14 आकाशद्रव्यनिरूपणम्

आकाश द्रव्य निरूपणम् ॥
अस्पर्शत्वे सति विशिष्टशब्दाधारत्वं श्रोत्राप्यायकत्वञ्च आकाशलक्षणम् । अयञ्च अवकाशदानादिना उपकरोतीति शास्त्रसिद्धत्वादभ्युपेत्यम् । आकाशरूप परिणामरहित प्रकृत्यादि प्रदेशेष्वपि अवकाशोऽस्त्येव । अन्यथा तत्र स्पर्शवत् गत्यादिनिरोधप्रसङ्गात् । आकाशदेर्नित्यत्वादि साधनानि निरवयवद्रव्यत्वादीनि आगमबाधान्यरानैकान्तिकत्वादिभिर्दूषणीयानि । किञ्च इदं नित्यत्वं किं अवस्थापत्तिराहित्यम्? किं वा द्रव्यस्य सर्वदा सत्वम्? इति । न प्रथमः पार्थिव परमाण्वादिभिरनैकान्तिकत्वात् । पक्षे च शब्दवत्त्वतदभावाद्यवस्थाभेदस्वीकारेण बाधापसिद्धान्तप्रसङ्गात् । न द्वितीयः सिद्धसाधनत्वात् । अवयवविश्लेषलक्षणो विनाशो निषिध्यते इति चेन्न; अहङ्कारादि दशाप्राप्तस्य सिद्धसाधनत्वादेव । वायुत्वपञ्चीकरणादि प्राप्तावस्थाभेदे सर्वोपपत्तिः प्रागेवोक्ता ॥