06 अहङ्कारद्रव्यनिरूपणम्

अहङ्कारद्रव्यनिरूपणम् ।
इन्द्रियाव्यवहितपूर्वावस्थाविशिष्टं त्रिगुणमहङ्कारः । अत्रपि पूर्ववत् “अभिमानोऽहङ्कारः” इति साङ्ख्यलक्षणं दूषणीयम् । स च अनात्मनि देहे अहम्भावकरणहेतुत्व मात्रादहङ्कारशब्दवाच्यः । न त्वहमर्थत्वात् । प्रतीचा आत्मन एव तत्वात् । नचैवं त्याज्यत्ववचनविरोधः; अहङ्कारस्य उत्कृष्टजनावमानहेतोर्गर्वापरपर्यायस्याभिमानस्य तथोक्तेः । सोऽपि पूर्ववत् त्रिविधः । तत्र सात्त्विकादिन्द्रियाणि । तामसात् शब्दमात्रम् । राजसः उभयानुग्राहकः ।
राजसतामसयोरपीन्द्रियाव्यवहितपूर्वभावित्वमात्रं सिद्धमिति नाव्याप्तिः । त्रयाणां प्रत्येक प्रत्येक लक्षणमपि यथास्वं कार्यकारणप्रकाराः । यत्तूक्तं भोजराजेन
“स्यात् त्रिविधोऽहङ्कारो जीवनसंरम्भगर्वरूपोऽयम् ।
सम्भेदादस्य सतो विषयो व्यवहार्यतामेति ॥
सात्त्विकराजसतामसभेदात्सञ्जायते पुनस्त्रेधा ।
स च तैजसवैकारिकभूतादिकनामभिः समुच्छ्वसिति ॥
तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि ।
भूतादेस्तन्मात्राण्येषां सर्गोऽयमेतस्मात् ॥” इति ॥
तत्र विरुद्धांशो बाह्यशैवागममूलत्वेन अनादरणीयः । एवं भगवत्पराशराद्युक्तपारमाणतम पुराणाद्यानुगुण्येन पुराणान्तरादिवचनादीनि निर्वाह्याणि । अत्यन्तविरुद्धानि तु अनादेयानि ॥