प्राकृत श्रोत्रेन्द्रियस्य निरूपणम् ।
शब्दादिपञ्चके शब्दमात्रग्रहणशक्तमिन्द्रियं प्राकृतश्रोत्रम् । तन्मनुष्यादीनां कर्णशष्कुल्यवच्छिन्नवृत्ति । द्विजिह्वानां नयनवृत्ति । तदुक्तं न्यायतत्वे करणपादाष्टमाधिकरणे “चक्षुषा श्रवणं सर्पाणामेवेति नियम्यते” इत्यादि । यत्तूक्तं तत्वरत्नाकरे “कर्णशष्कुली शरीर नयनगोलकरसनानासिकाधिष्टानानि च तानि” इति; तत्प्रायिकं मन्तव्यम् । एतस्य नाभसत्वादिगुपादानामनन्यथासिद्धाहङ्कारिकत्ववचनबलादाप्यायितत्वादिभिर्निर्वाहः । यत्तु करणपाद पञ्चमाधिकरणे नेत्रश्रोत्रादि शक्तीनामालोक शब्दाद्यात्मकत्वमुक्तम्, यच्च तथैव सप्तम अधिकरणे “अन्नस्य अतिसूक्ष्मपरिणाममिन्द्रियम्” इत्यादिना, “कर्मेन्द्रियाणामप्यन्नपरिणामत्वात्” इत्यादिना च इन्द्रियाणां भौतिकत्वं प्रतीतम्; तदप्यखिलमाप्यायनाभिप्रायेण निर्वाह्यम् । तथैव हि स्मृति
वचनमपि वेदार्थङ्ग्रहे निर्व्यूढम् । यथा" वैकारिकाहङ्कारादेकादशेन्द्रियाणि जायन्ते इति हि वैदिकाः" इत्युपक्रम्य" एवमाहङ्कारिकाणामिन्द्रियाणां भूतैश्चाप्यायनं महाभारते उच्यते" इति । श्रोत्रं भौतिकं बाह्येन्द्रियत्वात्, आकाशः इन्द्रियारम्भको भूतत्वात्, शब्दः स्वसमानजातीयगुणवता इन्द्रियेण गृह्यते बहिरिन्द्रिय व्यवस्था हेतु गुणत्वात्, श्रोत्रं स्वग्राह्य गुणसजातीय गुणवत् बहिरिन्द्रियत्वात् इत्यादीनां चक्षुराद्यभौतिकत्वस्य वक्ष्यमाणत्वात् साध्यव्कलत्वश्रुतिबाधादिदूषणानि वाच्यानि ॥
शब्दस्य भूतधर्मत्वात् श्रुतेर्वैकारिकत्वतः ।
संयुक्तनिलयो योग्यः स तथा सम्प्रतीयते ॥ 11 ॥