मूलम् - 5.1.3
यश्चान्योन्यमत्यन्ततुल्येषु मुक्तात्मादिषु मिथो व्यावृत्तधीजननाय द्रव्यत्वादिहेतुना विशेषाख्यः पदार्थः कल्प्यते, सोपि तुल्यन्यायतया सूत्रकारैर्दूषितप्राय एव । “महद्दीर्घवद्वा ह्वस्वपरिमण्डलाभ्याम्” इत्यनुपपन्नपरमाणुद्व्यणुकादिप्रक्रियानिदर्शनेनान्येषामपि तदभ्युपगतानामुनपपन्नत्वस्य सूचितत्वाच्च । अपि चानित्येषु द्रव्येषु तावज्जातिगुणपादिभिरेव व्यावृत्तधीः सिध्यतीति नित्येषु हि विशेषोन्यः कल्प्यते; यथाहुः- “नित्यद्रव्यवृत्तयोन्त्या विशेषाः” इति, तथापि वेदान्तिभिर्दिक्संज्ञकविभुपदार्थान्तरानभ्युपगमादाकाशस्य च कार्यत्वादिश्रुतेः प्रकृतिविकारभूतपृथिव्याद्यंशविशेषातिरिक्तपरमाणुजालप्रतिक्षेपात् तथाविधपरमाणूनां चावस्थाप्रवाहस्यानाद्यन्तत्वान्न तत्र विशेषकॢप्तिः । ततः कालात्मानौ परिशिष्येते । तत्रापि चेतनानां न
कालतत्त्वमात्मतया भाति । क्षणलवाद्यवस्थायोगित्वपराक्त्वाचेतनत्वादिभिरेव, तस्मात् स्वेषां स्वेभ्यश्च तस्य व्यावृत्तधीसंभवात् । अन्यथान्येनापि कल्पितेन तदसंभवप्रसङ्गात् । अतः आत्मपरिशेषे तत्रापि जीवेश्वरयोरणुत्वविभुत्वनियाम्यत्वनियन्तृत्वाधेयत्वाधारत्वशेषत्वशेषित्वशरीरत्वशरीरित्वाभिरनेकविधैर्धर्मभेदैर्व्यावृत्तधीसिद्धौ किमन्येन विशेषेण ? । तदत्यन्तसाम्यवत्सु मुक्तेषु नित्येष्वपि हि तत्साम्यस्यैव संरक्षणाय धर्मिग्राहकसिद्धा यावदात्मभाविनस्ते ते विशेषा न परित्यक्ताः । न चेश्वरद्वैतम्; येनेश्वराणां मिथोव्यावृत्तप्रतीत्यै विशेषं कल्पयिष्यामः, एकस्यैव सर्वदेशकालेष्वेकातपत्रतया सर्वश्रुतिसिद्धत्वात्, अस्यैव च सामान्यशब्दैर्विशेषशब्दैश्च रूढितो योगतस्तत्तद्वस्तुविशिष्टत्वादिना च तत्तत्प्रकरणानुगुणं शरीरके प्रतिपाद्यत्वस्थापनात् । जीवेष्वपि बद्धानां मिथो भेदस्तत्तत्सुखदुःखधीच्छावैचित्र्येण व्यक्तः । बद्धमुक्तयोश्च किञ्चिज्ज्ञत्वसर्वज्ञत्वादिभिः, मुक्तानां नित्यानां च विशुद्धेरादिमत्त्वानादिमत्त्वाभ्यामेव विभक्तधीसंभवः । मुक्तदशायां नित्येभ्यः किं वैष्म्यमिति चेत्, किं तेन ? । प्राक्तनेन
तत्तदात्मवर्तितया प्रत्यक्षितेन गुणादिभेदेन तदन्यव्यावृत्तधीसिद्धेः । सिद्धैरपि तद्व्यवहारे प्राक्तनोपाधिभेदैरेव तत्तत्प्रमाणप्रमितैः प्रतिसंहितैः सर्वनिर्वाहात् । एतेन मुक्तानां मिथो विभक्तबुद्धिरपि निर्व्यूढा; न हि तेषामेकरूपः प्राक्तनः संसारः; विषमविपाकसमयानाद्यसंख्यातकर्मप्रवाहवैचित्र्यप्रतिनियतदेशकालस्वरूपसुखदुःखतत्कारणादिसंततेरेव मिथो व्यावर्तकत्वात् । तदतद्विभागो हि तत्कालवर्तिनैवं धर्मेणेति न नियमः, अतत्कालवर्तिनापि तन्निष्ठतयोपलभ्यमानेन तत्सिद्धेः; न ह्यतीतः संसारो मुक्तात्मस्वरूपमुपलभमानैर्नोपलभ्यते, उपलभ्यमानो वान्यनिष्ठः प्रतिभाति । अथ नित्येषु मिथः का वार्त्रा ? । सापि कुशलैव । तेषामपि हि सत्यसंकल्पानां विचित्राः संकल्पेच्छादय ईश्वरस्येवानियतदेशकालविषयापर्यनुयोज्यसामग्रीका अनाद्यनन्तसंतानवन्तः सन्तीति किमन्येन विशेषेण ? । अपि च यद्दर्शने यत्र यदारोपो न भवति स हि तस्य ततो भेदः । स एव च विशेषः । स चेत् स्वरूपभूतोहंत्वमादिरूपेण भातः परारोपं प्रतिरुन्ध्यात्, कस्ततोन्यस्ततो विशेषस्तस्य ? । एवमनभ्युपगमे विशेषक्लृप्तावपि का गतिर्वैशेषिकस्य ? स्वपरनिर्वाहकास्ते विशेषाः, इति चेत्, किं त एव ? । अपि च पृथक्त्वे विद्यमाने किं तैर्विशेषैः ? । पृथक्त्वस्यैकजातिसंगृहीतत्वान्न ततोपि व्यावृत्तधीरीति चेत्, तर्हि ततो न क्वचिदपि स्यात् । विशेषेष्वपि वा विशेषत्वाक्रान्तेषु कस्ते निस्तारः ? । विशेषत्वं नाम जातिर्नास्तीति चेत्, किं तत् ? । उपाधिरिति चेत्, किं ततो न संग्रहः?, तथा सति क्वचिदपि तन्निबन्धनानुवृत्तधीभङ्गप्रसङ्गात् । एवमन्योन्याभावेनापि गतार्थता दुस्तरेति परास्तः पराभिमतविशेषः ।