04 द्रव्यविभागप्रकारः

तच्च -
द्रव्यविभाग विचारः ।
द्वेधा जडाजडतया प्रत्यक्तदितरतयापि वा द्रव्यम् ।
षोढा त्रिगुणानेहोजीवेश्वरभोगभूतिमतिभेदात् ॥ ७ ॥
धीकालभोगभूतीरविवक्षित्वा गुणादिरूपत्वात् ।
देहात्मेशभिदार्थं त्रेधा तत्त्वं विविञ्चते केचित् ॥ ८ ॥
परत एव भासमानं जडम् । तदन्यदजडम् । स्वस्मै भासमानं प्रत्यक् । परस्मै भासमानं परागिति व्यवहरन्ति । तेनाजडाया अपि मतेः पराक्त्वं सिद्धम् । यत्तु नीतिमालायां नारायणार्यैरुक्तम् - ‘ज्ञानस्य तु पराक्त्वाभावमात्रमेव । न तु प्रत्यक्त्वमिति’ । एतदपि पूर्वपक्षप्रोक्तदृग्विषयत्वमात्राधीनसिद्धिकत्वरूपेदन्त्वाभावाभ्युपगमादिति मन्तव्यम् । एवं हि तत्र पूर्वपक्षितम् - ‘तस्य नीलादिवदिदमित्यनवभासात्पराक्त्वाभावेन प्रत्यक्त्वञ्च विद्यते’ इति । तत्र रजोगुणकत्वतमोगुणकत्वमहदाद्यवस्थार्हत्वानि त्रिगुणलक्षणानि । अध्यक्षादिभिर्यथासम्भवं नानावस्थस्य तस्य सिद्धेः । तच्च अधः प्रभृतिदेशेष्वनन्तम् । ऊर्ध्वं हि भोगविभूत्यवच्छिन्नम् । नित्यविभूतेस्तमः परत्वश्रुतेः; त्रिगुणस्य च ‘तदनन्तमसङ्ख्यातप्रमाणञ्चेत्’ वचनात् । तच्च विचित्रसृष्ट्युपकरणत्वान्माया । विकारान् प्रकरोतीति प्रकृतिः । विद्याविरोधादिभिरविद्यादिश्चोच्यते । समविषमविकारसन्तानांश्च कालभागभेदाभ्यामारभते । इदञ्च परिस्पन्दादियोग्यभूतेन्द्रियपरिणामदशायामपि निश्छिद्रमेव । तत एव हि स्वकार्यव्यापकत्वम् । द्वयोरन्यतरस्य वा स्पर्शशून्यतया न सप्रतिघत्वविरोधः । वाय्वादिभूतचतुष्टयं हि स्पर्शवदस्पर्शेनाकाशेन व्याप्तम् । इदमेव त्रिगुणं पूर्वावस्थोपमर्दकावस्थाभेदाच्चतुर्विंशतितत्वानि मूलप्रकृतिर्महानहङ्कार इन्द्रियाण्येकादश पञ्च तन्मात्राणि पञ्च भूतानि चेति ॥
ननु एकस्य कथं बहुधावस्थितविश्वात्मना परिणामः? एकस्यैव मृत्पिण्डस्य घटशरावादिरूपेणेवेति चेन्न; निरवयवे तथानुपपत्तेः । सावयवत्वे वा बहूनामेव बहूधा परिणामप्रसङ्गात् । तथा च गतमेकोपादानवादेन । एकमेव सदनेकभागात्मकमव्यक्ताख्यमुपादानमिति चेन्न; विकल्पासहत्वात् । तथा हि - किं एकत्वमनेकत्वञ्च एकाश्रयमिति मन्यसे? उत एकत्वमंशिनि अंशेषु चानेकत्वमिति? यद्वा परिषद्वनसेनादिष्विव अनेकेषामेव सतामेकत्वमेकोपाधिसम्बन्धायत्तमिति? न प्रथमः; व्याघातात् । अन्यथा भेदाभेदवादाय कथं कुप्येत्? न द्वितीयः; अवयव्यङ्गीकारप्रसाङ्गात् । तदभ्युपगमेऽपि तस्मादेकस्माज्जगदुत्पत्त्यभावात् । तदंशा एव हि ततो भिन्ना बहुधा परिणमन्ति । ततो वरमनारूढनिरर्थकैकद्रव्यैः परमाणुभिरेव जगद्द्रव्यारम्भः । अत एव न तृतीयः; प्रथक्पृथगारम्भकत्वे समुदायनिर्देशस्य निरर्थकत्वात् । वास्तविकस्य च एकत्वस्य वनादिष्वप्यसंभवात् । औपाधिकैक्यव्यपदेशस्य च वैशेषिकाद्यभिमतानन्तपरमाणूपादानवादेऽपि अविशेषात् । अतः एकमनेकधा परिणमतीति कल्पना विवर्तवादस्य प्राग्रूपमिति ॥
अत्र ब्रूमः -
प्रदेशवर्तिसंयोगाद्याधाराणुविभुक्रमात् । निरंशस्यापि घटते प्रादेकिविकारिता ॥ ९ ॥
न तावत्सर्वमद्रव्यम् स्वाश्रयव्यापि; संयोगादेरन्यथोपलम्भात् । नापि सर्वमाश्रयैकदेशवर्ति; स्वाभावसामानाधिकरण्यरहितधर्मोपलब्धेः ॥
अतो विभुष्वणुषु च ग्राह्याः प्रादेशिका गुणाः । तथाचाभ्युपगम्यन्ते सर्वैर्वैशेषिकादिभिः ॥ १० ॥
अत्र यद्यपि विभुषु निमित्तभूतमूर्तद्रव्यसंयोगावच्छिन्ने प्रदेशे गुणान्तरोत्पत्तिरिष्यते; तथापि मूर्तद्रव्यसंयोगस्यैव प्रादेशिकत्वं कुतः सिद्धम्? न हि विभुषु स्वतः प्रदेशभेदमिच्छथ । न च संयोगोपाधिके प्रदेशे संयोगस्योत्पत्तिः; परस्पराश्रयप्रसङ्गात् । संयोगविशेषात्प्रदेशभेदसिद्धिः; सिद्धे च तस्मिन्प्रादेशिकसंयोगोत्पत्तिरिति । अत एव मूर्तैर्घटादिभिर्विभुषु स्वपरिमाणानुरूपप्रदेशावच्छेद इत्यपि वार्तम् । अणुद्वयसंयोगे तदनुपपत्तेश्च । अतः सामग्रीविशेषादुत्पद्यमान एव संयोगो निरवयवेऽपि परमाणौ परममहति वा वस्तुनि स्वाभावसामानाधिकरण्यमनुभवन् स्वाभावाभावात्मकस्वानुबन्धेन यथोपलम्भप्रतिनियतप्रदेशभेदधियमुपदधातीति प्रमाणबलादभ्युपगन्तव्यम् । एवमिहापि निरवयवेऽपि त्रिगुणे परमेश्वरसङ्कल्पविशेषपर्यवसितैः सामग्रीभेदैः स्वाभाविकसंविभक्ताश्रयाः प्रतिनियतप्रदेशाः परिणतिभेदाः प्रादुष्यन्तीति । तत्र स्पर्शादिलक्षणप्रादेशिकपरिणतिदशायां छेदनभेदनपरिस्पन्दनादीनामपि सिद्धिरिति किं नोपपद्यते? स्पन्दस्पर्शादिभेदाश्रयांशानामपि भेदाः त एव विलक्षणधर्माः । यथा निर्भिदाकाशवादे प्रदेशानां संयोगविशेषास्तीव्रतरशब्दादिधर्मा एव वा भेदाः; तद्वदत्रापि । नन्वेवमप्यनतिलङ्घनीयैव भेदाभेदवागुरेतिचेन्न; ईदृशभेदाभेदप्रसङ्गस्य वैनाशिकमतेऽपि अविवादात् । अविरोधाच्च । तस्य च अतत्त्ववादे हि विरोधं ब्रूमः । नपुनस्तथाभूतस्यातथापरिणामे । अवस्थारूपयोरेकत्वबहुत्वयोः कालभेदेन परिहारात् । तथा च भाष्यम् - ‘कपालत्वचूर्णत्वपिण्डत्वावस्थाप्रहारेण घटत्वावस्थावदेकत्वावस्थाप्रहाणेन बहुत्वावस्था; तत्प्रहाणेन एकत्वावस्थेति न कश्चिद्विरोधः’ इति । भवतु अवस्थारूपस्यैकत्वस्य पूर्वापरभाविना बहुत्वेन अविरोधः । तद्द्रव्यस्वरूपैक्येन तु विरोधः स्यात् । न स्यात्; तद्द्रव्यस्य हि अतद्द्रव्यत्वं विरुद्धम् । न तु तस्यैव सतोऽनेकधर्मयोगोपाधिकं बहुत्वम् । स्मरति च भगवान्पराशरः ।
‘परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः ॥’ इति ॥
अस्तु वा स्वतः सांशत्वं पिणडवदव्यक्तस्य । तथाऽपि पिण्डवदेव न भेदाभेदावयविवादप्रसङ्गः । नन्वेवं यथांशं स्वकार्यारम्भकत्वे किमेकीभावावस्थाकल्पनेन इतिचेन्न; यदि वयं कापिलवत्कल्पयेमहि; तदैवमुपालभ्येमहि । कारणश्रुतिसमधिगता तु एकत्वावस्था न कल्पनागौरवानुयोगविषयः । न च नैरर्थक्यम्; श्रुतिबाधपरिहाराय प्रयोजनकल्पनोपपत्तेः । न च एकत्वमौपाधिकत्वादवास्तविकम्; सम्पिण्डितानामेकारम्भादेकत्वारम्भस्यैव लघुत्वात् । अवयविभङ्गे च एतत् स्थापयिष्यामः । न च एवमपि पराभिमतपरमाणुपुञ्जमात्रत्वमाशङ्कनीयम्; गन्धरसरूपस्पर्शादिरहितपरस्पराप्रतिघातकसत्त्वरजस्तमोरूपगुणत्रयाश्रयपरस्परसुश्लिष्टपञ्चभूतसूक्ष्मद्रव्यरूत्वेन श्रुत्यादिसिद्धे पराभिमतपरमाणुस्वभावगन्धाभावेनार्थान्तरत्वसिद्धेः । यत्तु औपाधिकभेदाभेदवादिनं प्रति भाष्ये ब्रह्मण उपाधिसंसर्गादपि छेदनाद्यनुपपत्तिकथनम्; तद्ब्रह्मस्वरूपस्य निष्कलत्वाच्छेद्यत्वादिवचनबलमवलम्ब्य । अन्यथा ब्रह्मस्वरूप एव सविकारत्वापत्तौ निर्विकारत्वश्रुतेरनवकाशत्वप्रसङ्गात् । तत्र च सर्वज्ञत्वात्सर्वांशगतसुखदुःखादिप्रतिसन्धानप्रसङ्गो दुष्परिहरः । इह तु अंशभेदप्रतिनियतविकारेषु न स्वभावसङ्कर इति ॥ एतेन परमाणुकारणवादो निरस्तः । जालालोकविलोकनीयत्रसरेणुशब्दवाच्यद्रव्यातिरिक्ताप्रत्यक्षाणुकल्पने प्रमाणाभावात् । तेष्वेव मात्रया भेदमवलम्ब्य परमाणुद्व्यणुकत्र्यणुकादिव्यपदेशः प्रमाणग्रन्थेषु । तेषामेव रूपाद्यनुद्भवदशायां गृह्यमाणगन्धाश्रयगन्धवाहानीतसूक्ष्मद्रव्यवदचाक्षुषत्वदिसंभवात्परमाणोरप्रत्यक्षत्वव्यवहारः क्वचित्कृतोऽपि न विरुध्यते । न च पवनानीतगन्धाश्रयद्रव्येषु परमाणुत्वं भवतामपीष्टम्; परमाणूनां प्रत्यक्षगुणाश्रयत्वानभ्युपगमात् । अतः प्रत्यक्षात् आगमाद्वा न भवदभिमतपरमाणुसिद्धिः । अनुमानानि तु पश्यामः । अणुपरिमाणतारतम्यं क्वचिद्विश्रान्तम्; परिमाणतारतम्यरूपत्वात् । महत्परिमाणतारतम्यवदिति चेन्न; तारतम्यरूपत्वादित्येतावतापि व्यभिचाराभावेन परिमाणविशेषणस्य व्यर्थत्वात् । पारिमाण्डल्यविवक्षया अणुशब्दप्रयोगे अन्योऽन्याश्रयणात् । महत्त्वापकर्षतारतम्यस्य त्रसरेणावेव पर्यवसितत्वाभ्युपगमात् । सामान्यतः परिमाणापकर्षतारतम्यविवक्षया प्रयोगेऽपि तद्विश्रान्तेरपि दृश्यमान एव उपपत्तेः । एवमवयवापकर्षतारतम्यविश्रान्तेरपि । अस्तु वा तस्याविश्रान्तिः । तथापि आधिक्यन्यूनताभ्यां प्रमाणसिद्धाभ्यां सर्षपमहीधरादिपरिमाणाविशेषप्रसङ्गः परिहृतः । अनन्तत्वाविशेषेऽपि परापरजातीयेषु क्षणादिवसपक्षमाससंवत्सरचतुर्युगकल्पादिषु च आधिक्यन्यूनतयोः भवद्भिरप्यभ्युपगतत्वात् । विप्रतिपन्नं कार्यद्रव्यारब्धम्; महत्वे सति चाक्षुषत्वात्, चाक्षुषद्रव्यत्वात् इत्यादीनां विपक्षे बाधकाभावादप्रयोजकत्वम् । द्रव्यचाक्षुषताप्रकर्षो महत्त्वावयवसङ्ख्याप्रकर्षानुविधायी दृष्टस्तद्धेतुकः एव । अतस्तदभावे चाक्षुषत्वं न स्यादिति चेन्न; यथोपलम्भं योग्यतास्वीकारात् । अन्यथा महावयवारब्धत्वस्यापि व्याप्तावनुप्रवेशप्रसङ्गात् । लाघवञ्च अस्मन्मते । वायवीयतैजसाप्यपार्थिवत्रसरेण्वादेरपि पूर्वपूर्वभूतात्मककार्यद्रव्यारब्धत्वादस्मन्मतेन सिद्धसाधनत्वञ्च । कार्यावयवित्वसाधनेऽपि चाक्षुषतया अस्मदुपगतेन कालेनानैकान्त्यं दुष्परिहरम् । परिदृश्यमानमेव परमाणुमिच्छतां महत्त्वविशेषणमसिद्धञ्च । चाक्षुषद्रव्यत्वादेव महत्त्वसाधनमपि पूर्ववद्दूष्यम् । पृथिवीत्वं नित्यसमवेतवृत्ति; घटपटजातित्वात् सत्तावत् इत्यादिकुटिलानुमानान्यपि पूर्ववद्विपक्षे बाधकाभावात्, विषयनियमराहित्येनातिप्रसञ्जकत्वात्, पृथिवीत्वं नित्यवृत्ति न भवति; पृथिवीमात्रजातित्वाद्घटत्ववत् इत्यादिभिस्तादृशैरनुमानैः प्रतिपक्षयितुं शक्यत्वात्, अभिमतविशेषपर्यवसानासिद्धेश्च निरूपका नानुमानेषु गणयन्ति । घटादीनां सर्वेषां नित्येश्वराश्रितत्वाभ्युपगमादतिरिक्तसमवायानभ्युपगमाच्च सिद्धसाधनत्वञ्च । नित्यवृत्तीतिसाधनेऽपि घटादिरूपेण परिणतस्यापि त्रिगुणद्रव्यस्य स्वरूपतो नित्यत्वाभ्युपगमात् स एव दोषः ॥
एवमारम्भकाणामणूनां कृत्स्नैकदेशसंयोगविकल्पेन अधिकपरिमाणद्रव्यनारम्भकत्व सभागत्वादिचोद्यं परमाणुदूषकैः सर्वैरपि क्रियते । भाष्यकारैश्च “महद्दीर्घवद्वा ह्रस्वपरि मण्डलाभ्याम्” इत्यस्मिन्नधिकरणे तदेव चोद्यं कृतम् । तदेतन्माध्यमिकानामेवोपपद्यते; न त्वन्येषाम् ।
तध हि सौत्रान्तिकाद्यैरपि पुञ्जदशायां परमाणूनां संयोगानभ्युपगमेऽपि परस्परावृतत्वानावृतत्वादिकं
दिगवच्छेदभेदेन स्वीकार्यम् । ज्ञानमात्रवादिनोऽपि ज्ञानसायैकस्यानेकज्ञेयाकारसम्भन्धे कृत्स्नैकदेश विकल्पस्तदवस्थएव । ज्ञेयमिथ्यात्वं तु तत्परिहारः; मिथ्याभूतेऽपि उल्लेखावश्यम्भावात् । यस्तु प्रत्यक्षाण्येव सूक्ष्मद्रव्याणि निर्भागाण्यभ्युपगच्छति; तस्यापि विभूनां निरवयवानां संयोगे तदेव चोद्यं स्थितम् । यस्तु विभुद्रव्यमपि नैच्छत्, तस्यापि सामान्ये स्यात् । तस्यापि अनभ्युपगमे संयोगसमवायादावनेकनिष्टे स्यात् । न हि द्रव्ये एवेदं चोद्यमिति नियमोऽस्ति । द्रव्याणामेव भागवत्वयोग्यतेति चेत्; तर्हि अणुव्भुव्यतिरिक्तद्रव्याणामित्यपि ग्राह्यम् । सत्यम्; कथं तर्हि भाष्यम्? दृश्यमाणातिरिक्तकल्पनानिरासाभिप्रायम् । निर्भागतया उपलभ्यमानस्यापि यः सावयवतां कल्पयति; तस्य सर्वं द्रव्यं द्रव्यारम्भकमवयवतः संयुज्यैवारभते; दिगवच्छेदभेदोऽप्यवयवतः एवेति व्याप्तिः स्यात्, ततः पराभिंतप्रतिष्टिताण्वसिद्धिरिति प्रत्यक्षागमसिद्धाण्वीश्वरादिषु यथाप्रमाणमङ्गी कार्यम् । अतः एव “कृत्स्नप्रसक्तिर्निरयवत्वशब्दकोपो वा” इति सूत्रे “श्रुतेस्तु शब्दमूलत्वात्” इत्यादि च परिहारसूत्रम् । अस्तु तर्हि प्रत्यक्षसिद्धैरेव सूक्ष्मद्रव्यैर्जगदारम्भः । मैवम्; स्वतन्त्रारम्भे शास्त्रविरोधात् । परतन्त्राम्भाभायुपगमे च यथागमं प्रकृतेरपि स्वीकार्यत्वात् । भूतचतुष्टय पूर्वभाविनश्च प्रपञ्चस्य तदारम्भणीयत्वविरोधात् । महाभूतचतुष्टयावयवानामाकाशशब्देनाभिधानम् इति हास्यम् । भूतानामन्योऽन्योपादेनोपादेयत्वविशिष्ट सृष्टिक्रमप्रक्रियाविरोधाच्च । भूत चतुष्टयातिरिक्तंनास्तीति चेन्न; आगमविरोधात् । तथा त्रसरेणूनामेव गन्धादिरहितावस्थास्त्विति स्वीकारे तद्वदविभागापत्तिःस्वीकार्येति सैव मूलप्रकृतिरिति सिद्धम् ॥
सा च समत्रैगुण्या मूलप्रकृतिः । तस्यामपि मात्रया भेदमवलम्ब्य अव्यक्ताक्षरविभक्ताविभक्ततमोरूपावस्थाचतुष्टयमामनन्ति । उक्तञ्च न्यायसुदर्शने वरदनारायणभट्टारकैः – “द्विविधाः स्मृतिकाराः । केचिदव्यक्तकारणवादिनः । केचित् तमः कारण वादिनः । अव्यक्तस्येव सूक्ष्मावस्थाभेदोऽक्षरं तमश्च नातीव भेदः इत्यव्यक्ते पर्यवस्यतामभिप्रायः । तमपि भेदमुररीकृत्य तमसि पर्यवस्यताम् । तस्मादुभयेषैंविरोधः” इति । यत्तु भाष्यादिषु अव्यक्त सहपठिताक्षरशब्दस्य चेतनविषयतया बहुशः उपादानम्; तत्परव्याख्यानप्रकारमनुरुध्य वा,
स्वरूपतो निर्विकारे जीवे सृज्यत्ववचनाच्चिद्रूपविकारवत्वेऽपि यथा अक्षरशब्दप्रवृत्तिः; तथा परब्रह्मेतरविषयस्याक्षरशब्दस्याचिदवस्थाविशेषेऽपि शक्तिकल्पना उपपद्यते इति प्रत्पादयितुं वा, क्वचित्क्षरे प्रकृतिविशेषे अक्षरशब्दप्रयोगस्य मुख्यत्वायोगात् प्रब्रह्मरूपाक्षरसम्बन्धेन लक्षणायां प्रयोजनाभावात्, जीवसम्बन्धेनाजहल्लक्षणायां लयविशेषादिप्रतिपादनौचित्यात्, “उभावेतौ लीयते परमात्मनि” इत्यादिना द्वयोरपि लयाभिधानाच्च अत्र अजहल्लत्रणैव युक्तेत्यभिप्रायेण वेति न कश्चिद्विरोधः इति ॥