मूलम् - 5.1.8
अथाचिद्द्रव्यविशेषगुणान् पश्यामः- तत्र शब्दादयः पञ्च तत्तद्भूतवर्तिनः प्रत्यक्षादिबलादभ्युपगताः । सत्त्वरजस्तमांसि च शास्त्रानुसारेण । संयोगश्च प्रत्यक्षादिसिद्धः । नैरन्तर्यमात्रमेवायमिति चेत्, तत् किं द्रव्यस्वरूपम्, उतागन्तुरवस्थाविशेषः ? । नाद्यः, नित्यत्वप्रसङ्गात् । न द्वितीयः, नामान्तरेण तदभिधानात्, इति ।
विभागपृथक्त्वे तु अभावोक्तन्यायेन दूषणीये । परत्वापरत्वे अपि सुखादिच्छायया; न हि तत्तदुपाध्यवच्छिन्नदेशकालविशेषसंबन्धातिरिक्ते परत्वापरत्वे पश्यामः । तत्कल्पने च प्राक्त्वप्रत्यक्त्वादयोपि हि बहवो गुणास्तुल्यन्यायाः कल्प्याः स्युः । एवं सदसद्गुणप्रदर्शनप्रक्रियया संख्यापरिमाणगुरुत्वद्रवत्वस्नेहानां तत्त्वमवसातव्यम्, इत्यद्रव्येष्वेषा दिक् ॥