09 प्राकृतमन इन्द्रियस्य निरूपणम्

प्राकृतमन इन्द्रियस्य निरूपणम् ।
अशुद्धसत्वे सतिपञ्चविषयसाधारणेन्द्रियत्वम्, स्मृतिकरणेन्द्रियत्वम् इत्यादि प्राकृत मनो लक्षणम् । तच्च हृत्प्रदेशमात्राधिष्टानम् । इन्द्रियाणान्तराणामपि हृत्प्रदेश एव कन्दस्थनम् । स्थानान्तरेष्वपि यथासम्भवं वृत्तिः । आत्मनोऽपि तत्रैव भूयसा वृत्तिः । तथा च भाष्यम् “सर्वेन्द्रिय कन्दभूतस्थानविशेषे वृत्तिरिति चक्षुषि नावस्थानम्” इति । मन एकमेव अन्तःकरणम् । सङ्कल्प अद्यवसायादयस्तद्व्यापारभेदादेव जायन्ते इति नान्तःकरणवैविध्यम् । तथा च भाष्यम् “अध्यवसायाभिमानचिन्तावृत्ति भेदात् मन एव बुद्ध्यहङ्कारचित्तशब्दैर्व्यपदिश्यते” इति । उदाहृतञ्चैतत् प्राणे सूत्रकारैः “पञ्चवृत्तिर्मनोवद्व्यपदिश्यते” इति । अतः “अन्तःकरणं त्रिविधम्” इत्यादिवादिनः साङ्ख्यादयो निरस्ताः ॥