॥ श्रीः ॥
श्रीमते हयवदनपरब्रह्मणे नमः ।
श्रीमते रामानुजाय नमः ।
श्रीमते निगमान्तमहादेशिकाय नमः ।
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
श्रीमन्निगमान्तमहादेशिकैर् अनुगृहीतं
॥ श्रीन्यायसिद्धाञ्जनम् ॥
॥ जडद्रव्यपरिच्छेदः ॥
विश्वास-प्रस्तुतिः
श्रीमद्-वेङ्कट-नायकः श्रुति-शिरस्-तात्पर्य-पर्याप्त-धीर्
लब्धार्थो वरदार्य-पाद-रसिकाद् रामानुजाचार्यतः ।
बालानाम् अतिवेल-मोह-पटलावष्टम्भ-सीदद्-दृशां
सम्यक् तत्त्व-निरीक्षणाय तनुते सत्-तर्क-सिद्धाञ्जनम् ॥ १ ॥
मूलम्
श्रीमद्वेङ्कटनायकः श्रुतिशिरस्तात्पर्यपर्याप्तधीः लब्धार्थो वरदार्यपादरसिकाद्रामानुजाचार्यतः ।
बालानामतिवेलमोहपटलावष्टम्भसीदद्दृशां सम्यक्तत्त्वनिरीक्षणाय तनुते सत्तर्कसिद्धाञ्जनम् ॥ १ ॥
विश्वास-प्रस्तुतिः
सद्–अ-सद्–भूमिका-भेदैस्
तत्-तत्-सिद्धान्त-नाटकैः ।
उपप्लुतस्य तत्त्वस्य
शुद्ध्य्-अर्थो ऽयम् उपक्रमः ॥ २ ॥
मूलम्
सदसद्भूमिकाभेदैस्तत्तत्सिद्धान्तनाटकैः । उपप्लुतस्य तत्त्वस्य शुद्ध्यर्थोऽयमुपक्रमः ॥ २ ॥
विश्वास-प्रस्तुतिः
यन्-न्याय-परिशुद्ध्य्-अन्ते
सङ्ग्रहेण प्रदर्शितम् ।
पुनस् तद्-विस्तरेणात्र
प्रमेयम् अभिदध्महे ॥ ३ ॥
मूलम्
यन्न्यायपरिशुद्ध्यन्ते सङ्ग्रहेण प्रदर्शितम् । पुनस्तद्विस्तरेणात्र प्रमेयमभिदध्महे ॥ ३ ॥