20 पृथिवीद्रव्यनिरूपणम्

पृथिवीद्रव्य निरूपणम् ।
अद्भ्यो गन्धतन्मात्रम् । ततः पृथिवी । विशिष्टगन्धवत्वं, रसवत्वे सति विशिष्टस्पर्शवत्वं, इत्यादि तल्लक्षणम् । सा प्रथमं सुरभिमधुरकृष्णानुष्णाशीतस्पर्शा जाता । ततोऽनुष्णाशीतत्वं सर्वदा अनुवृत्तम् । तेजः सलिलस्पर्शोपाध्यन्वयव्यतिरेकात्तदुपाधिक एव औष्ण्यशैत्योपलम्भः । कार्ष्ण्यं स्वतः सिद्धमिति श्रुतिसिद्धम् । पाकभेदात्तु विचित्रवर्णता जायते । सुरभिस्वभावत्वमपि औत्सर्गिकन्याय सिद्धम् । कारणस्य पयसो माधुर्यानुविधानञ्च बाधकाभावे ग्राह्यम् । तस्याः काठिन्येऽपि सलिल आतपादियोगात् क्वचित् द्रवत्वोपलम्भः । मनोघ्राणाप्यायनादिना च तस्या उपकारः । शरीरत्वमस्याः मनुष्यतिर्यक्स्थावरादिषु व्यक्तम् । विषयत्वं मृत्पाषाणौधितिमिरादिषु । यद्यपि विषयादि
रूपेण निर्दिष्टानां सर्वेषामपि ईश्वरापेक्षया तत्तदिविशिष्टजीवापेक्षयापि शरीरत्वं वक्ष्यते; तथापि लोकव्यवहारोपकारतारतम्यालोकनेन विभज्य व्यवहारः । शरीरतया अभ्युपगतमपि विषयतया वैशेषिकैरप्युक्तम् “विषयोमृत्पाषाणस्थावरलक्षणः” इति । स्थावरस्य हि शरीरत्वं तैरेव प्रपञ्चितम् ॥