02 पदार्थाः

मूलम् - 5.1.2

यत् तत्राहुः- “अभिधेयः पदार्थः । स च भावाभावभेदेन द्विधा” इति, तत् तावत् “असद्व्यपदेशान्नेति चेन्न, धर्मान्तरेण वाक्यशेषाद्युक्तेः, शब्दान्तराच्च” इत्यारम्भणाधिकरणसूत्रेणाभावस्य पराभ्युपगताभावाभावस्येव भावान्तरत्वसमर्थनात् प्रतिक्षिप्तम् । यदपि च- द्रव्यगुणकर्मसामान्यविशेषसमवायरूपेण भावरूपाणां पदार्थानां षोढा परिसंख्यानम्, तदपि वैशेषिकाधिकरणे “समवायाभ्युपगमाच्च साम्यादनवस्थितेः” इति सूत्रकारैरेव समवायाख्यपदार्थान्तरदूशणेन परास्तम् । अभावतदधिकरणयोर्विशेषणविशेष्यभावसंनिधिविशेषादिशब्दवाच्यसंबन्धान्तरानुमानमपि समवायदूषणच्छाययैव दूषितमेव ।