18 तेजोविभागः

तेजः पुनः सामान्यतो द्विविधम् प्रभा प्रभावच्चेति । आवरणसदसद्भावाधीन सङ्कोच विकासो यथावेगशक्त्यधिष्टानदेशाधिकदेशप्रसारी तेजोविशेषः प्रभा । सा च प्रभावद्भिः सहोत्पद्यते, सह च विनश्यति । न चासौ विशीर्णदीपाद्यवयवः; ऊर्ध्वगमनस्वभावानां वाताद्यभिघातदर्शने युगपद्विष्वग्विशरणादिकल्पनस्य गुरुत्वात् । प्रभायास्तु यथोपलम्भं तथाभ्युपगमात् । स्थिरतरेषु मणिद्युमणिप्रभृतिषु च विशरणप्रसङ्गात् । तदभ्यपगमे च तेषां दीपादिवत् विनाशप्रसङ्गात् । तत्रापि प्रतिक्षणोत्पत्यादिकल्पनस्य अतिगुरुत्वात् । तैवदशादिवत् सामग्रीविशेषादर्शनात् । न च मण्यादीनां प्रत्यभिज्ञा भ्रान्तिः; विशरणे सिद्धे तद्भ्रान्तित्व सिद्धिः, तत्सिद्धौ विशरणसिद्धिरिति परस्पराश्रयणात् । विशीर्णगन्धाश्रयचम्पककुसुमादिवदंशतो विशरणेऽपि प्रत्यभिज्ञानमिति चेन्न; भ्रान्तेर्दत्तोत्तरत्वात् । यथोपलम्भं द्रव्यान्तराभ्युपगमे भ्रान्तित्वकल्पनानवकाशात् । गन्धोपलम्भे तु वायुगतिविशेषानुविधाननियमात्, आश्रयभूतचम्पकादिनाशेऽपि गन्धावस्थानदर्शनाच्च प्रभातुस्यत्व परित्यागः । ग्रीष्मनिशादिषु औष्ण्योपलम्भेऽपि प्रभात्मकं स्वरूपं नास्त्येव । अस्याश्च मूलाग्रयोः घनविरलादयोयथादर्शनं ग्राह्याः । यत्तु वरदविष्णुमिश्रैर्निरवयवात्मज्ञान सङ्कोचविकास दृष्टान्ततया
प्रभामुपन्यस्योक्तम् “प्रभाया निरवयवत्वमवयवानुपलम्भात्” इति; तत् छेदनभेदनयोग्यावयवविरह अभिप्रायेणेति मन्तव्यम् । न चैषा स्वतन्त्रा; दीपाद्यपृथक्सिद्धतयैव प्रतीतेः । तद्विशिष्टं तेजः प्रभावात् । तच्च मणिद्युमणिदीपादि बहुप्रकारम् । सामग्रीविशेषाधीनस्वभावभेदात् तेजः शोकहर्षशोषणवृद्धिपाकप्रकाशादिजनकत्वतारतम्यम् । ऊर्ध्वज्वलनमपि तत एव वा, अदृष्टादेव वा तस्य रोहितभास्वरैकस्वभावस्यापि सलिलादि संसर्गभेदात् वर्णवैचित्र्योपलम्भः । एतच्च “यदग्नेरोहितं रूपम्” इत्यादिश्रुतिसिद्धम् । वैशेषिकादीनां शुक्लत्वसाधकान्वयव्यतिरेकौ श्रुतिबाधितौ अन्यथासिद्धौ च । मध्याह्नमार्ताण्डमण्डलश्वैत्योपलम्भस्यापि मण्डलोपष्टम्भकानुद्भूतस्पर्शोद्भूतरूपशलिलांशनिबन्धनत्वेपपत्तेः । उद्भवानुद्भवयोश्च गुणानामन्यत्रापि अनियमाभ्युपगमात् ॥