22 षट्त्रिंशत्तत्त्ववादनिराकरणम्

अत एव षट्त्रिंशत्तत्ववादोऽपि निराकृतः । ते हि एवमाहुः
“शैवागमेषु मुख्यं पतिपशुपाशा इति क्रमात् त्रितयम् ।
तत्र पतिः शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं पाशः ॥ इति तत्त्वसंग्रहः ।
(षट्त्रिंशत्तत्ववाद निराकरणम् । )
मलं कर्म च माया च मायोत्थमखिलं जगत् ।
तिरोधानकरी शक्तिरर्थपझ्चकमिष्यते ॥ इति पाशविभागः ।
मायापुरुषः शिव इत्येतत् त्रितयं महार्थसंहारे ।
अवशिष्यते पुनस्तत् प्रवर्तते पूर्ववत्सृष्टौ ॥
इति सृष्टिप्रलयाश्रयनित्यतत्व निष्कर्षः ॥
शुद्धानि पञ्च तत्वान्याद्यन्तेषु स्मरन्ति शिवतत्वम् ।
शक्तिसदाशिवतत्वे ईश्वरविद्याख्यतत्वे च ॥
पुंसो ज्ञकर्तृतार्थं मायातस्तत्वपञ्चकं भवति ।
कालो नियतिश्च तथा कला च विद्या च रागश्च ॥
अव्यक्तं मायातो गुणतत्वं तदनु बुद्ध्यहङ्कारौ ।
चेतोधीकर्मेन्द्रियतन्मात्राणीति तत्वानि ॥ इति तत्व गणना ॥”
तत्र चिदचिदीश्वरविभागतन्नित्यत्वादौ न विवादः । ईश्वरस्तु प्रसिद्धशिवात् विलक्षणः शाश्वतशिवादिशब्देन निर्दिष्टो नारायणः । स च चिदचितोः सर्वावस्थावस्थितोः शरीरी इत्येवमादिः औपनिषदानां विशेष ईश्वरे समर्थयिष्यते । तत्वगणनायाम तु शुद्धतत्वपञ्चकस्य परमार्थत एकतत्वात्मकतया तैरेव उक्तत्वात् तत्र नातीव विवादः । तथा हि तैरेवोक्तम्
“पञ्चानामप्येषां न हि क्रमोऽस्तीह कालरहितत्वात् ।
व्यापारवशादेषां विहिता खलु कल्पना शास्त्रे ॥
तत्वं वस्तुत एकं शिवसंज्ञं चित्रशक्तिखचितं तत् ।
शक्तिव्यापृतिभेदात् तस्यैते कल्पिता भदाः ॥” इति ।
“रागोऽभिष्वङ्गात्मा” इति तैर्लक्षितस्य रागस्य पुरुषगुणभूतस्य न प्राकृततत्वान्तरत्वम् । प्रकृतिसंसर्गवशात् पुरुषस्य रागो जायते इत्येतावदिष्यते । रागाख्यकार्येण तत्कारणभूत तत्वान्तर कॢप्तिरिति चेन्न; सुखहेतुत्वज्ञानादिभिरेव तदुत्पत्त्युपपत्तेः । अन्यथा द्वेषादिकार्येष्वपि तत्वान्तर कल्पनाप्रसङ्गात् । विद्यापि
“उद्बुद्धकर्तृशक्तेः पुंसो विषयप्रदर्शननिमित्तम् ।
विद्यातत्वं सूते प्रकाशरूपञ्च करणवैशिष्ट्यात् ॥” इत्यभिहिता ।
तत्रापि पुनर्मनःप्रभृति प्रमितिकरणग्राम एव विषयप्रदर्शने पर्याप्त इति न करणान्तरम् अनुमन्यामहे ।
“मायास्तदनु कला मलं नृणामेकतस्तिरस्कृत्य ।
व्यञ्जयति कर्तृशक्तिं कलेति तेनेह कथितेयम् ॥
कालेन नियत्या चाप्युपसर्जनतामुपेतया सततम् ।
विदधाति व्यापारम निजमेषा ह्यवनिपर्यन्तम् ॥” इति च कलाभिहिता ।
तत्रापि अव्यक्तावस्थाकारणभूताक्षरशब्दाभिलप्यप्रकृत्यवस्थामिच्छामः । तत्र कलाशब्दः शब्दान्तरं वा प्रयुज्यताम् । कर्तृशक्तिव्यञ्जकत्वं तु तस्यानेष्यते । ज्ञानेच्छापुण्यपापादिभिरेव तदभिव्यक्तेः । ज्ञनादेश्च इन्द्रियाद्यधीनत्वात् ।
“नियतिर्नियमनरूपा मायातः साप्यनन्तरं भवति ।
नियमयति येन निखिलं तेनेयं नियतिरित्युक्ता ॥” इति परिभाषिता ।
तत्र नियमनशब्देन नियन्तृशक्तिविवक्षायामीश्वरसङ्कल्पाद्यतिरिक्तनियतिर्नास्ति । प्रतिनियतफलावश्यम्भावित्वादिविवक्षायां तु पुण्यपापादिरूपैव नियतिः । तत्तत्स्वकार्य करणादि विवक्षायां प्रतिनियततत्तद्वस्तुशक्तिरेव नियतिरिति न प्राकृततत्वान्तरमस्ति । यदि पुनः प्रमाणभूतेषु पञ्चरात्रादिषु क्वचिन्नियत्यादिसृष्टिरुच्यते, तदापि तत्र तत्र तात्पर्यभेदेन संप्रतिपन्नतत्वविशेष तच्छक्त्यादीनामेव पृथग्गणनमिति मन्तव्यम् । युक्तिश्च निर्बन्धतो दूष्यते; नत्वागमः ॥