12 प्राकृतकर्मेन्द्रियनिरूपणम्

प्राकृत कर्मेन्द्रिय निरूपणम् ।
*अथ कर्मेन्द्रियम्* उच्चारणादिषु अन्यतमक्रियाहेतुत्वं तल्लक्षणम् । तत् पञ्चधा वागादि भेदात् । वर्णोच्चारणकरणमिन्द्रियं वाक् । तच्च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठनासामूर्धरूप स्थानाष्टकवृत्ति । शुकादिव्यतिरिक्तविहङ्गादीनां तत्तदष्टसंस्थानादिसहकारिविरहात् वर्णोच्चारण अशक्तिः । शुकादीनामपि किञ्चित् तद्वैषम्यात् उच्चारणवैषम्यम् । शिल्पकरणमिन्द्रियम् पाणिः । स च मनुष्यादीनामङ्गुल्यादिवृत्तिः । वारणादीनां नासावृत्तिः । ननु तालुपादादिभिरपि अभ्यास पाठवात् मौक्तिकग्रथनलिपिकरणादि शिल्पदर्शनात् तत्रापि तदृत्तिः आस्थेया; सत्यम् । मात्रया तद्वृत्तिरस्त्येव । विरोधाभावाद्देशभेदेन । इन्द्रियान्तरव्याप्ते देशे अवस्थानादेश्चक्षुःस्पर्शनादौ दर्शनादिति । सञ्चरणकरणमिन्द्रियं पादः । स च मनुष्यादीनां चरणादिवृत्तिः । भुजगपतगादीनां तु उरःपक्षादिवृत्तिः । तदुक्तं करणपादाष्टमाधिकरणे “सर्पाः पादात् कर्मेन्द्रियात् ऋते वक्षसा गच्छन्ति ।
तेषां गतिशक्तिरुरसि । तस्मादुरगास्ते पन्नगाश्च” इति । “पादात् कर्मेन्द्रियात्” इत्यवयवलिशेष लक्षणा । सर्वेषामपिजन्तूनामेकादशेन्द्रियवत्वेन साक्षादिन्द्रियनिषेधायोगात् । तस्य च तत्तत्संस्थानादि
सहकारेण स्थलजलगगनादिसञ्चारहेतुता । विहगादिपरकायप्रवेशे अन्वयव्यतिरेक दर्शनात् । मलादि त्यागकरणमिन्द्रियं पायुः । स च तत्तदवयववृत्तिः । विहङ्गविशेषादीनां तु मुखादिवृत्तिः ।
तच्चोक्तं तत्रैवाष्टमाधिकरणे “यथा वा मान्धालादीनामास्येन विण्मूत्रविसर्गः” इति । आनन्दविशेषकरणमिन्द्रियमुपस्थः । स च मेहनादिवृत्तिः । ये तु कर्मान्द्रियाणिनाभ्युपगच्छन्ति; तैः
र्ज्ञानेन्द्रियाणि नाभ्युपेयानि । तर्कागमयोरुभयत्राविशेषात् । चक्षुर्गोलकादाविव दृष्टावैकल्येऽपि पादादौ सञ्चारादेः क्वचित् सूक्ष्मदोषविशेषेण प्रतिबन्धादि । एतेषां सङ्खयानिर्णयाधिकरणोपसंहारे भाष्यम् “इत्यादि श्रुतिस्मृतिसिद्धेन्द्रियसङ्ख्या स्थिता । अधिकसङ्ख्यावादा मनोवृत्तिभेदाभिप्रायाः । न्यूनव्यपदेशास्तु तत्र तत्र विवक्षितगमनादिकार्यविशेष प्रयुक्ताः” इति । अणुत्वञ्च एषामुपलब्ध्ययोग्यपरिच्छिन्नपरिमाणत्वमात्रमेव “अणवश्च” इति सूत्रोक्तमिति भाष्ये व्यक्तम् । “एते सर्व एव समाः सर्व एवानन्ताः” इति श्रुतिस्तु उपकरणत्व साम्यम्, “अथ यो ह्येताननन्तानुपास्ते” इत्युपास्यतया विहितप्राणविशेषभूतकार्यबाहुल्याञ्चाभिप्रैति । अत एव तेषांपरिच्छिन्नविचित्रपरिमाणत्वं स्थितम् । विकारशीलत्वाच्च मशकमातङ्गादिनानादेहेषु विचित्रपरिमाणत्वम् । कालभेदेन परिणामभेदाविरोधं ज्ञाने समर्थयिष्यामः । सर्वेषाञ्च एषां स्वाधिष्टानदोषादिरेव दोषः । सुषुप्त्याद्यवस्थाविव स्थावराद्यवस्थासु अदृष्टादिवशात् तत्तद्वृत्तिनिरोधतारतम्यम् । प्रबलादृष्टसहकारात् गन्धर्वयोगि प्रभृतीन्द्रियाणामतिसूक्ष्मव्यवहितविषयतया । उत्पत्तेरारभ्य अदृष्टवशात् प्रतिपुरुषनियतानामपि तेषां जीववत्परकायप्रवेशे विशिष्टादृष्टान्तरवशात् कायवदेव परोपकारकत्वम् । स्वेन्द्रियैः सह सर्वत्र प्रवेशात् तेषामेव वा तत्राप्युपकारकत्वम् । मृतकायप्रवेशे हि स्वेन्द्रियैरेव तथा । जीववत्कायप्रवेशेऽपि स एव समाधिरुचितः । स्मृतिश्च
“शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्” ॥ इति ॥
मृतकायस्य च परकायव्यवहार उपचारात् । परकायारम्भकशरीरैकदेशैः अस्थ्यादिभिः
प्रविष्टस्य कायलक्षणसङ्घातः आरभ्यते । तदा च स्वशरीरं मृतमेव । मृतपरकायप्रवेशवत् पुनः प्रवेशः । अनेकशरीराधिष्ठानशक्तानां तु यथेष्टम् । शरीरविनाशे च इन्द्रियाणि आप्यायकैर्मात्रया हीयन्ते । शरीरान्तरे पुनरापूर्यन्ते । मुक्तपरित्यक्तानि अन्यपरिगृहीतानि अपरिगृहीतानि वा यावत्
प्रलयमवतिष्ठन्ते इत्यादिकं द्रष्टव्यम् । ननु कर्मेन्द्रियाणां शरीरेण सहोत्पत्तिविनाशौ; न पुनः शरीरान्तरगमनमस्ति । तथा हि सारे अभिहितम् “हस्तादयोऽपि इन्द्रियाणि, जीवे देहान्तरवस्थिते उपकारकत्वाविशेषात्” इति । एवं भाष्येऽपि उक्तम् “न सप्तैवेन्द्रियाणि; अपि तु एकादश । हस्तादीनामपि शरीरे स्थिते जीवे तस्य भोगोपकरणत्वात् कार्यभेदाच्च । दृश्यते हि श्रोत्रादीनामपि कार्यभेद आदानादिः” इति, “न्यूनव्यपदेशास्तु तत्र तत्र विवक्षितगमनादिकार्यविशेषप्रयुक्ताः” इति च । दीपे तु व्यक्तमेवोक्तम् “तत्र श्रोत्रादीनि जीवेन सह शरीरान्तरगमनेऽपि गच्छन्ति । वाग्घर्तादीनि कर्मेन्द्रियाणि तु स्थिते शरीरे तेनैव सह उत्पत्तिविनाशयोगीनि उपकारकाणि” इत्यादि । अतो यादवप्रकाशवत् कर्मेन्द्रियाणां प्रतिशरीरमुत्पत्तिविनाशौ भाष्यकाराभिमतौ; नैतदेवम् । “प्राणगतेश्च” इति सूत्रे “तमुत्क्रामन्तं प्राणोऽनूत्क्रामति । प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इत्यादि श्रुतेः उदाहृतत्वात्, “सप्तगतेः” इत्यधिकरणे “यानित्वितराणि । विषयाणां ग्राहकत्वेन तेषामौपचारिकः
प्राणव्यपदेशः” इति पूर्वपक्षं कृत्वा “हस्तादयस्तु स्थितेऽतो नैवम् “इति तेषामपि प्राणत्वसमर्थनाच्च ।
“प्राणगतेश्च " इत्यस्यैव समनन्तरे “अग्न्यादिगतिश्रुतेरिति चैन्न भाक्तत्वात् “इति सूत्रे भाष्यम् “यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वायुं प्राणश्चक्षुरादित्यम्"इत्यादिना प्राणानां जीवमरणकाले अग्न्यादिषु अप्ययश्रवणात् न तेषां जीवेन सह गमनमिति गतिश्रुतिरन्यथा नेयेति चेन्न; भाक्तत्वात् अग्न्यादिष्वप्ययश्रवणस्य, इत्यादिकम् । अतः कर्मेन्द्रियस्य वाचोऽत्र गतिरभ्युपेतेत्युपलभ्यते । तदन्येषामपि सममेव । सारेऽपि उक्तम् “सप्तानां गतिश्रवणं विशेषणञ्च ज्ञानेन्द्रियाणां मनसः तत्प्रवृत्ति रूपबुद्धेश्च प्राधान्यात्” इत्यादि । नच आहङ्कारिकेन्द्रियवादिनः प्रतिशरीरमिन्द्रियोत्पत्तिविनाशाभ्युपगमेऽपि तेषामिन्द्रियत्वं सिध्यतीति कृत्वा “हस्तादयस्तु स्थितेऽतो नैवम् “इति सूत्रस्य योजनान्तराभिप्रायेणैवमुक्तम् । अत एकादशेन्द्रियाण्यपि शरीरान्तरेष्वपि अनुवर्तन्ते इति भाष्यकाराभिप्रेतमिति
प्रतीमः । एवमेषामेव एतावतामेव एवंस्वभावानामेव आगमेनैव सिद्धत्वात् सौगतवैशेषिकचार्वाकप्रभृतीनां स्त्रीन्द्रियपुरुषेन्द्रियादिकल्पनं, कर्मेन्द्रियपरित्यागः एकेन्द्रियवादः तत्रापि त्वगिन्द्रियेकस्वीकारः
शरीरस्यैव इन्द्रियत्वं, कर्मेन्द्रियाणां शरीरोत्पत्तिविनाशयोरुत्पत्तिविनाशौ, मनोविभुत्वनित्यत्वतैजसत्वनिर्मनस्कत्वादीनि राजसाहङ्कारजन्यत्वभौतिकत्वादीनि अन्यान्यपि प्रलपितानि अनादरणीयानि ।
युक्तिबाधादयश्च यथासंभवमुन्नेया इति ॥