तमसः पार्थिव द्रव्यत्व निरूपणम् ।
तमो द्रव्यं पार्थिवञ्च; अबाधितनीलादिप्रत्ययविषयत्वात् । आलोकाभावे चाक्षुषत्वं नास्तीति बाधकमिति चेन्न; तेजसि व्यभिचारात् । तद्व्यतिरिक्तत्वेसतीति चेत्; तथापि भवदभिमतेतमसि एतदभावेऽपि चाक्षुषत्वात् । इतरसामग्रीसाकल्यलक्षणयोग्यथासिद्ध्यर्थमविरोधार्थं च तथा अङ्गीकार इति चेत्; अत्रापि प्रतीयमानाकारभङ्गपरिहाराय बुध्यस्व । न हि यत् क्वचित् यदपेक्षम्, तत् सर्वत्र तदपेक्षमिति नियमः । स्वेदादिशैत्यग्रहे वायुसापेक्षस्य स्पर्शनस्य औष्ण्यग्रहे तदभावसापेक्षत्वात् आलोकाभावप्रताययविशेषाभावनैल्यमात्रप्रतीतिपक्षाः विधिरूपेण प्रत्ययात्, लोक प्रतीतिविरोधप्रसङ्गात्, नीलमिति धर्मितया स्फुरणाच्च निरस्ताः । प्रलयविनाशावसानादयस्तु विधि रूपेण वर्तमाना अपि स्फटवस्त्वन्तरानुपलम्भात् कस्यचिदित्येव सर्वसंवित्सिद्धेश्च अभावपक्षे निक्षेपं सहन्ते । स्पर्शानुलम्भादिचोद्यं तु इन्द्रनीलालोकादिष्विव निर्वाह्यम् । आगमसिद्धञ्च तमसो द्रव्यत्वादिकम् । “तमः ससर्ज भगवान्” इति तत्वान्तरवत् सृष्टिश्रवणात् । “नासीत्तमो ज्योतिरभूत्
न चान्यत्” इति कार्यान्तरज्योतिषा च सह लयाभिधानात् । आलोकाभावपक्षे तमोज्योतिषोर्द्वयोरपि लयाभिधानविरोधात् । अन्तर्यामिब्राह्मणे च “यस्य तमः शरीरम्” इति तेजसासह तमसः शरीरत्वेन अभिधानात् । तत्र च भाष्यम् “एवमम्ब्वग्न्यन्तरिक्षवाय्वादित्यदिक्चन्द्रतारकाकाशतमस्तेजस्सु” इत्यादि । यत्तु षडर्थसंक्षेपे भावरूपाज्ञानानुमानदूषणे प्रोक्तम् “निमीलनेऽपि भातीति न तमसो द्रव्यम् । अन्धस्तु नाक्षिस्थग्रहेऽलम् । व्याहरति च” इति । तत् श्रुतिस्मृतिभाष्यादि विरोधात्
मतान्तरेण एकदेशि मतेन वा उक्तम् । निमीलनेऽपि भानस्य पित्तोपहत चक्षुषः किञ्चित्पित्तोपलम्भे अपि तुल्यत्वात् जात्यन्धस्य तु तद्द्रव्याव्यवहारात् । अजात्यन्धस्यापि इन्द्रियाधिष्टानक्षोभेऽपि मात्रया इन्द्रियशक्तेरनपगमनादक्षिस्थ ग्रहस्याविरोधात् । तमो न द्रव्यम्; आलोकाभावे गृह्यमाणत्वात् आलोकाभाववदिति चेन्न; प्राभाकराणां हेतुदृष्टान्तयोरभावात् । उदयनादीनां पक्ष दृष्टान्तभेदाभावात् । रूपमात्रतमोवादिनोऽपि दिवाभीतादिदृश्यमानैर्द्रव्यैर्व्यभिचारात् । मानुषचक्षुषेति विशेषणेऽपि योगिदृश्यमानैः, अयोगीतिविशेषणेऽपि तमो नीलिमातिरिक्तं नैल्याश्रयत्वेन अबाधित प्रतीतिविषयत्वात्, इत्यादिभिर्बाधः प्तिरोधो वा दुष्परिहरः ॥
उक्तं वरदगुरुभिस्तत्वसारे
“तमो नाम द्रव्यं बहलनिरलं मेचकचलं प्रतीमः केनापि क्वचिदपि न बाधश्च ददृशे ।
अतः कल्प्यो हेतुः प्रमितिरपि शाब्दी विजयते निरालोकं चक्षुः प्रथयति हि तद्दर्शनवशात् ॥” इति ॥
नन्वेवमस्तु तमसो द्रव्यत्वं सिद्धान्तः । पार्थिवत्वं तु भाष्यकारादिवचनात् न ज्ञातमिति चेन्न; प्राकृतत्वनीलत्ववचनाभ्यां परिशेषात् सिद्धेः । न हि वायुपर्यन्तेषु प्राकृतेषु रूपगुणोऽस्ति । न वा तोयतेजसोः कृष्णरूपमस्ति । तथा च श्रुतिः “यदग्नेरोहितम्” इत्यादिका । ननु तत्वरत्नाकरे मूलप्रकृतेरेवेदं तम इत्युक्तम् । तथा हि
“बध्नाति यदभिद्रोहात् यत्प्रपत्या च मुञ्चति ।
जन्तूँस्तमस्तमाश्रित्य हरिं तत्प्रविविच्ये ॥
अतो न काकदन्तानामिव तस्य परीक्षणम् ।
उपेक्ष्यं बन्धकत्वस्य ज्ञाने हानप्रयोजनात् ॥
तत्स्वरूपतदुत्पत्तिग्राहकादिषु सूरयः ।
विवदन्ते ततो जातः सन्देहश्चिन्त्यतेऽधुना ॥”
अत्र आलोकाभावस्तम इति काश्यपीयाः । नास्त्येव तमः, नीलाभावरूपस्मृतिप्रमोष एव तमोव्यवहारहेतुः । इति प्राभाकराः । द्रव्यान्तरमेवेदं कल्प्यम् इति कौमारिलाः । प्रधानत्वमेव तमः । इति तत्त्वविदः ।" इत्युपक्रम्य प्राथमिकमतयुगलमथनपूर्वकं तृतीयमुपन्यस्य
“अत्र तत्त्वविदः प्राहुः स्थूलसूक्ष्मात्मना स्थिता ।
दैवी गुणमयी माया बाह्यान्तरतमो मता ॥” इत्युक्तम् ॥
अतो न पार्थिवत्वपरिशेषो युक्त इति । तन्न; तत्र मूलप्रकृतित्वं तावत् न सम्भवति;
विकारैस्सह सृष्टिसंहारवचनात् । अन्तर्यामिब्राह्मणे च कार्यवर्गानुप्रवेशेनप्राथमिकतमोव्यतिरिक्तस्य तेजोविरोधितमसः पृथक्शरीरत्वाभिधानात् । प्रधानतमसश्च प्रत्यक्षग्राह्यत्वासिद्धेः ॥
“नाहो न रात्रिर्न नभो न भूमिः नासीत्तमो ज्योतिरभून्न चान्यत् ।
श्रोत्रादिबुध्यानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमाँस्तदासीत् ॥” इति लोकस्मृतेः ॥
अवस्थान्तराश्रयणेन सर्वमिदमुपपद्यते इति चेत्; सत्यम् । तदेव अस्माभिरुच्यते । पृथिव्यवस्थातिरिक्तमवस्थान्तरमिति चेन्न; पूर्वोक्तपरिशेषात् । पऋथिवीतः पृथगेव सृष्ट्यादिवचनं कथमुपपद्यते इति चेत्; स्वर्गान्तरिक्षादिसृष्टिवदिति भाव्यम् । तमश्शब्दप्रयोगानुवृत्तिः कथम्? इति चेत्; अनेकार्थत्वेन अनुवृत्त्यन्यथासिद्धेः । ज्ञानालोकयोः प्रकाशशब्दवत् । यद्वा उद्भूततमोगुणमेव अवलम्ब्य द्वयोरपि व्यवहारोपपत्तिः । कथं तर्हि तत्वरत्नाकरोक्तिः? वस्तुतस्तु वयमपि संशेमहि । न हि तत्र प्रतिज्ञानिर्वाहपर्यन्तं ग्रन्थो निबद्धः; येन अभिप्रायमध्यवस्येम । स हि प्रबन्धः “अत्र तत्त्वविदः प्रहुः” इति श्लोकमात्र एव विघ्नितः । निबद्धमात्रञ्च अस्मदुक्ताविरुद्धम् । पार्थिवत्वेऽपि प्रधानतत्वानातिरेकात् । न हि वयमसत्कार्यवादिनः । समस्तप्रकृतिप्राकृतपरीक्षोपक्रमविवक्षया च “बध्नाति यदभिद्रोहात्” इत्यादेरुपपत्तिः । “अत्र तत्वविदः” इति श्लोकेऽपि “स्थूलसूक्ष्मात्मना स्थिता” इति विभागात् एवमेव तात्पर्यमिति विभावयामः । अस्तु वा किञ्चिदभिनवघनघनावलीमलीम समानाघ्रातस्पर्शरसगन्धमन्धकाराभिधानमवस्थान्तरं प्रकृतेः । तथाऽपि न पृथग्द्रव्यत्वसिद्धिः ॥
तदेवं चतुर्विंशतितत्वानि चिन्तितानि । “आत्मन आकाशः सम्भूतः” “तत्तेजोऽसृजत” इत्यादि न्यूनसृष्टिव्यपदेशा न तत्वान्तरसृष्टिप्रतिक्षेपपराः; प्रामाणिकत्वाविशेषेण तत्परित्याग अयोगात् । वदन्ति च ।
“क्षीरादिदं तत इदञ्च ततो दधीति ।
क्षीराद्दधीति वदतां किल को विशेषः?” ॥ इति ।