13 तन्मात्रादिसृष्टिः

अथ तन्मात्रादिसृष्टिः
भूतानामव्यवहितसूक्ष्मावस्थाविशिष्टं द्रव्यं तन्मात्रम् । दधिरूपेण परिणममानस्य पयसो मध्यमावस्थावत् भूतरूपेण परिणममानस्य द्रव्यस्य ततःपूर्वा काचित् अवस्था तन्मात्रा । तद्विशिष्टमपि द्रव्यं तन्मात्रमित्युच्यते । तदेव च भूतोपादानमिति न शब्दादिगुणमात्रात्भूतसृष्टिः । विशिष्टशब्दादिविषयाधिकरणं भूतम् । अत्रापि प्राकृताप्राकृतविवेकः पूर्ववत् । तन्मात्राणि च भूतानि च प्रत्येकं पञ्चधा शब्दतन्मात्राम् । एवमुत्तरोत्तरतन्मात्रेष्वपि तत्तद्भूतद्वयमध्यमास्वथाविशिष्टत्वम्, अविशिष्ट तत्तद्गुणाश्रयत्वम् तत्तद्भूतोपादानत्वञ्च लक्षणमूह्यम् । साङ्ख्यास्तु “पञ्चापितन्मात्राणि साक्षात् तामसाहङ्कारोत्पन्नानि । शब्दतन्मात्रमाकाशारम्भकम् । इतराणि तु तन्मात्राणि पूर्वपूर्व तन्मात्र सहकृतानि उत्तरोत्तरभूतारम्भकाणि” इत्याहुः । तदसत्; “आकाशाद्वायुः “इत्याद्यनन्यथा सिद्धोपादानक्रमविशेषाभिधानदर्शनात् । भगवत्पराशरादिभिश्च प्रपञ्चितत्वात् ॥ “तन्मात्राणि भूतादौ “इति श्रुतिस्तु न साक्षाद्यौगपद्येन अप्ययपरा; “पृथिव्यप्सु प्रलीयते” इत्यादि पूर्ववाक्यविरोधात् ।
“आकाशाद्वायुः " इत्यादि श्रुत्यन्तरविरोधाच्च । तथात्वे हि “पृथिवी गन्धतन्मात्रे लीयते । आपो रस तन्मात्रे लीयन्ते” इत्यादिक्रममुक्तवा “तन्मात्राणि भूतादौ” इति वक्तव्यम् । नचेयं श्रुतिरत्यन्तक्रम निन्बन्धनपरा “आकाश इन्द्रियेषु । इन्द्रियाणि तन्मात्रेषु” इति भवतामपि अनभिमतक्रमविशेषापात प्रतीतेः । एवम् “अष्टौ प्रकृतयः षोडश विकाराः” इतिश्रुतिरपि यथा कथञ्चित् नेया । अत उक्तस्य शब्दतन्मात्रलक्षणस्य नातिव्याप्तिः । सहोत्पत्तावपि समानकालीनत्वमेव; न तु आकाशाहङ्कार अपेक्षया स्पर्शतन्मात्रत्वादीनां मध्यमावस्थात्मकत्वमिति नातिव्याप्तिः ॥