01 प्रमेयम्

अशेषचिदचित्प्रकारं ब्रह्मैकमेव तत्त्वम् । तत्र प्रकारप्रकारिणोः प्रकाराणाञ्च मिथोऽत्यन्तभेदेऽपि विशिष्टैक्यादिविवक्षयैकत्वव्यपदेशः, तदितरनिषेधश्च । अन्यथा समस्तप्रमाणसङ्क्षोभप्रसङ्गात् । इदमेव चेत्थम्भूतं समान्यतः प्रमाविषयतया विशेषतः प्रकर्षेण मेयतया च प्रमेयमुक्तम् ।