इन्द्रियविभागप्रकारः ॥
द्विधेन्द्रियं प्राकृतमप्राकृतमिति । शुद्धाशुद्धसत्वयोगादेस्तद्भेदः । अव्यक्तमहङ्कारेष्वपि प्राकृताप्राकृतविभागोऽस्तीति केचिदाचार्याः । शब्दतन्मत्रसहभवत्वसात्त्विकाहङ्कारोपादानद्रव्यत्वादि प्राकृतेन्द्रिय लक्षणम् । पुनश्च इन्द्रियं द्विविधं ज्ञानेन्द्रियं कर्मेन्द्रियमिति । ज्ञानप्रसरणशक्तमिन्द्रियं ज्ञानेन्द्रियम् । तत् षोढा मनः श्रोत्रादि भेदात् । उक्तश्चैवंविभागस्तत्वरत्नाकरे भट्टपराशरपादैः – “तच्च षोढा” इत्युपक्रम्य “आन्तरं मनः” इत्यन्तेन । मनः पूर्वकत्वात्सर्वप्रवृत्तीनां मनः कर्मेन्द्रियमिति साङ्ख्यादयः । यथाहुः
“बुद्धीन्द्रियाणि चक्षः श्रोत्रघ्राणरसनात्वगाख्यानि ।
वाक्पाणिपादपायूपस्थं कर्मेन्द्रियम ह्याहुः ॥
उभयात्मकमत्र मनः” इति ।
तदसत्; तस्य च ज्ञानद्वारैव कर्महेतुत्वात् । तावता च तथात्वे चक्षुरादावपि प्रसङ्गात् । क्वचित्कर्मेन्द्रियत्व व्यवहारस्तु औपचारिकः । मानसवाचिककायिककर्मविभागस्तु कर्मशब्दस्य शुभाशुभसङ्कल्पादिरूपज्ञानेऽपि प्रयोगात् । अतः षडपि ज्ञानेन्द्रियाणि । तत्र प्राकृत विभागं प्रत्युच्यते ॥