मूलम् - 4.2.5
उपमानमपि यदि गृह्यमाणपदार्थगतसादृश्यविज्ञानात् स्मर्यमाणपदार्थगतसादृश्यविज्ञानम्, तदा स्मृतिः, तत्तद्वस्तुसंस्थानविशेषाद्यतिरिक्तस्य सादृश्यस्याभावात्, तस्य च पूर्वदृष्टत्वात्, स्मर्यमाणत्वाच्च । व्यवहारोप्यस्त्वपूर्वः तत्तद्व्यवहारवत् प्रतिसम्बन्धविशेषपरामर्शोपाधिकः । यद्वा यो यत्सदृशः, स तद्गतसादृश्यप्रतियोगी; यथा-मिथः स्वहस्तौ, इति व्याप्तिसिद्धौ गौरेतत्सदृशः, एतद्गतसादृश्यप्रतियोगित्वात्, इत्यनुमानात् स्मर्यमाणगतसादृश्यासिद्धिः; अन्यथा गृह्यमाणगतवैसादृश्यज्ञानात् स्मर्यमाणगतवैसादृश्यप्रतीतिरपि मानान्तरं स्यात् । सा चेत् अर्थापत्तिः, सादृश्यधीरपि तथा किं न स्यात् ? इति । अथवा युगपदेव तत्सदृशोयमिति प्रत्ययेनैवोभयवृत्तिसादृश्यस्फुरणान्न तद्धेतुकम्, अन्यथा पृथगनुभूतयोस्तदानीमप्रतीतसादृश्ययोः परस्ताद्युगपत् स्मर्यमाणयोर्युगपदेव प्रतीयमानसादृययोः को निर्वाहः ?, तत्रापि वा प्रमाणान्तरं कल्प्यते ? । यथा गौः तथा गवयः, गोवद् द्विशफो न भवत्यश्वः, दीर्घग्रीवः प्रलम्बोष्ठो विकटाकृतिः पशुः क्रमेलकः, इति तु साधर्म्यवैधर्म्यधर्म्यमात्रविषयम् । त्रिविधमप्यतिदेशवाक्यमागम एव । यत्तु– “श्रुतातिदेशवाक्यस्य गवयादावतिदेशवाक्यार्थप्रत्यभिज्ञानमुपमानम्, तच्च व्युत्पत्तिफलकम्” इति, तदप्यनुपपननम्, प्रागेव व्युत्पत्तिसिद्धेः । यत्तु-
“सादृश्यस्य निमित्तत्त्वान्निमित्तस्याप्रतीतितः ।
समयो दुर्ग्रहः पूर्वं शब्देनानुमयापि वा ॥” इति,
तत्र निमित्तस्याप्रतीतितः, इति त्वसिद्धम्, गवयत्वादेरेव जातिविशेषस्य गोसादृश्याकारोपलक्षितस्य प्रथममेव वाक्यार्थतया प्रतीतिः; गोसादृश्याकारोपलक्षितस्य प्रथममेव वाक्यार्थतया प्रतीतिः; गोसादृश्योपलक्षितः कश्चिद् व्यक्तिविशेषो गवय इति हि प्रतीतिः । पश्चात् प्रत्यक्षितगवयस्य तद्वैशद्यमात्रमेव; उक्तं च श्रीविष्णुचित्तेः- “गोसदृशो गवयः इति गोसादृश्यैकाधिकरणं सामान्यं वाच्यमिति व्युत्पन्नम्, प्रथमं वाक्यार्थतया प्रतीतेः । गोसादृश्योपलक्षितस्यानिर्णये पश्चादप्यनिर्णयः । अन्यथानिर्णये तथा पश्चादपि । ततो वाक्यश्रवणवेलायामेव निर्णितम्” इति । एवं चानभ्युपगमे कथमिन्र्दादिशब्दव्युत्पत्तिः ?; न ह्यत्र निमित्तभूतसंस्थानविशेषादिदृष्टिः । न च नित्यं तत्राव्युत्पत्तिः, तदर्थविशिष्टवाक्यार्थबोधापातात् । एवं नित्यातीन्द्रियविषयसंस्कारादिशब्दानामपि नित्यमव्युत्पत्तिरेव स्यात् । तत्र चेत् कथंचिन्निर्वाहः, तथात्रापि । तत् सिद्धं नोपमानमतिरिक्तम्, इति । 4.2.6
अर्थापत्तिस्त्वनुमानमेव; तथाहि-अनुपपद्यमानदर्शनादुपपादककल्पनं नाम व्याप्याद्व्यापकज्ञानम्, अव्याप्यस्य तेन विनानुपपद्यमानत्वाभावात्, अव्यापकस्य च तदुपपादकत्वायोगात्, इति । प्रमाणद्वयविरोधे सति विषयव्यवस्थापनमर्थापत्तिः, इत्यपि न वाच्यम्, प्रमाणयोः सतोर्विरोधाभावात्, विरुद्धयोरपि प्रामाण्यायोगात् । ननु देवदत्तस्य जीवने कुतश्चित् प्रमाणात् प्रमिते, जीवता क्वचित् स्थातव्यम्, इत्यविशेषेण देशसामान्यसम्बन्धावगतौ गृहमप्यास्कन्दन्त्यां सत्यां प्रत्यक्षे च गृहे तदभावं प्रतिपादयति स्पष्टो विरोधः, अतस्तच्छान्यै बहिर्भावकल्पनमर्थापत्तिः, इति; मैवम्, क्वचिदिति विदितस्य जीवनस्य नियमाभावात्, बहिर्विद्यमानतासंदेहे निश्चयरूपेण गृहाभावप्रत्यक्षेण प्रतिस्पर्धितुमसामर्थ्यात् । न च विरुद्धविषययोर्वास्तवं कुत्रापि समबलत्वं समस्ति;
उभयाप्रामाण्ये तु कथंचित् स्यात् । आभिमानिकबलसाम्येपि तथैव । यदा वैषम्यग्रहः, तदा तत एव बलाबलसिद्धौ किमर्थापत्त्या साध्यम् ? । अतः केवलनिरवकाशविरोधिविशेष्ासन्निधौ सति सावकाशं सामान्यं संकोचयितव्यमिति व्यवस्था स्यात् । सापि च तथैव व्याप्तेः, इत्यनुमानफलमेव; अन्यथा विरोधिविषयत्याग इवाविरोधिविशेषपर्यवसानादावपि मानान्तरकॢप्तिः किं न स्यात् ? । एवमनभ्युपगमे च धूमानुमानादावप्यर्थापत्तित्वप्रसङ्गः । अग्निं विनानुपपद्यमानत्वस्वय लिङ्गप्रत्यक्षरूपप्रमाणद्वयविरोधस्य च वक्तुं शक्यत्वात् । धूमो हि कारणभूतं वह्निमाक्षिपति, प्रतिक्षिपति तु प्रत्यक्षम्, इति विरोधे पर्वतार्वाग्भागे वह्निरिति व्यवस्थाकल्पनस्यार्थापत्तित्वं स्यात् । व्याप्तिनिरूपणमन्तरेण गमकता गमकस्यैव धर्मान्तरयोगितया गम्यते इत्यादिभेदास्त्वाशामात्रकल्पिताः, इति । उक्तं च श्रीविष्णुत्तित्तैः- “अर्थापत्तिरनुमानम्” इत्यादि । केचित्तु केवलव्यतिरेकिणि अर्थापत्तिसंज्ञां निवेशयन्ति । तस्य प्रागेव निरासान्न प्रमाणवर्गानुप्रवेशः । अनुप्रवेशेपि वा न पृथक्त्वम् ॥
न्या. प. श. 55
यत्तु आगमप्रामाण्ये “अनुभवश्चेन्द्रियलिङ्गशब्दसदृशान्यथानुपपद्यमानार्थपूर्वकः” इत्यादिषु उपमानार्थापत्तिपरिग्रहः प्रतिभाति, तदपि पूर्वपक्षप्रदेशगतत्वान्न सिद्धान्तत्वाय कल्पते । 4.2.7
अभावस्त्वस्मन्मते भावान्तरात्मा । स चाक्षादिभिर्यथासंभवं सिध्यति । अभावात्मना तु ग्रहणेपि प्रतियोगिस्मरणादिसहकारिसहितानि तान्येव प्रमाणनीति न तदतिरिक्तकल्पनावकाशः । अतएव हि प्रागर्तजाभावादिविज्ञानमपि निर्व्यूढम्; दृष्ट एव हि देशकालादिसंसर्गादिविशेषः पश्चात् प्रतियोगिस्मरणादिमतः पुरुषस्य तदभावात्मना धियमधिरोहति, स्मर्तव्यस्य स्मरणाभावाद्वा; तत्र तदभावानुमानम् । एवमतिरिक्ताभावपक्षेपि निर्मूला प्रमाणान्तरकॢप्तिः; सघटं भूतलमितिवत् अघटं भूतलमित्यपि ह्यपरोक्षा प्रतीतिः; न चाधिकरणग्रहणोपक्षीणमिन्द्रियम्, गुणादिष्वपि प्रसङ्गात्; अतिरेकवदनतिरेकेप्यज्ञातकरणत्वादीन्यनुमानानि च सुलभानीति । 4.2.8
संभवोप्यनुमानमेव, सहस्रे शतं संभवति इत्यादेः
पूर्वानुभूसहस्रगतव्याप्तिबोधनत्वात्, संभवति क्षत्रिये शैर्यमित्यादेः संदेहात्मकत्वेनाप्रमाणत्वात् । अविरोधनिश्चयरूपत्वेपि तदविरोधनिश्चायकप्रमाणान्तरे विश्रमः ।