07 षाड्गुण्यम्

मूलम् - 5.1.7

ये च भगवतोनन्ता मङ्गलगुणाः प्रकीर्त्यन्ते, ते सर्वेपि षाङ्गुण्यविततिरूपाः इति संमतम् । यथाहुः-
“तवानन्तगुणस्यापि षडेव प्रथमे गुणाः ।
यैस्त्वयेव जगत् कुक्षावन्येप्यन्तर्निवेशिताः ॥” इति ।
षट्सु च गुणेषु बलं धारणसामर्थ्यम्, ऐश्वर्यं नियमनशक्तिः; विकारहेतुष्वप्यविकृतत्वं वीर्यम्; तेजः पराभिभवनसामर्थ्यम्, अन्यानपेक्षता वेति । लक्षितानां चतुर्णामतिमथने ज्ञानशक्तिविततिरूपत्वं व्यक्तम् । न च ज्ञानशक्त्योरप्येवं मिथोन्तर्भावः शक्यः, अज्ञेष्वपि द्रव्येषु शक्तिदर्शनात्, अशक्तेष्वपि ज्ञानदर्शनात् । अतएव ज्ञानविशेषः शक्तिरित्यपि निरस्तम् । शक्तिविशेषस्तु ज्ञानं स्यादिति चेत्, कोसौ शक्तिशब्दार्थः ? । विलक्षणो गुणविशेषः प्रभाकरादिनयेन पदार्थान्तरं वा इति चेत्, न तर्हि ज्ञानस्य तद्विशेषता सिध्येत् । अथ कार्योपयुक्तविशेषणमात्रं शक्तिरिति सर्वप्रयोगानुगतं पश्यसि, तदा न केवलं ज्ञानस्य, अपि तु सर्वस्यैव शक्तित्वं प्राप्तम्, सर्वस्यापि प्रधानकारणतयाभिमते कस्मिंश्चिद्विशेषणत्वेनावस्थानात् । नन्वेवमुदयनादीनामिव स्वरूपसहकारिव्यतिरिक्तशक्त्यभावः प्रसक्तः इति चेत्, अनन्यथासिद्धयुक्तिवशादागमबलाद्वा तत्सिद्धेः । तच्छब्दस्तु विवक्षाविशेषात् स्यादिति ब्रूमः । शक्तिसमर्थनसंरम्भश्चाचार्याणां न्यायकुलिशे निपुणमनुसंधेयः । शक्तिमात्रकारणादिवादाश्च बाह्यानामुपलम्भयुक्त्याप्तागमादिविरहादनादरणीयाः । सा चेदुपादानं, सूक्ष्मं द्रव्यमेवासौ स्यादिति न विवादः ॥