आकाशात् स्पर्शतन्मात्रम् । ततो वायुः । तस्य विशिष्टस्पर्शवत्वे सति रूपशून्यत्वम्, अस्मदादिस्पर्शनैकेन्द्रियग्राह्यत्वम्, अनुष्णाशीत स्पर्शविशिष्टत्वे सति गन्धशून्यत्वम् इत्यादि लक्षणम् । अस्य त्वगिन्द्रियायोग्यत्वाप्रत्यक्षत्वादि साधनानि अरूपिद्रव्यत्वादीनि उपलम्भविरोधानैकान्त्यादिभिर्निरसनीयानि । स्पर्शवत्वमेव हि स्पर्शनेन्द्रियग्राह्यत्वौपयिकम्; न रूपवत्वम् । तथा च भाष्यञ्च तदनुसारि विवरणकारवचनञ्च “स्पर्शनमपि न सामान्यमात्रविषयम्; स्पर्शतद्वद्वस्तुविषयत्वात्” इति । प्रमेयसंग्रहश्च “त्वगिन्द्रियस्यापि स्पर्शवद्वस्तुविषये शक्तिः” इति । यदि च स्पर्शानुमेयो वायुः स्यात्; क्षितिसलिलतेजसामपि स्पर्शनग्राह्यत्वं न स्यात् । तत्रापि ततस्तदनुमानस्य सुवचस्त्वात् । उपलम्भस्य समत्वात् । तस्य च वायोः स्वभावाद्वा अदृष्टात्मकेश्वरसङ्कल्पाद्वा स्वारसिकं तिर्यक् प्रसरणम् । पार्थिवादिद्रव्येण वा वाय्वन्तरेण वा अभिघातवशात् भ्रमणोर्ध्वगमनादयः । ते च दूरस्थेन तृणरजः प्रभृतीनां भ्रमणोर्ध्वगमनादिभिरनुमेयाः । तत्रत्येन तु स्पर्शनग्राह्याः । एतेन वायोः नानात्वमपि वायुद्रव्य सिद्धम् । अस्य च सर्वतः पार्थिवाप्योपरोधे सति स्तम्भः । सलिलातपकुसुमादि निरूपणम् योगात् शीतोष्ण सौरभारोपः । तथा च अन्वयव्यतिरेकौ । एतेन “वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः” इति न्यायात् वायुः शीत इत्यायुर्वेदानुसारिणां वादिनां मतं निरस्तम् । शीतसंवर्ध्यत्वोष्णापचेयत्वादिभिः साम्यात्तु शीततया उपदेशः । न तु सजातीयविजातीयाभ्यामेव उपचय अपचयावितिनियमः; पार्थिवादिभिर्दोषाणामनियमेन उपचयापचयदर्शनात् । तत्रपि तत्तत्पदार्थ सांसिद्धिकसलिलाद्यंशशक्त्या तदुपपत्तिरिति चेत् अत्रापि तथात्वे को विरोधः? व्यष्ट्वस्थस्य मारुतस्य तदुपचयापचयहेतूनाञ्च पाञ्चभौतिकत्वात् “आपोमयः प्राणः” इति श्रुत्या प्राणस्य सलिलाप्यायातत्वसिद्धेश्च शीतसंवर्ध्यत्वाद्युपपत्तेः । दुरूहां वस्तुशक्तिमवलम्ब्यैव स्वभावः प्रभावश्च तैरेव क्वचित्क्वचित् वर्ण्यते; यथा दुन्दुभिस्वनादौ । सा च अत्रपि अनिवार्येति न सङ्कटं किञ्चित् ।
स च त्वगिन्द्रियाप्यायनेन प्राणशरीरविषयात्मतया च उपकरोति । तत्र शरीरधारणदिहेतुर्वायुविशेष एव प्राण संज्ञः । न वा वायुमात्रम्, नापि वायुक्रिया; सूचितञ्च “न वायुक्रिये पृथगुपदेशात्” इति । स एव व्यापारभेदात् पञ्चधा दशधा त उच्यते । सूत्रितञ्च “पञ्चवृत्तिर्मनोवद्व्यपदिश्यते” इति । प्राणापानव्यानोदानसमानभेदात् पञ्चधा । नागकूर्मकृकरदेवदत्तधनञ्जयाख्यैर्भेदैः स दशधा । प्राणशब्दस्तु वादशब्दवत् सामान्यतोनिशेषतश्च व्युत्पन्नः । अस्य शरीरेन्द्रियधारकत्वं “यस्मिन्नुत्क्रान्ते इदं शरीरं पापिष्टतरमिव दृश्यते, एतस्यैव सर्वे रूपमभवन्” इत्यादि । प्रपञ्चितश्चायमर्थः प्राण विद्यायाम् । एवं जङ्गमशरीरेष्विव स्थावरशरूरेष्वपि असावस्त्येव । मूलनिशिक्तसलिलदोहदपार्थिव धातूनामभ्यादानात् । अत्रापि भाष्यम् “स्थावरेषु हि प्राणसम्भवेऽपि तस्य पञ्चधा अवस्थाय शरीरस्य धारणार्थत्वेन अवस्थानं नास्ति” इति । “अत एव प्राण” इति सूत्रे दीपश्च “शिलाकाष्टादिषु प्राणायत्तस्थित्यभावात्” इति । नखदन्तरोमकिणादीनामपि मन्दप्राणाश्रयत्वं न्यायतत्वे करणपाद अष्टमाधिकरणे प्रपञ्चितम् । अस्यैव रेचकपूरककुम्भकरूपं नियमनं अष्टाङ्गयोगे चतुर्थमङ्गम् । आयुर्वेदिषु योगानुशासने च अस्य प्रपञ्चो ग्राह्यः । प्राणाख्यात् वायोरन्य एव शरीरोपादानभूतो वायुः । तदुपादानत्वं वायुप्रचुरेषु मारुतादि शरीरेषु व्यक्तम् । विषयत्वं चण्डवाततालवृन्तपवनादिषु ॥