अब्द्रव्य निरूपणम् ।
तेजसो रसतन्मात्रम् । तस्मात् आपः । शीतस्पर्शवत्वं, निर्गन्धत्वे सति विशिष्टरसवत्वम्, इत्यादि तल्लक्षणम् । तासां शुक्लमधुरशीततैकस्वभावानामाश्रयादिसंसर्गभेदात् रूपरसस्पर्श वैचित्र्यारोपः । अद्रव्यनिरूपणे तु तेजोऽबन्नगुणव्यवस्था समर्थयिष्यते । स्वाभाविकमासां द्रव्यत्वम् । आप्येष्वपि करकादिषु उपष्टम्भवशात् काठिन्यम् । प्राणरसनाप्यायनादिनोपकुर्वते । शरीरत्वमासाम प्रचुरेषु वरुणलोकशरीरेषु स्पष्टम् । विषयत्वं सरित्समुद्रेषु ॥