मूलम् - 5.1.9
अथ द्रव्याणि विमृश्यन्ते- तत्र तावत् कौमारिलाभिमतविभुशब्दाख्यद्रव्यवादः शब्दस्याचिदवस्थाविशेषत्वेन श्रुत्यादिसिद्धत्वान्निराकार्यः । आत्मसिद्धौ तु शब्दस्य धर्म्यतिवर्तित्वगतिमत्त्ववादस्तदाश्रयभूतावयवद्वारेणेति नेतव्यः । यत्तु-
“तमः खलु चलं नीलं परापरविभागवत् ।
प्रसिद्धद्रव्यवैधर्म्यान्नवभ्यो भेत्तुमर्हति ॥”
इत्याहुः, तदेतद् द्रव्यं तावदभ्युपगच्छामः; तथा ह्युक्तं वरदगुरुभिस्तत्त्वसारे-
“तमो नाम द्रव्यं बहुलविरलं मेचकचलं
प्रतीमः केनापि क्वचिदपि न बाधश्च ददृशे ।
अतः कल्प्यो हेतुः प्रमितिरपि शाब्दी विजयते
निरालोकं चक्षुः प्रथयति हि तद् दर्शनवशात् ॥” इति ।
एतेन वियति विततानां सूक्ष्माणां पृथिव्यवयवानां कृष्णो गुणस्तम इति पक्षोपि प्रतिक्षिप्तः; साश्रयस्यैव तस्य ग्रहणविरोधाभावात्, गुणमात्रतया च कस्याप्यनुपलम्भात् । स्पर्शरूपरसानां च शब्दगन्धवद् भ्रान्तौ प्रमितौ वा निराधारग्रहणादर्शनाच्च–इति । एवं द्रव्यत्वे सिद्धे कृष्णवर्णस्य द्रव्यस्य पृथिवीत्वमेवाभ्युपगन्तुमुचितम्, “यत् कृष्णं तदन्नस्य” इति श्रुतेः । यद्यपि पृथिव्यां पाकविशेषवशात् शुक्लादिरूपं, नान्यत्र पाकादपि भवति; आकाशादिषु नैल्योपलम्भोपि हि पञ्चीकरणमूलपृथिवीसंसर्गात् । “आकाशे चाविशेषात्” इति सूत्रे भाषितम्- “अण्डान्तर्वर्तिनश्चाकाशस्य त्रिवृत्करणोपदेशप्रदर्शिंतपञ्चीकरणेन रूपवत्वाच्चाक्षुषत्वेप्यविरोधः” इति । नन्वेवमाकाशमेव द्रव्यान्तरसंसर्गान्नीलं तम इत्युपलभ्यते इति स्यादिति चेत्, न स्यात्, आकाशे तम इति पृथगुपलम्भस्वारस्यात्, द्रव्नयान्तरत्वे तु कल्पनागौरवात्, अन्ततोत्रापि पञ्चीकरणेन द्रव्यान्तरसंसर्गस्याभ्युपगतत्वाच्च इति । स्पर्शानुपलम्भस्तु इन्द्रनीलालोकदुर्दिनातपादेरिवानुद्भवादेरपि । स्यात् । न
च पार्थिवरूपस्य सर्वस्यालोकसापेक्षचक्षुर्ग्राह्यत्वनियमः कल्प्यः, करणवैचित्र्यादिव विषयवैचित्र्यादपि व्यवस्थोपपत्तेः । दिवाभीतानां विशिष्टाञ्जनरञ्जिताक्षाणां चालोकनिरपेक्षमेव चक्षुषैव पदार्था गृह्यन्ते । आलोकाभावमात्रे च तमसि तमोज्योतिषोर्निवृत्तिवचनं च व्याहन्येत, प्रतिनियतनैल्यारोपकल्पनाप्रयासश्च । अतः पृथिवीविशेषत्वं तमसो युक्तम् । पृथिव्यादीनि पञ्च भूतानि मनश्च त्रिगुणद्रव्यपरिणतिविशेषतया श्रुत्यादिसिद्धत्वान्न पृथग्द्रव्याणि । तत्र चावयव्याख्यं भौतिकद्रव्यम् “तदनन्यत्वमारम्भणशब्दादिभ्यः” इत्यादिभिः षड्भिः सूत्रैर्बुद्धिशब्दान्तरादेरन्यथासिद्ध्याद्युपपादनेन निरस्तम् । “महद्दीर्घवद्वा ह्वस्वपरिमण्डलाभ्याम्” इत्यादिभिश्च परामभिमतः परमाणुः । अतः परिणामविशेषादुपलम्भयोग्यत्वायोग्यत्वादिदशाविशेषयोगि प्रकृत्यादिसंज्ञं द्रव्यं विचित्रव्यवस्थितक्रमसमष्टिव्यष्टिरूपमवतिष्ठते । दिक्तत्त्वमपि तत्तदुपाध्यवच्छिन्नास्तत्तद्देशविशेषा एव, अतिरिक्तकल्पकानां परापरप्रत्ययविशेषादीनामन्यथासिद्धेः । दिगुत्पत्तिश्रुतिश्च तदुपाधिकतन्निर्वाहकसृष्ट्योपपन्ना; अन्यथा द्युपृथिव्यन्तरिक्षादिवत् त्रिगुणपरिणतिविशेषतैव स्यात्, न पृथग्द्रव्यता । न चैवं कालेपि प्रसङ्गः, नित्यस्य कालस्य भगवत्पराशरादिभिः पृथक्प्रसंख्यानात् । तस्य प्रकृतिपरिणतिविशेषत्वादिपक्षास्तत्पूर्वापरकालावश्यंभावात् श्रुत्यादिबलाच्च प्रत्यस्ताः । अतस्त्रिगुणकालावात्माचेति त्रीणि सिद्धानि । ईश्वरस्य तु पृथक्संख्याने चत्वारि । तस्य हि चेतनत्वादिभिः संग्रहसंभवेप्यवान्तरवैलक्षण्यज्ञापनाय पृथक्संख्यानं प्राचामनादिवाचां च, अन्यथा प्रक्रियान्तरेणाचेतनेष्वपि संग्रहप्रसंगात् । विविक्तं च भगवता पराशरेण-
“परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।
मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः॥” इति ।
एवं धर्मभूतज्ञानाख्यमपि द्रव्यमजडत्वाविशेषेपि स्पुटतरवैधर्म्यानतरबलात् पृथग्गणयन्ति । तस्याद्रव्यत्ववादः केषांचिन्नाथमुनियामुनमुनिभाष्यकारादिप्रबन्धविरोधात् प्रायः परचित्तरञ्जनार्थः । शुद्धसत्त्वाख्यस्य च द्रव्यान्तरस्य परविग्रहादियाथार्थ्योपदेशप्रवृत्तनिरुक्ताद्याप्तागमसिद्धत्वात् सूक्ष्मत्रिगुणावस्थाविशेषादिपक्षा बहिष्कार्याः । अतः षडेतानि द्रव्याणि । भोक्तृभोग्यनियन्तॄणां सदात्मनैकद्रव्यत्वादिपक्षा अपि निर्विशेषसन्मात्रपक्षवद् व्याघातश्रुतिविरोधादिभिर्बहुशो भाष्यादिषु निरस्ताः । तत्र त्रिगुणशुद्धसत्त्वे स्वनिरुक्त्यैव लक्ष्ये । क्षणलवाद्यात्मा कालः । अणुर्ज्ञाता जीवः । विभुस्त्वीश्वरः । जानातिव्यवहारासाधारणकारणं व्यवहार्यविशेषो मतिः । एवं त्रिगुणकालजीवेश्वरशुद्धसत्त्वमतिरूपेण षोढा द्रव्यविभागः । एवं प्रमाणसार्थघण्टापथेन द्रव्याद्रव्यरूपप्रमेयग्राममधिजिगमिषतां न कुदृष्टिबाह्यकल्पितकूटयुक्तिगर्तनिपातः, इति ॥
इति
श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ
प्रमेयाध्याये प्रथममाह्निकम् ॥