मूलम् - 5.1.5
अन्ये तु मन्यन्ते-यथा तत्प्रतीतेरन्यथासिद्धतया ते पदार्था भाष्यकारादिभिर्निरस्यन्ते, तथा कर्मापि, इति, ये तावदिह सर्वत्र सूर्यपरिस्पन्दादिवदप्रत्यक्षं कर्म फलानुमेयमिच्छन्ति । तत्र यया सामग्र्या कर्मणः सिद्धिरभिमता तयैव दृष्टं कर्मफलं साध्यताम्, किमन्तरा कल्पितेन कर्मणा ? । तथापि चेत् कॢप्तिः, अन्यत्रापि कालविप्रकर्षादर्शनेपि सामग्रीकार्ययोर्मध्ये अन्यस्य कॢप्तिप्रसङ्गः; तथैव च त्रत्रापीत्यनवस्था स्यात् । ये च “प्रत्यक्षं कर्म” इत्याहुः, तैरपि नूनं कर्मफलत्वेनाभ्युपगमसंयोगविभागातिरिक्तं निपुणनिरीक्षणेपि नोपलभ्यत इति मन्यामहे । चलतिप्रत्ययोपि हि तावतैव चरितार्थः । न च वाच्यं यावत्संयोगं चलतिप्रत्ययप्रसङ्ग इति, पूर्वदेशविभागपूर्वकदेशान्तरसंयोगप्रथमक्षणविषयत्वात् तत्प्रत्ययस्य । तत एव ह्युत्तरकाले संयोगे वर्तमानेप्यचलदिति भूतानुसंधानमुपपन्नम् । ननु प्रवाहमध्यस्थिते स्थाणौ पूर्वसलिलस्कन्धवियोगः उत्तरसलिलस्कन्धयोगश्च दृश्यते, न च तत्र चलत्वमिच्छामः; व्योमादय एव स्थिरदेशत्वेन विवक्षिताः इति चेन्न, प्रवाहस्य ततो विशेषादर्शनात्; लौल्यम् विशेषः इति चेत्, तर्हि संयोगविभागातिरिक्तं लौल्यरूपं कर्म प्रत्यक्षमिति कथं तदपह्नवः ? इति । तत्राहुः-या नाम कर्मसामग्री त्वयेष्यते सा तत्तत्कर्मफलतयाभिमतं संयोगविशेषमुत्पादयन्ती नियतस्वभावमेव तमुत्पादयति । अत एव एव संयोगोनेकनिष्ठोपि सन् क्वचिच्चलतिप्रत्यंयं क्वचित् संयोगमात्रप्रत्ययं च जनयति, यथैक एव समवायो गुणगुणिभ्यामविशेषेण स्वतो मिलितोपि सन् क्वचिदाश्रयप्रत्ययं क्वचिदाश्रितप्रत्ययं च जनयति, न ह्याश्रयभाव आश्रितभावो वा समवायस्वरूपातिरिक्तः, तद्वदिहापीति । वयं तु ब्रूमः- अप्रत्यक्षकर्मवादस्तावत् प्रागुक्तदूषणादयुक्तः । प्रत्यक्षं तु कर्म स्वरूपतो दुरपह्नवम् । तत्र भाष्यादिष्वतिरेकविधिनिषेधादर्शनादर्थान्तरविरोधाभावाच्चोदासितव्यम्, इति । इदं तु मन्यामहे- अतिरेकेपि गुणवर्गान्न राश्यन्तरं कर्म, विभाजकाभावात्, स्वेच्छाकल्पितविभाजकस्य सर्वत्र सुलभत्वेन यथाभिमतमेकं गुणमुभयं वाङ्गीकृत्य राश्यन्तरकल्पनप्रसङ्गात्, गुणावान्तरवैचित्र्यस्य गुणत्वविरोधाभावात् । अतो द्रव्यमद्रव्यमित्येव विभागः इति ॥