोक्षधर्मेऽभिहितः ।
“अन्यश्च राजन् स परस्तथान्यः पञ्चविंशकः ।
तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधवः” ॥इति ॥
सूत्रितञ्च “अवस्थितेरिति काशकृत्स्नः” इति । प्रपञ्चितश्चायमर्थो भाष्यादिषु समानाधिकरणनिर्वाहे । नन्वेवमपि तत्तद्भूतेषु सवितृकान्तहिमकरकवैद्युतवैश्वानराद्युत्तरोत्तरावस्था दर्शनात् तत्वसङ्ख्यानियमोऽनुपपन्नः; मैवम् । समष्ट्यवस्थापेक्षया तन्नियमात् । पञ्चीकरण पश्चाद्भाविव्यष्ट्यवस्थाविशेषाणां तुआनन्त्यादपरिसङ्ख्यानम् । एतेषु च तत्वेषु भागत एव
उत्तरोत्तरसृष्टिः । पूर्वपूर्वैरुत्तरोत्तरावरणस्य तत्तदाकारेण च कार्यावृत्तेः श्रुतत्वात् । अन्यथा पृथिव्येकशेषप्रसङ्गात् पूर्वपूर्वभूतानामुपलम्भादिसिद्धत्वाच्च । तन्मत्राणां तु आवारकत्वाद्यनाश्रयणात्
नाश्शेषपरिणाम इत्येके । शरीरादेश्चतुर्विंशतितत्वमयत्ववचनात् तेषामप्येकदेशतः परिणाम इत्यपरे । पूर्वस्मिन्पक्षे तन्मात्रकार्यभूतगुणपञ्चकेन सह शरीरादेश्चतुर्विंशतितत्वमयत्वोक्तिरिति वा सर्वाचित् तत्वमयत्वमात्र प्रतिपादनपरतया वा निर्वाहः । अपरस्मिन् पक्षे क्वचित् केषाञ्चित् सृष्ट्यनुक्तिवद् अविवक्षया आवरणाद्यनुक्तिरिति गतिः ॥
एतानि तत्वानि प्रथममीश्वरः स्वसङ्कल्पादेव तत्तदव्यवहितपूर्वपूर्वतत्वशरीरकः सृष्ट्वा
व्यष्टिनामरूपव्याकरणं सङ्कल्प्य तेषां तत्वानां पृथग्भूतानां व्यष्टिसृष्ट्यशक्तेः परस्परसम्मिश्रणञ्च सङ्कल्प्य “व्योम्नोऽर्धभागश्चत्वारो वायुतेजःपयोभुवाम्” इत्यादिक्रमेण एकैकभूतेषु भूतानातराणां अष्टमांशचतुष्कैः पञ्तीकरणं कृत्वा तेषु स्वानुप्रविष्टजीववर्गमनुप्रवेश्य तैरेव तत्वैर्दशगुणितोत्तर सप्तावरणवेष्टितं हेमाख्यपरिणामभूतमयं ब्रह्माण्डमारभ्य तदन्तरे च स्वनामाभिपङ्कजप्रभृति सप्तम स्थानेषु अन्यतमेन सकलतदण्डान्तर्वर्त्तिचेतनभरितविग्रहं चतुर्मुखं प्रसादात् सृजति; क्रोधाच्च रुद्रम् । अत्र श्रुतिः “एको ह वै नारायण आसीत् न ब्रह्मा नेशानः” इत्यारभ्य “तत्र ब्रह्मा चतुर्मुखोऽजायत त्र्यक्षः शूलपाणिः पुरुषोऽजायत” इत्यादिका । “नारायणाद्ब्रह्मा जायते । नारायणाद्रुद्रो जायते” इत्यादयश्च । उक्तञ्च महाभारते
“ब्रह्माणं शितिकण्ठञ्च याश्चान्या देवताः स्मृताः ।
प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ॥
एतौ द्वौ विबुधश्रेष्टौ प्रसादक्राधजौ स्मृतौ ।
तदादर्शितपन्थानौ सृष्टिसंहारकारकौ ॥” इति ॥
स च भगवान् अनन्तरं स्वविहितब्रह्मान्तर्यामिरूपेण अवस्थितः स्वप्रहितवेदोपज्ञ विज्ञानेन स्वार्पिताभ्यां विचित्रसृष्टिविषयबुद्धिशक्तिभ्यामुपबृंहितेन स्वनिर्धूतमधुकैटभादिविविधापदा ब्रह्मणा ब्रह्माण्डान्तश्चतुर्दश भुवनसंस्थानतदधिकरणकदेवतिर्यङ्मनुष्यस्थावरादिदिग्विशेषादि विविध विचित्रव्यष्टिसंज्ञामूर्तिसृष्टिं कारयति, करोति च तच्छरीरकः । तथा च सूत्रम् “संज्ञामूर्तिकॢप्तिस्तु त्रिवित्कुर्वत उपदेशात्” इति । संहारयति संहरति च हरशरीरकः ॥