07 इन्द्रियद्रव्यस्य निरूपणम्

इन्द्रियद्रव्यस्य निरूपणम् ।
प्राणाद्यन्यत्वे सति हृत्कर्णचश्रुरादिशरीरप्रदेशविरशेषावच्छिन्नव्यापारतया तत्त्कार्यविशेष शक्तमिन्द्रियम् । “अशरीरं प्राणधार्यमेव यद्द्रव्य पुरुषोपकारकं तदिन्द्रियम्” इति वरदविष्णुमिश्रैः उक्तम् । “सात्त्विकाहङ्कारोपादानकमिन्द्रियम्” इति साङ्ख्यादिलक्षणमप्राकृतेन्द्रियव्याप्तेरयुक्तम् ।
“शरीरसंयोगेसत्येव साक्षात्प्रमितिसाधनमप्रत्यक्षम्, साक्षात्कारसाधनम्” इत्यादि वैशेषिकाद्युक्तं तु कर्मेन्द्रियाव्याप्त्यादेरनुपपन्नम् । वक्ष्यते च वागादीनामिन्द्रियत्वम् ॥