06 गुणाः

मूलम् - 5.1.6

तत्र चात्मगुणतयाभिमतेषु सुखदुःखेच्छाद्वेषप्रयत्नाः पञ्च तत्तदुत्पादकतयाभिमतबुद्धिविशेषानतिरिक्ता वेदार्थसंग्रहे समर्थिताः । धर्माधर्मौ विहितनिषिद्धक्रियासाध्यतयाभिमतावाज्ञावतो राज्ञ इव सर्वप्रशासितुरीश्वरस्यानुग्रहनिग्रहाख्यबुद्धिविशेषरूपौ भाष्यादिषु बहुषु प्रदेशेषु प्रपञ्चितौ । यः पुनः संस्कारः स तावद्बुद्धिविशेषात्मनोक्तः, न च तत्प्रयुक्तः; ततश्चिरनष्टविप्रकृष्टाकारे व्याप्त्यदर्शनात्, वासनानुवृत्तेश्च वाचनिकत्वात् ॥
न्या. प. प्रमे. 4
यद्यपि “इन्द्रियस्येन्द्रियस्यार्थे” इत्यादिगीताश्लोकेषु भाष्यकारैर्वासनाया इच्छाद्वारेणैव प्रवृत्तिहेतुत्ववचनाज्ज्ञानवासनाविशेषातिरिक्ता कर्मवासना नास्ति, तथापि ज्ञानवासना दुरपह्नवा, ततश्च तदाश्रयमात्रं विचार्यम्, तत्र धर्मभूतज्ञानस्य द्रव्यत्वं न्यायतत्त्वात्मसिद्धिभाश्यादिसिद्धमनुसरतां तन्निष्ठस्मृत्याख्यविकारोत्पादकः संस्कारोऽपि तन्निष्ठः प्राप्तः; अन्तरङ्गत्वादबाधाच्च ॥
न्या. प. प्रमे. 5
ये तु परपरिभाषमनुसरन्तस्तदनुगुणं तस्य गुणत्वं गृह्णन्ति, तेषामात्मन्येव संस्कारः, इति विशेषः । न च बुद्धोर्नित्यत्वं संकोचविकासादिदशाभेदं चाभ्युपगच्छ€द्भिरद्रव्यत्वं तस्याः सुवचम्; अवस्थान्तरयोगित्वमेव ह्युपादनत्वम्; तदेव हि द्रव्यलक्षणम् । तथापि न गुणत्वहानिः; अपृथक्सिद्धविशेषणत्वातिरिक्तगुणत्वावदर्शनात्, कर्मव्यतिरिक्तजातिमात्राश्रयत्वादिरूपगुणलक्षणसंकेतस्यास्माभिरनादरणात् । न च द्रव्यस्याश्रितस्वभावत्वलक्षणमपृथक्सिद्धविशेषणत्वं विरुद्धम्, अवयविनि युष्माभिरपि स्वीकरणात् । यथा च द्रव्यत्वविशेषणत्वादिभिर्न विरोध इष्यते, एवमत्रापि, उपलंम्भयुक्त्यादेः सामनचर्चत्वात् । अतो ज्ञानं द्रव्यम्, तदवस्थाविशेषास्त्वद्रव्याणीति संस्काराख्यविकारास्थितिरपि तत्रैव युक्ता । वेगाख्यस्तु संस्कारस्तदुत्पादकत्वाभिमतकर्मविशैषातिरिक्तो न दृश्यते, न च युज्यते । स्थितस्थापके तु कर्मनिवृत्तावपि तदविनाभूतसंयोगविशेषत्वं वक्तुं युक्तम् ॥