23 कालद्रव्यनिरूपणम्

कालद्रव्य निरूपणम् ।
कालस्य मायासृज्यत्वादिकम् “अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते । " इत्यादिभिर्बाधितम् । तर्कश्च -
यतः कुतश्चित्कालांशात् परतः पूर्वतोऽपि वा ।
कालो न चेत्; त्वदुक्तिस्थं पौर्वापर्यं न सिध्यति ॥ 12 ॥
कालाधीनभवद्भव्यभूतादिव्यवहारवान् ।
देशोऽन्त्योऽपि ततः सोऽपि तदभावे न सिध्यति ॥13 ॥
नित्यविभूतावपि कालस्याहेतुत्वमात्रम्; नत्वभावः । “कालं न पचते तत्र न कालस्तत्र वै प्रभुः । " “कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणाम हेतुः । " इत्यादि वचनात् । अन्यथा “सदा पश्यन्ति” इत्यादिभिर्विरोधात् । अस्य च अन्वयव्यतिरेकाभ्यामागमाश्च यथायोगं तत्तत्कार्य निमित्तत्व सिद्धिः । तच्च उपाध्यवच्छेदात् । सविकारत्वपक्षे स्वविकारान्प्रति कालस्योपादानत्वमेव; निमित्तभूताकारान्तराभावात् ॥
एकेनैव क्षणेनास्य विश्वस्यापि विशेषणात् ।
कालवत्तक्षणानाञ्च व्यापित्वमवगम्यते ॥ 14 ॥ अस्य विकारित्वम्
“सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । कलामुहूर्ताः काष्टाश्चाहोरात्राश्च सर्वशः” इत्यादिश्रुतिः, “कालं सः” “कला मुहूर्तादिमयः” इत्यादिस्मृतिश्चाह । अत्र स्वारसिकार्थे बाधकाभावादधिदेवतोपाध्याद्युत्पत्या निर्वाहो न शङ्क्यः । विभोर्विकारित्वानुपपत्तिर्बाधिकेति चेन्न; अवयवोच्छूनतादिलक्षणस्य विकारस्यानभ्युपगमात् । अवस्थान्तरापत्तिमात्रस्याविरोधात् । अन्यथा विभोरेवासिद्धिप्रसङ्गात् । सर्वमूर्त्तसंयोगित्वं हि विभुत्वम् । तस्मादन्ततः संयोगलक्षणमङ्गीकार्यम् ।
अथ विकारित्वानुपपत्या विभुत्वमेव कस्यचिन्नास्तीति मतम्, तथापि कालस्य विकारित्वाद्विभुत्वमेव भज्यते । न पुनर्विभुत्वाद्धिकारित्वम् । कथ़ञ्च विकारित्वं विभुत्वस्य भाधकम्? कारणत्वे प्रमाणाभावादिति चेत्; न तावदिदं सामान्यतः । तथा हि
न हेतुकार्यतेत्येतत् बोधाय फणितं न वा ।
द्विधाऽपि भङ्गः स्वोक्त्यादेः फलवत्त्वाफलत्वयोः ॥15 ॥
सावधेरवधिर्योऽसौ पऊर्वो हेतुः परो रिपुः ।
कार्यं नित्यमसद्वा स्यात् अवधेरनपेक्षणात् ॥16 ॥
अन्वये सत्यपि नित्यविभोर्देशकालव्यतिरेकाभावेन कारणत्वं दुर्ग्रहमिति चेन्न; तावन्तरेणापि धर्मिग्राहकेणैव तत्सिद्धेः । सामान्यतश्च अन्वयव्यतिरेकयोरपि सुशकत्वात् । सामान्यतःसिद्धस्य पारिशेष्यादिभिर्विभुत्वादिसिद्धेः । विकारित्वमविभुत्वेन व्याप्तमिति चेन्न; ईश्वर तज्ज्ञानाभ्यामनैकान्त्यात् । तयोरपि पक्षीकरणे श्रुतिबाधादिप्रसङागात् । निर्विकार एवेश्वर इति न दोष इति चेन्न; संयोगसिसृक्षादिलक्षणविकारस्य अवश्यम्भावितया अभ्युपगन्तव्यत्वात् । तत्र कृत्स्न एकदेशविकल्पाद्यनुपपत्तयस्तु विभुद्रव्य इव अविभुद्रव्येष्वपि तुल्यत्वात् शून्यवादं प्रसञ्जयेयुः । ताश्च सूत्रकारैरेव ईश्वरे प्रसज्य परिहृताः “कृत्स्नप्रसक्तिः, श्रुतेस्तु शब्दमूलत्वात्” इत्यादिभिः । उक्तञ्च कालादीनां विकारस्वरूपत्वं वेदार्थसंग्रहे “निमेषकाष्टाकलामुहूर्तादिपरार्द्धपर्यन्तपरिमितव्यवच्छेदस्वरूपसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पृष्टानन्तमहाविभूतिः” इति । उक्तञ्च नीतिमालायां नारायणार्यैः “कालोऽनाद्यनन्तोऽजस्रक्षणपरिणाममुहूर्त अहोरात्रदि विभागवान् परणामपरिस्पन्द हेतुः” इति ।