11 चेष्टादि

मूलम् - 4.2.10

एवं चेष्टालिप्यक्षरादिकमप्यभिप्रायवर्णविशेषाद्यविनाभूतमनुमानमेव । चेष्टायां वरदनारायणभट्टारकैरेवमुक्तम्-
“शब्दस्य व्यवहारस्यानुकारश्चेष्टयापि हि ।
क्रियते शाब्दविज्ञानयोगिनां स्वार्थबोधिका ॥
अनादिव्यवहारेषु चेष्टा विज्ञातशक्तिकाः ।
बोधिकाः स्युर्यथाध्यक्षमिति चेद् भवतो मतम् ॥
चेष्टा गिरो वा स्वीकार्याः परप्रत्यायनाय हि ।
अनादयो गिरामेवानादिता ज्यायसी तदा ॥
चेष्टा सामयिकी शाब्दव्यवहारानुसारिणी ।
अस्यैवं बोधिकेत्येवं भरताद्यागमे स्थिता ॥
दृश्यतेनादिराम्नायोस्मर्यमाणप्रणेतृकः ।”
इत्यादि । तत्त्वरत्नाकरे त्वेवमुक्तम्- “व्युत्पन्नबोध्यबोधकनियमं चेत् चेष्टितं शाब्दम् । अनियतमपि सहदृष्ट्या स्मारकमिति न पृथगेष्टव्यम् इति । लिप्यक्षरेषु तु अयं गकारः अयं घकारः इति वर्णात्मना ज्ञानमप्रमाणमेव । एतेन चिह्नेनेदमक्षरं जानीहीत्यभिप्रायेण लिप्यक्षरसंबन्धग्राहकाणां प्रवृत्तिः । ततश्च व्याप्तिसिद्धिः । एषा लिपिरेतद्वर्णविशेषाभिप्रायपूर्विका, भ्रमादिरहितवर्णाभिप्रायवत्पुरुषलिखितैतल्लिपित्वात्, संप्रतिपन्नव्युत्पत्तिकाललिपिवत्, इत्यादिरूपः प्रयोगो द्रष्टव्यः ।