12 प्रतिभा

मूलम् - 4.2.11

यत्तु प्रतिभायामुक्तं तत्त्वरत्नाकरे-
“ननु च प्रतिभा काचिद् यथार्था मानमिष्यताम् ।
बाह्यार्थनैरपेक्ष्येण बाह्यज्ञानक्षमास्तु सा ॥
विशिष्टकालपुरुषाद्यपेक्षोत्कर्षसंभवा ।
सत्यं, कालादिभेदस्तु दुर्विवेचोस्मदादिभिः ॥
सन्नप्यसौ व्यवहृतौ नोपयोगीत्युपेक्ष्यते ।
प्रतिभायाः फलं दृष्टं यदा प्रामाण्यनिश्चयः ॥
तदन्यतः कृतार्थत्वात् प्रेक्ष्यते न परीक्षकैः ।
पुण्येषु पुरुषेष्वेषा भूयिष्ठं सत्यदर्शिनी ॥
तस्मात् पतञ्जलिः प्राह प्रतिभा चेति तां प्रमाम् ॥”
इति, तदपि प्रागुक्तयोगिप्रत्यक्षविशेषविषयमेव । नन्वेवं, तदपि प्रमाणत्रित्वं चतुष्ट्वं वानुपपन्नम्, प्रत्यक्षपरोक्षरूपेण द्वित्वस्यैव युक्तत्वात्, इति चेन्न, अतिप्रसङ्गात् । तथाहि-
बहुष्वेकैकमुद्धृत्य तदन्येष्वैकराश्यतः ।
द्वैधक्लृप्तौ घदादावप्येवमेव प्रसज्यते ॥
अनुमाननुमानत्वशब्दाशब्दविभागतः ।
प्रमाणद्वित्वमेवं ते वद किं वान रोचते ॥
प्रत्यक्षस्य तदन्याभ्यां वैजात्यग्रहणाद्यदि ।
तयोरपि स्वेतराभ्यां वैजात्यं स्फुटमेव नः ॥
अतोक्षलिङ्गशब्दाख्यासाधारणनिदानतः ।
उपलक्ष्यं प्रमात्रित्वं चतुष्ट्वं वापि संस्मृतेः ॥
स्पष्टमस्पष्टमिति च जैना यद् द्वैधमूचिरे ।
तत्प्रत्यक्षपरोक्षत्वविभागान्न विशिष्यते ॥
अतो न तावति द्वैधे साधिते विवदामहे ।
परोक्षस्यैकमानत्वं दुर्वचं भेदसाधनात् ॥
नन्वध्यक्षेपि भेदोस्ति बाह्यान्तरविभागतः ।
दिव्यादिव्यतया चक्षुःश्रोत्रादिभिदयापि च ॥
तद्वत् परोक्षस्यैकस्य प्रमाणस्य विभागतः ।
अनुमानागमभिदा कथं नाभ्युपगम्यते ॥
दत्तोत्तरमिदं किंचिद् दृष्टमेतच्छ्रुतं त्विदम् ।
एतत्त्वनुमितं चेति लोकोक्तिरिह साक्षिणी ॥
यतः कुतश्चिद् वैधर्म्यं साधर्म्यमपि केनचित् ।
सर्वत्र सुलभं काममिहापि परिगृह्यते ॥
अतः स्मृत्यनुभूत्याख्याविभागादपि नोचितम् ।
प्रमाणद्वित्वमित्येवं प्रागुक्तैव सुपद्धतिः ॥
त्रिविधोनुभवश्चैव तन्मूला च तथा स्मृतिः ।
इति षोढा विभागे तु न विमन्यामहे वयम् ॥
अनुभूतिविभागेन तन्मूलायाः स्मृतेरपि ।
विभागस्य गतार्थत्वादैकराश्यमुदाहृतम् ॥
अतो हि तस्यास्तन्मूलेष्वन्तर्भावविवक्षया ।
प्रमाणवर्गं त्रित्वेन प्राञ्चः केचिद्विविञ्चते ॥
एवमन्यदपि चिन्त्यम्, इति ॥
ननु अनेनन किं प्रमाणचिन्ताक्लेशेन ? अविमृश्यापि प्रमाणवर्गमुपलम्भान्वयव्यतिरेकादिवशात् पश्वादीनामिव मनुष्यादीनामपि लौकिकेष्वर्थेषु प्रवृत्तिनिवृत्तितत्प्रयोजनादिकं निरुपद्रवं सिध्यति । अलौकिकेष्वपि तत्तद्विधायकैस्तदनुग्राहकैश्च कल्पसूत्रादिभिश्चरितार्थधियां किमनेन पिष्टपेषणादिकल्पेन वृथा विमर्शेनेति चेत्,
मैवम्;
अवकाशोपरोधाय तत्त्वोपप्लवमिच्छताम् ।
अविपर्याससिद्ध्यै च विशोध्या मानयद्धतिः ॥
प्रतिसंधाय च फनलं प्रारम्भाह्निकदर्शितम् ।
साध्यप्रमेयसंशुद्ध्यै साङ्गे माने परिश्रमः ॥
प्रत्यक्षितसमस्तार्थैर्योगी€न्द्रैनरपि लङ्घ्€यते ।
प्रमाणप्लवमालम्ब्य तत्त्वविप्लवसागरः ॥
तस्मादुक्तरीत्या शुद्धिः कर्तव्येति ।
शुद्धान्यायनिषेविता श्रुतिशिरःशुद्धान्तसिद्धान्तिनी
भद्राणां प्रतिपादनाय भजतु प्रत्यक्षतामक्षताम् ।
पत्यौ नित्यरसे समं करुणया पातिव्रतीं बिभ्रती
सर्वग्रन्थिविमोचनी भगवती सा मे समीची कृतिः ॥
इति
श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ स्मृत्यध्याये
॥ द्वितीयमा€ह्निकम् ॥
समाप्तश्च चतुर्थोध्यायः ॥