04 सामान्यम्

मूलम् - 5.1.4

सामान्यमपि परोक्तं सूत्रकारैरेव निरस्तप्रायम्; तथाहि- “तदनन्यत्वमारम्भणशब्दादिभ्यः-” इत्यादिभिः सूत्रैः कार्यदशायामुपादानस्यावस्थान्तरापत्तिमात्रमेव, न पुनः पराभिमतमवयव्याख्यं द्रव्यमस्तीति समर्थनाद् घटाद्यवयव्यभावे तदाश्रितघटत्वादिसामान्यमवयविसमवेततयाभ्युपगतगुणादयस्तदुभयारम्भप्रक्रियाजालं च निर्मूलितम् । यच्चोपादानस्य घटत्वादिरूपमवस्थान्तरं संयोगविशेषादिरूपं, तत् परैरपि कार्यतयाभ्युपेतमुपलम्भादिभिश्च तथैव सिध्यती€ति न तत्रापि नित्यत्वकल्पनावकाशः । ततः सर्वेषां द्रव्याणां स्वरूपतोनाद्यनन्तत्वात् कार्यद्रव्यत्वात्मत्वादिमात्रमेव शिष्यते । गुणेषु नित्येष्ववस्थारूपेषु चानुवृत्तप्रत्ययनिमित्तं किमिति चिन्त्यम्; तत्रैवं भाषितं शारीरकाद्ये- “संस्थानातिरेकिणोनेकेष्वेकाकारबुद्धिबोध्यस्यादर्शनात्, तावतैव गोत्वादिजातिव्यवहारोपपत्तेः, अतिरेकवादेपि संस्थानस्य संप्रतिपन्नत्वाच्च संस्थानमेव जाति । संस्थानं नाम स्वासाधारणं रूपमिति यथावस्तु संस्थानमनुसंधेयम्” इति । एतदुक्तं भवति- किं संस्थानातिरिक्तं सामान्यं विविक्तस्फुटप्रत्यक्षाध्यवसायभेदादङ्गीक्रियते, उतोपपत्तिबलादिति; नाद्यः, असिद्धेः नान्त्यः, अन्यथासिद्धेः; अतिरिक्तसामान्यमभ्युपगच्छतोपि हि तदुपलक्षणं संस्थानमिष्टं दृष्टं च । प्रतिव्यक्तिनियतं संस्थानं कथमनुवृत्तप्रत्ययकारणमिति चेत्, कथं वा तज्जातीयस्य लक्षणं भवति ? । अनुवृत्तजात्यन्तरसंगृहीतोपाधिरूपतयेति चेत्, तावतैव गवादिव्यवहारसिद्धौ किमन्येन ? । तथाप्यन्ततोनुवृत्तं सामान्यं क्वचिदभ्युपगन्तव्यम्, यत्रानन्यथासिद्धिः; अन्यथोपाधिसंग्रहस्याप्यसंभवादिति चेत्, तवापि वा तत्र सामान्यमुपलक्षणेन संगृह्यते, न वा ? पूर्वत्रान्यथासिद्धिरनवस्थितिश्च । उत्तरत्र नियामकादर्शनाज्जातेराश्रयव्यवस्था न स्यात् । व्यावृत्तानामपि स्वभावत एव कासांचित् व्यक्तीनां तद्व्यञ्जकत्वनियतिरिति चेत्, स एव स्वभावः किं न व्यवहारं नियछेत् । निर्विषयः कथं
व्यवहारः स्यादिति चेत्, तासामेव व्यक्तीनां विषयत्वात् । व्यावृत्तानामनुवृत्तव्यवहारविषयत्वे सर्वत्र विषयव्यवस्था भज्येतेति चेत्, व्यावृत्तानामनुवृत्तव्यञ्जकत्वे सर्वत्र तद्व्यक्तिः किं न स्यात् ? । संबन्धासंबन्धाभ्यां नियमादिति चेन्न, संबन्धस्यापि समवायनाम्नः सार्वत्रिकत्वाभ्युपगमात् तत्राप्यभिव्यक्तिप्रतिनियमस्य मृग्यत्वात्, नानासमवायवादेपि व्यक्तिस्वभावनियमस्य दुस्त्यजत्वात्, तथापि दृष्टैकगोव्यक्तेर्व्यक्त्यन्तरे सोयमिति प्रत्यभिज्ञानं कथं स्यात् ? अयं गौरित्येकव्यक्तौ व्युत्पादितश्च कथं व्यक्त्यत्यन्तरेपि तच्छब्दवाच्यतां प्रतीयात् ? इति चेत्, तवापि वा कथम् ? । एकधर्मसमवायादिति चेत् ? तेनैव धर्मेण स्वतो मिलितस्य समवायस्यैव नित्यं सर्वत्र वृत्त्यभ्युपगमेन सर्वत्र सर्वव्यवहारसंकरप्रसङ्गात् । कासांचिदेव व्यक्तीनां तद्व्यञ्जकत्वस्वाभाव्याद् व्यवस्थोक्तेति चेत्, तर्हि तासामेव व्यक्तीनां प्रतिसंधानव्यवहारयोर्विषयत्वमस्तु । तथा सति भ्रान्तत्वं तयोः स्यादिति चेन्न, तद्व्यक्तित्वेन प्रतिसंधानादेरभावात् ; अपि तर्हि तथात्वेन व्यक्तिस्वरूपातिरिक्तं तथात्वं नामान्तरेण जातिरेव स्यादिति चेत्, तज्जातिव्यञ्जकं तत्तदेकव्यक्तिस्वरूपातिरिक्तं किं न जात्यन्तरं स्यात् ? । उपाधिविशेष एवायं प्रतिनियताश्रय इति चेत्, एवं तर्हि प्रतिनियतप्रतियोगिकं स्वभावनियतं परस्€परस्मारकत्वमुपजीव्य तज्जातीयतया प्रतिसंधानव्यवहारोपपत्तौ किमन्यकल्पनेन ? । तस्मारकतदितरविभागः कुतस्त्य इति चेत्, तद्व्यञ्जकतदितरविभागस्ते कुतस्त्यः ? । दर्शनादर्शनायत्त इति चेत्, तुल्यम् । संबन्धसादृश्ययोरभावे कथं स्मारकत्वमिति चेत्, तयोर्वा कथम् ? । सदृशसहानुभूतदर्शनस्य संस्कारोद्बोधकत्वादिति चेत्, तदपि कुतः ? । कार्यदर्शनात् कल्प्यते इति चेत्, तुल्यम्; अन्यथा संबन्धं सादृश्यं वैकमुपादाय तदन्यस्य कथं स्मारकत्वमिति चोद्यस्य दुर्वारत्वात् । न चात्र सादृश्यं नाङ्गीकुर्मः, सौसादृश्यरूपत्वाभ्युपगमात् सामान्यस्य । नामान्तरेण पराभिमतजातिस्वीकारः इति चेत्, व्यावृत्तानां संनिवेशादीनामेव प्रतिनियतप्रतियोगिस्मारकस्वभावतया सादृश्यरूपत्वात् । गवयादेरपि तर्हि गोजातीयत्वादिप्रसङ्गः इति चेन्न, सादृश्यसौसादृश्यविभागस्वय सांप्रत्ययिकस्य सर्वसंमतत्वात् इति । एवं सामान्यादिषु सूत्रकारादिभिर्निरस्तेषु प€रिशिष्टा द्रव्यगुणकर्मरूपास्त्रयः पदार्थाः इति केचिदाचार्याः ॥