मूलम् - 5.1.1
॥ प्रमेयाध्यायः ॥
॥ प्रथममाह्निकम् ॥
न्या. प. प्रमे. 1
एवं सपरिकरं प्रमाणं विशोधितम् । अथ प्रमेयं प्रदर्शयामः । तत्र यत् पुनः षट्सप्तादिरूपेण पदार्थान् विभज्य वैशेषिकादयश्चिन्तयन्ति, तन्न साक्षादपवर्गाङ्गमिति तैरेवाभ्युपेतम् । अपि च-
विद्यमानपरित्यागादसतां च परिग्रहात् ।
व्यामोहना विमर्शास्ते बहिष्कार्या मुमुक्षुभिः ।
सावान्तरविभागेषु तत्तच्चिन्ताश्रमेष्विह ।
अविस्तराय दिङ्मात्रं दोषाणामभिदध्महे ॥