महद्द्रव्यनिरूपणम् ।
अव्यक्ताहङ्कारावस्थाव्यवहितोत्तरपूर्वावस्थाविशिष्टं त्रिगुणम् महान् । तच्छब्दवाच्यत्वमेव वा तल्लक्षणम् । एवमहङ्कारादिष्वपि भाव्यम् । अध्यवसायरूपवृत्तिर्महानिति साङ्ख्याः । यथाहुः “अध्यवसायो बुद्धिः” इति । तदसति; अध्यवसायस्याधर्मत्वात् । यदि परं तन्निमित्तत्वमात्रं महतः; तावतैव बुद्ध्यवसायादिप्रयोगविषयत्वम्; न च तन्निमित्तत्वमात्रं लक्षणम्; अतिव्याप्तेः, अवान्तरविषयस्यापि अनवधारणात् । अवधारयतां तु तदपि लक्षणम् । एवं धर्माधर्मादिकारणत्वादिकमपि लक्षणं निरसनीयम् । स त्रिधा, सात्त्विको राजसस्तामसश्चेति । तत्र तत्तद्गुणोन्मेषवशादंशभेदात्तत्तद्व्यपदेशः ॥