तदन्तर्गतञ्च सर्वं द्रव्याद्रव्यात्मना विभक्तम् । उपादानं द्रव्यम् । अवस्थाश्रय उपादानम् । अतथाभूतमद्रव्यम् । प्रत्यक्षादिसिद्धोऽयं द्रव्याद्रव्यविभागः । न सौगतादिनयेनान्यतरनिह्नवः शक्यः । रूपरूपिप्रभृतीनामबाधितानन्यथासिद्धभेदेव्यवहारात् । रूपस्पर्शनियताभ्यां दर्शनस्पर्शनाभ्यां तदाश्रयैकार्थप्रतिसन्धानात् । ग्राह्यसङ्घातभावेऽपि ग्राहकयोर्विषयनियमानतिलङ्घनात् । सङ्घातोपाधेश्चैकस्यान्यस्यासिद्धेः । देशकालयोस्तथाभूतयोस्त्वया अनभ्युपगमात् । अभ्युपगमेऽपि तदैक्येन संहतावतिप्रसङ्गात् । एककार्यकारणकत्वादेश्चासिद्धेः । सिद्धावतिप्रसङ्गस्य दुर्वारत्वात् । एकस्मिन्नेव सन्निकर्षविप्रकर्षादिना पट्वपटुप्रत्ययाद् वेद्यधर्माधिक्यन्यूनतोल्लेखमन्तरेण तयोरसम्भवात् । तत्रैवोदयविलयभाजामवस्थानामध्यक्षसिद्धत्वात् । एकक्षणेऽप्येकस्मिन्श्यामत्वयुवत्वाद्यनेकधर्मदर्शनात् । पीतशङ्खभ्रमादौ श्वैत्यानुपलम्भेऽपि शङ्खादिप्रतिसन्धानात् । तस्यैव च तदैव शुक्लतयान्यैरुपलम्भात् । क्षणभङ्गस्य निराकरिष्यमाणत्वात् । सर्वेष्वपि भ्रमेष्वधिष्ठानभूतस्वरूपग्रहेऽपि विशेषाग्रहावश्यम्भावात् । तद्ग्रहेण च भ्रमोपमर्दाङ्गीकारात् । एतेन निर्विशेषैकब्रह्माधिष्ठानविश्वभ्रमवादोऽपि निर्मूलः । न च सहोपलम्भनियमान्नीलतदाधारादेरभेदः; एकसामग्रीवेद्यत्वनियमात्तदुपपत्तेः । सहत्वतन्नियमाभ्यां भेदस्यैव स्थिरीकरणेन व्याघातात् । समस्य च सहोपलम्भनियमस्य शङ्खश्वैत्यादावसिद्धेः । असमस्यापि गन्धादौ । भास्वराध्वन्ताभास्वररूपाभ्यामनेकान्तत्वाच्च । न च ग्राहकभेदाद्ग्राह्यभेद इव; अन्योऽन्याश्रयणात् । चक्षुःश्रोत्रादिभेदस्य रूपादिग्राह्यभेदोपाधित्वात् । ग्राहकभेदेऽपि च ग्राह्यैक्यप्रतीतेरुदाहृतत्वात्; ग्राहकैक्येऽपि नीलपीतादिग्राह्यभेददर्शनात्, अन्यत्र च तदविशेषात् । अत एव स्पर्शाद्येकद्वित्रिचतुःस्वभाववाय्वाद्यणुचतुष्कवादो निरस्तः । एवञ्च वैशिष्ट्यमपि तात्त्विकम्, विकल्पश्चाबाधितः प्रमाणमिति सिद्धम् । सम्बन्धानुपपत्यादिप्रलापस्तु तर्काङ्गपञ्चकान्यतमहान्यादिविध्वस्तः ॥
किञ्च
परश्शतपरिक्षोदात्परस्तादपि वादिभिः । उपलम्भबले स्थेयं तदादौ किं न गृह्यते ॥ ४ ॥
इदमित्थन्त्वयोः किञ्चिद्यदि केनापि भज्यते । इदं नास्तीति वाचोऽपि भङ्गोऽन्यतरभङ्गतः ॥ ५ ॥
विसंवादादिसाध्येषु विकल्पत्वादिहेतवः । व्याकुलाः पक्षहेत्वादिबाधाबाधविकल्पतः ॥ ६ ॥
अतः सिद्धोऽयं तात्त्विकद्रव्याद्रव्यविभागः ॥