तेजोद्रव्य निरूपणम् ।
वायोः रूपतन्मात्रम् । ततस्तेजः । “वायोरग्निः” इत्यग्निशब्दस्तेजोमात्रपरः । ननु
“वायोरग्निः” इत्युपादानत्विवक्षायां प्रत्यक्षविरोधः । पर्णतृणकाष्ठादीनामेव भस्मधूमधूमध्वजादिरूपेण परीणामदर्शनात् । पर्णादीनाञ्च पार्थिवत्वात् । अप्रत्यक्षै स्तदानीमपि अदृष्टाद्युपनीतैः तेजोऽवयवैर्ज्वालारम्भ इतिकल्पनस्य गुरुत्वात् । विचित्रारम्भस्य च भस्मधूमाङ्गारादिषु दृष्टत्वेन अवर्जनीयत्वात् । स्पर्शविशेषस्य धूमादिगतगन्धविशेषवत् दुरालभास्पर्शादिवदुपपत्तेः । अतः सलिलस्य सहकारिभेदात् फेनतरङ्गबुद्बुदवत् पृथिव्या एव अंशतो हुतवहादिपरिणामः - इति सिद्धे “वायोरग्निः”
इत्यादि निमित्तकारणत्वमात्रेणापि उपपद्यते इति; तदसत् । अनन्यथासिद्धोपादानप्रकरणपठितसृष्टिप्रयलक्रमप्रक्रियाविरोधात् । पर्णतृणादीनामपि पाञ्चभौतिकत्वस्य वक्ष्यमाणत्वात् । तत एव तदंशतो निर्वृत्तेरपि इष्टत्वात् । ज्वालानिर्वापणानन्तरमेव तदवयवानुपलम्भवत् तदुत्पत्तेः प्रागपि तथैव उपपत्तौ गौरवस्यापि अभावात् । अबिन्धने च जातवेदसि पार्थिवपरिणामात्मकत्वकल्पनायोगात् ।
अनियतोपादानक्लृप्तेर्गुरुत्वात् । तदेवं तत्रतत्र लीन एव अग्निः सहकारिविशेषात् अदृष्टाद्युपनीतसजातीयावयवयोगाच्च उद्भूत उपलभ्यते । व्यवहरन्ति च महर्षयोऽपि; “काष्ठेऽग्निरिव शेरते । " “दारुण्याग्निर्यथा तैलं तिले तद्वदसौ पुमान् । " इत्यादि । अतः समष्टिसृष्टिदशायां वायोरेव उपादानात् अग्नेरुत्पतितरुपपन्ना । व्यष्टिदशायां तु तेजस एव सूक्ष्मात् स्थूलतेजसः समुद्भव इति ।
उष्णस्पर्शत्वभास्वररूपवत्वादिकञ्च तेजसो लक्षणम् । तच्च वाकाचक्षुषोराप्यायकम् । “तजोमयी वाक्” “आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत् । " “रश्मिभिरेषोऽस्मिन् प्रतिष्टितः । " इत्यादिश्रुतेः । दिवाभीतादि व्यतिरिक्त लोचनानां अञ्जनविशेषादिशून्यानां तिमिराद्यतिरिक्त विषयप्रत्ययोत्पादने प्रभूतरूपमाप्यायकातिरिक्तं तदवश्यापेक्षितम् । वैशवानराद्यात्मना च तदुपकारः । वैशवानरो नाम शरीरान्तरावर्ती प्राणादिसंयोगात् अशितपीतपाकादिहेतुस्तेजोविशेषः । शरीरत्वं तेजसस्तेजः प्रचुरेषु
दहनतपनादिशरीरेषु व्यक्तम् । विषयत्वं चन्द्रिकातपशतह्नदाहुतवहादिषु । तत्र हुतवहस्य ज्वालात्मकस्य दाह्यनाशे नाशदर्शनात्, पुष्कलकारणक्रमोपनिपातात् एकदा अनेकदीपादर्शनाच्च आशुतरविनाशित्वरूपं क्षणिकत्वं सिद्धम् । प्रत्यभिज्ञातु निष्क्रान्तप्रविष्टवदसम्भवात्, निर्वापितारोपित दीपादिष्विव अन्यथासिद्धा । प्रत्यक्षत्वं ज्वालाभेदस्योक्तं तत्वरत्नाकरे “निपुणनिरीक्षणे च जलवेणिकावत् ज्वालासञ्चरणं दृश्यते” इति । “अहेतुक एव ज्वाला विनाशः । " इति बौद्धगन्धिनः केचिदाहुः । तदयुक्तम्; क्षणभङ्गप्रसङ्गात् । अदृष्टेशेवरादेव हेतोरवर्जनीयत्वात् । वेगादेश्च अविनाभूतस्यावस्थान्तरापादकत्वोपपत्तेः । एवमन्त्यशब्दचरमसंस्कारादिष्वपि स्वतोविनाशवादिनो निरस्ताः । तदखिलमभिप्रेत्योक्तं वेदार्थसंग्रहे “दावाग्न्यादीनामपि पूर्वावस्था विरोधिपरिणामपरम्परा अवर्जनीयैव” इति । तत्र भौमदिव्यादिभेदस्तत्रतत्र सामग्रीकार्याणि क्षणिकत्वस्थिरत्वादीनि यथायोगमुन्नेयानि ॥