आकाशस्य प्रत्यक्षत्व निरूपणम् ॥
प्रत्यक्षश्चायमाकाशः । यदा उन्मीलनं चक्षुषः, तदैव आकाशोऽयमिति प्रतीतेः । न च नीरूपस्य कथं चाक्षुषमिति वाच्यम्; रूपवतो वा कथं चाक्षुषमिति प्रसङ्गात् । उपलम्भसिद्धया योग्यतयेति चेत्; तुल्यम् । अन्यथा रूपरूपिरूपैकार्थसमवायाद्यवान्तरभेदकल्पनानुपपत्तेश्च । पञ्चीकरणेन वा व्यष्टिरूपसिद्धिर्भाष्योक्ता । प्रमेय संग्रहे च उक्तम् यथा “कालस्य वस्तुधर्मतया सर्वप्रतीत्यन्तर्भावात् न पृथग्रूपवत्वम् । गगनस्य दिशाञ्च त्रिवृत्करणेन रूपवत्वम्” इत्यादि । यत्तूक्तं भाष्ये “न च चक्षुषा सन्मात्रं गृह्यते; तस्य रूपरूपिरूपैकार्थसमवेतपदार्थग्राहित्वात्” इति; तत् प्रत्यत्रस्य विशिष्टविषयत्वपरम् । न तु रूपवन्मिश्रितत्वाख्यसम्बन्धवर्जनपरम् । अत एव हि “रूपरूपैकार्थसन्निवेशाद्याविप्तमेव चाक्षुषमिति स्थितम्” इति प्रमेय संग्रहोक्तिः । अतः संयुक्त समवेतस्यापि रूपस्य कार्यकरत्वमुपलम्भबलात् ग्राह्यम् । न च ईश्वरादावतिप्रसङ्गः; गुरुत्वादि तुल्यत्वात् । वाय्वादीनां तु पञ्चीकरणेन रूपवत्वेऽपि रूपानुद्भवादचाक्षुषत्वम् ॥ यत्तु प्रमेय संग्रहे “अद्यजातस्य चक्षुरपि नहि अरूपं वायुं गृह्णाति” इति । तदपि उद्भूतरूपाङावपरमेव । अत एवं प्रकारेण रूपित्वात् नभस आकाशमस्ति श्यामिति प्रतीतिः । अत एव च इयं प्रतीतिर्नावरणाभाव लम्बना; विधिरूपत्वात् । भावान्तराभाववादिनस्तु अदोषत्वात् । अतिरिक्तवादिनां तु प्रागभावादि विकल्पदुःस्थत्वात् । कृत्स्नप्रतियोगिकनिषेधस्य असिद्धेः । आवरणेष्वपि तादात्म्याभावस्य सामानाधिकरण्यनिषेधात्मकत्वात् । संसर्गाभावस्य च यत्किञ्चित्संसर्गिप्रत्ययमन्तरेण अनुपपत्तेः । तथा च स एव आकाश इति स्यात् । न च काल्पनिकाधिकरण निषेधः; अबाधितत्वायोगात् । नापि
आलोकतिमिरावलम्भनः; तेषु आकाशप्रतीतिव्यवहारयोरयोगात् । आरोपस्यापि प्रतीतिपूर्वकत्वात्, अप्रत्यक्षत्वे च तस्याङ्गुल्यानिर्देशपूर्वकपामरव्यवहारगोचरतया निर्मूला स्यात् । शब्दाधिकरण परिशेषानुमानादेरपामरविषयत्वादशक्यत्वाच्च । न हि शब्दस्य गन्धवद् भेर्याद्यवयवधर्मत्वे कारकतया व्यञ्जकतया च अभ्युपगतवायुधर्मत्वे वा कश्चत् दोषः । न च स्पर्शनादिग्राह्यत्वप्रसङ्गः एकभूतगुणस्यैव गन्धरसरूपादेर्भिन्नाक्षग्राह्यत्वस्य दृष्टत्वात् । एवं बाधकान्तरमपि दूष्यम् । गौरवञ्च भवतो बाधकं स्यात् । आगमवशात्तु वयमाकाशे शब्दमिच्छामः ।