11 त्वगादीनामिन्द्रियाणां निरूपणम्

त्वगादीनामिन्द्रियाणां निरूपणम् ।
शब्दस्य द्रव्याद्रव्यत्वश्रोत्रगमनशब्दागमानादिविवादमद्रव्ये शमयिष्यामः । त्वगादीनामपीन्द्रियाणां पूर्वोक्तश्रोत्रलक्षणे शब्दमात्रपदस्थाने क्रमात् स्पर्शमात्रादिपदन्यासेन लक्षणम् ऊह्यम् । तत्र त्वगाश्रयः कृत्स्नं वपुः । प्रदेशभेदेन स्पर्शोपलम्भतारतम्यम् । नखदन्तकेशादिषु स्पर्शानुपलम्भश्च प्राणमाद्यन्तारतम्यात् इति करणपादाष्टमाधिकरणे प्रोक्तम् । यथायोग्यं वाय्ववादि चतुष्टयं सम्योगेन तया गृह्यते । स्पर्शादयस्तु संयुक्तनिष्टतया । चक्षुरादीनामाश्रयाः नयनगोलक तालुनासाः । तत्र गजानां नासा हस्तः इति पाणिघ्राणयोरेकमेवाधिष्टानमुच्यते । तत्रोक्तम् “हस्तेन गन्धोपलब्धिः गजानामेव” इत्यादि । जङ्गमशरीरेष्वेव प्रायशोऽयमिन्द्रियप्रदेशनियमः । चक्षुषा वायु व्यतिरिक्तभूतचतुष्टयं तथैव गृह्यते । रूपादयोऽपि स्पर्शादिवत् । दूरस्थग्रहणे तु चाक्षुषमहःप्रसरणात् सम्बन्धसिद्धिः । तच्च करणपादद्वितीयाधिकरणे प्रपञ्चितम् ॥
प्रतिबिम्बग्रहणे तु स्वच्छद्रव्यप्रतिहतस्य नयनमहसः प्रतिस्रोतःप्रसरादिमूलकत्वं भ्रान्त्यधिकरणपूर्वपक्षे अभिहितम् । स्फटिकादौ दर्शमवशात् नयनादिप्रभामात्रप्रवेशयोग्यं संस्थानमिति सर्वेषां तद्व्यवहितोपलम्भः । अञ्जनादिसंस्कृतनयनप्रभायाः पृथिव्यादावनुप्रवेशात् तदक्तचक्षुषां निधि प्रभृतेरुपलम्भः । जिह्वाघ्राणाभ्यां तु रसगन्धौ क्रमात्संयुक्तनिष्टतया गृह्येते । उक्तञ्चेदं सम्बन्ध द्वैविध्यं तत्वरत्नाकरे -
“तत्र वृद्धा विदामासुः सयोगं सन्निकर्षणम् ।
संयुक्ताश्रयञ्चेति यथासंभवमूह्यताम् ॥” इति ॥
तदेवं मनःस्पर्शनलोचनानि द्रव्याद्रव्यग्राहकाणि । श्रोत्रजिह्वाघ्राणानि अद्रव्यग्राहकानि । सर्वेषामपि इन्द्रियाणां तत्तत्कालादिविशिष्टवस्तुग्राहकत्वात् द्रव्याद्रव्यग्राहकत्वमेव वा । उक्तञ्च प्रमेयसंग्रहे श्रीविष्णुचित्तार्यैः सन्मात्रप्रत्यक्षनिराकरणप्रसङ्गेन “कालस्य वस्तुधर्मतया सर्वप्रतीति अन्तर्भावात् न पृथग्रूपत्वम्” इति ॥
यत्तु वैशेषिकादिभिरुच्यते – त्वगादीनिन्द्रियाणिक्रमाद्वाय्वात्मकानि स्पर्शादिषु मध्ये स्पर्शरूपरसगन्धमात्राभिव्यञ्जकत्वात्, स्वेदशैत्याद्यङिव्यञ्जकपवनवत्, दीपप्रभावत्, तदन्तान्तर्गत तोयवत्, कुङ्कुमगन्धाभिव्यञ्जकघृतवत् इति । तत्र व्यञ्जकं नाम व्यक्तिं प्रति करणत्वम्? तदनुग्राहकत्वं वा? सामान्येन हेतुत्वमात्रं वा? इन्द्रियत्वं वा? न प्रथमद्वितीयौ; स्वेतरहेतुवर्ग प्रतियोगिकस्य साधकतमत्वादेर्वैवाक्षिकत्वेन साधनवैकल्यासिद्धिप्रसङ्गात् । न तृतीयः; इन्द्रिय
अधिष्टानतत्संस्कारादिभिरनैकान्तिकत्वात् । न तुरीयः; साधनवैकल्यात् । सर्वेषाञ्च आगमबाधः । स एव धर्मिग्राहकबाधोऽपि । आगममन्तरेण गोलकातिरिक्तेन्द्रियासिद्धेः । किञ्चित्करणपूर्वकेत्येतावपि करणमात्रं हि सिध्येत्, नातिरिक्तम् । गोलकादेरवैकल्येऽपि कार्यवैकल्यादतिरिक्तं कल्प्यते इति चेन्न; सूक्ष्मस्य वैकल्यस्य मूषिकाध्रातबीजवत् दुर्दर्शत्वात्, परिमलादिप्रसर इव पार्थिवगोलकावयवविशेष प्रसरवशादेवविषयसंबन्धसिद्धेः, प्राप्यकारित्वाविरोधाच्च । अतोऽन्वयव्यतिरेकसिद्धस्य आगमसिद्धस्य वा पक्षीकारे ग्राहकप्रमाणबाधोऽवर्जनीयः । यत्तु आलोकाभावे जायमानो रूपसाक्षात्कारः तेजः करणकः; रूपसाक्षात्कारत्वात्, सति आलोके जायमानरूपसाक्षात्कारवदिति चक्षुषस्तैजसत्वमिति ।
तदपि न; आप्यायकतेजा सिद्धसाधनत्वात् । तेजसस्तत्र कारणत्वेऽपि तत् चक्षुरेवेति नियामकाभावात् । इन्द्रियवदावनुद्भूतरूपस्पर्शस्य कस्यचिद्बाह्यतेजसाऽपि ग्रीष्मोष्मवत् सम्भवात् । उद्भूतरूपस्यापि साधने भवदभिमतेन्द्रियस्यापि तथात्वप्रसङ्गेन तमस एव असिद्धिप्रसङ्गात् । ईश्वरज्ञानेन च अनैकान्त्यात् । अनित्यत्वेन विशेषणेऽपि स्वाप्नयोगिसाक्षात्कारैः अनैकान्त्यात् । सर्वव्यभिचारस्थलव्यतिरिक्तत्वे सतीति विशेषणे तर्ककौशलम् । एवमनुमानान्तरेऽपि यथासम्भवं दूषणमूह्यम् । अप्राकृतश्रोत्रादिषु तु मुक्तेश्वरादीनां करणधीनज्ञानप्रसराभावेऽपि स्वेच्छयापरिग्रहवशात्
विषयसहकारिनियमे न निर्बन्धः । तत्तदधिष्टानविशेषादिभिः तल्लक्षणम् । बौद्धास्तु बुद्धश्चक्षुषैव सर्वं जानातीति वदन्ति । तदयुक्तम्; तादृशभवदभिमतसार्वज्ञ्ये प्रमाणाभाव्त् । चक्षुःप्रकर्षतारतम्यं क्वचिद्विश्रान्तं प्रकर्षतारतम्यत्वादित्यादेरपि चक्षुर्ग्राह्यवर्ग एव सर्वातिशायित्वसम्भावनया तदतिलङ्घनेन रसादिविषयविश्रान्ययोगादिति ॥